Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.s2.22
Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.s2.22
- Language
- English
v2.c83.s2.22
बुधश्चापाक्षपाणिस्स्याज्जीवः कुण्ड्यक्षमालिकः ।
शुक्रः कुण्ड्यक्षमाली स्यात्किङ्किणीसूत्रवाञ्छतिः ॥
अर्धचन्द्रधरो राहुः केतुः खड्गी च दीपभृत् ।
श्वेतवर्णो भवेत्सोमो रक्तो ह्यङ्गारकस्तथा ।
बुधश्च पीतवर्णभस्तादृग्रूपं गुरोस्तथा ॥
गोक्षीरधवलः शुक्रः कृष्णवर्णः शनैश्चरः ।
राजावर्त्तनिभो राहुर्धूम्रः केतुः सदा भवेत् ॥
सोमः कमलहस्तः स्यात् कुजो दण्डकमण्डलू ।
योगासनस्थश्च बुधो गुरुश्चाक्षकमण्डलू ॥
अक्षं कमण्डलुं शुक्रः शनिर्दण्डकमण्डलू ।
अर्धकायः स्थितो केतुः करपुटाकृतिः ॥
सप्ताश्वरथ आदित्यश्चन्द्रो दशहयः स्मृतः ।
मेषारूढोऽङ्गारकश्च बुधः सर्पासनस्थितः ॥
हंसारूढं गुरुं विद्यात् शुक्रं दर्दुरवाहनम् ।
शनिं च महिषारूढं राहुं वै कुण्डमध्यगम् ॥
सर्पपुच्छाकृतिं केतुं शनिं दंष्ट्राकरालकम् ।
किरीटमालाशोभाढ्याः सर्भाभरणभूषिताः ॥
श्वेतस्सोमः कुजो रक्तः बुधः पीतो गुरुस्तथा ।
शुक्रश्श्वेतश्शनिः कृष्णो राहुर्धूम्रास्तु केतवः ॥
पद्महस्तो भवेत्सोमः कुजे दण्डः कमण्डलुः ।
योगासनो बुधो देवो गुरौ चाक्षकमण्डलू ॥
अक्षः कमण्डलुश्शुक्रे शनौ दण्डकमण्डलू ।
अर्धकायस्थितो राहुः केतुः करपुटाकृतिः ॥
सप्ताश्वरथ आदित्यश्चन्द्रो दशहयस्स्थितः ।
मङ्गलो मेषमारूढो बुधस्सपर्सानस्थितः ॥
हंसारूढं गुरुं विद्याद्भेकारूढं च भार्गवम् ।
शनिं महिषमारूढं राहुं कुण्डस्य मध्यगम् ॥
सर्पपुच्छाकृतिं केतुं शनिं दंष्ट्राकरालितम् ।
ग्रहाः किरीटिनः कार्या रक्तकुण्डलशोभिताः ॥
सूर्यस्यायतने स्थाप्या वह्निकोणादितः क्रमात् ।
कुजो जीवस्तमश्शुक्रः केतवो ज्ञश्शनिश्चशी ॥