Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.s2: षष्ठो पटलः: सौर-प्रतिमा-लक्षणम्
Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.s2
- Language
- English
षष्ठो पटलः: सौर-प्रतिमा-लक्षणम्
v2.c83.s2.1
सौर-प्रतिमा-लक्षणम
v2.c83.s2.2
सूर्यादयः दिग्पालाश्च
v2.c83.s2.3
द्विभुजाःपद्महस्ताश्च रक्तपद्मासने स्थिताः ।
रक्तमण्डलसंयुक्ताः करण्डमकुटान्विताः ॥
रक्ताम्बरधरास्सर्वे सर्वाभरणभूषिताः ।
छन्नवीरसमायुक्ता भास्करा द्वादशा इमे ॥
वैवस्वतो विवस्वांश्च मार्तण्डो भास्करो रविः ।
लोकप्रकाशकश्चैव लोकसाक्षी त्रिविक्रमः ॥
आदित्यश्च तथा सूर्य्यः अंशुमांश्च दिवाकरः ।
एते वै द्वादशादित्याश्चोत्तमादिक्रमात्स्थिताः ॥
v2.c83.s2.4
अर्यमा चेन्द्रवरुणौ पूषा विष्णुर्भगस्तथा ।
अजघन्यो जघन्यश्च मित्रो धाता इति स्मृताः ॥
विवस्वांश्चैव पर्जन्यस्त्वादित्या द्वादश स्मृताः ।
द्विभुजाः पद्महस्ताश्च रक्तपद्मासने स्थिताः ॥
रश्मिमण्डलसंयुक्तास्सुरक्ता लोकनायकाः ।
v2.c83.s2.5
वैकर्तनो विवस्वांश्च मार्तण्डो भास्करो रविः ।
लोकप्रकाशकश्चैव लोकसाक्षी त्रिविक्रमः ॥
आदित्यश्च तथा सूर्यः अंशुमांश्च दिवाकरः ।
एते वै द्वादशादित्या एवमाकृतिरुच्यते ॥
द्विभुजाश्च द्विनेत्राश्च पद्मस्थाः पद्महस्तकाः ।
रक्ताम्बरसुवर्णाश्च प्रभामण्डलमण्डिताः ॥
उपवीतसमायुक्तास्सर्वाभरणभूषिताः ।
v2.c83.s2.6
वरुणस्सूर्यनामा च सहस्रांशुस्तथा परः ।
धाता तपनसंज्ञश्च सविताथ गभस्तिमान् ॥
रविश्चैवाथ पर्जन्यस्त्वष्टा मित्रोऽथ विष्णुकः ।
मेषादिराशिसंस्थाश्च मार्गादिकार्तिकान्तगाः ॥
कृष्णो रक्तो मनाग्रक्तः पीतः पाण्डुरकस्सितः ।
कपिलः पीतवर्णश्च शुकाभो धवलस्तथा ॥
धूम्रो नीलः क्रमाद्वर्णाश्शवतयः केसराग्रगाः ।
इडा सुषुम्ना विश्वार्चिरिन्दुसंज्ञा प्रमर्दिनी ॥
v2.c83.s2.7
प्रहर्षणी महाकली कपिला च प्रबोधनी ॥
नीलाम्बरा घनान्ता च अमृताख्या च शक्तयः ।
शृणु वत्स प्रवक्ष्यामि सूर्यभेदांस्तु ते जय ।
यावत्प्रकाशकस्सूर्यो जायते मूर्तिभिर्यथा ॥
दक्षिण पौष्करी माला करे वामे कमण्डलुः ।
पद्माभ्यां शोभितकरा सा धात्री प्रथमा स्मृता ॥
शूलं वामकरे चास्या दक्षिणे सोम एव च ।
मैत्रो नाम त्रिनयना कुशेशयविभूषिता ॥
प्रथमे तु करे चक्रं तथा वामे च कौमुदी ।
मूर्तिराैर्यमणी ज्ञेया सप्तभिः पाणिपल्लवैः ॥
अक्षमाला करे सव्ये चक्रं वामे प्रतिष्ठितम् ।
सा मूर्ती रौद्री ज्ञातव्या प्रधान। पद्मभूषिता ॥
चक्रं तु दक्षिणे यस्या वामे पाशस्सुशोभनः ।
सा वारुणी भवेन्मूर्तिः पद्मव्यग्रकरद्वया ॥
कमण्डलुर्दक्षिणतो माला चाक्षमयी भवेत् ।
सा भवेत्सम्मता सूर्यमूर्तिः पद्मविभूषिता ॥
यस्या दक्षिणतश्शूलं वामहस्ते सुदर्शनः ।
भगमूर्तिस्समाख्याता पद्महस्ता शुभा जय !
अथ वामकरे माला त्रिशूलं दक्षिणे स्मृतम् ।
विवस्वन्मूर्तिरेषा स्यात्पद्मलाञ्छनलक्षिता ॥
पूषाख्यस्य भवेन्मूर्तिर्द्विभुजा पद्मलाञ्छिता ।
सर्वपापहरा ज्ञेया सर्वलक्षणलक्षिता ॥
दक्षिणे तु गदा यस्या वामे चैव सुदर्शनः ।
पद्मव्यग्रा तु सावित्री मूर्तिस्सर्वार्थसाधनी ॥
स्रुवं च दक्षिणे हस्ते वामे होमजकालिकम् ।
मूर्तिस्त्वाष्ट्री भजेत्सा स्यात्पद्मरुद्धकरद्वया ॥
सुदर्शनकरा सव्ये पद्महस्ता तु वामतः ।
एषा स्याद् द्वादशी मूर्तिर्विष्णोरमिततेजसः ॥
धाता मित्रो ऽर्यमा रुद्रो वरुणस्सूर्य एव च ।
भगो विवस्वान् पूषा च सविता दशमस्स्मृतः ॥
एकादशस्तथा त्वष्टा विष्णुर्द्वादश उच्यते ।
v2.c83.s2.8
सूर्यः
v2.c83.s2.9
नासाललाटजङ्घोरुगण्डवक्षांसि चोन्नतानि रवेः ।
कुर्यादुदीच्यवेषं गूढं पादादुरो यावत् ॥
बिभ्राणस्स्वकररुहे पाणिभ्यां पङ्कजे मुकुटधारी ।
कुण्डलभूषितवदनः प्रलम्बहारो वियद्वृतः ॥
कमलोदरद्युतिमुखः कञ्चुकगुप्तस्स्मितप्रसन्नमुखः ।
रत्नोज्ज्वलप्रभामण्डलश्च कर्तुंश्शुभकरोऽर्कः ॥
v2.c83.s2.10
सौम्या तु हस्तमात्रा वसुदा हस्तद्वयोच्छ्रिता प्रतिमा ।
क्षेमसुभिक्षाय भवेत्त्रिचतुर्हस्तप्रमाणायाम् ॥
v2.c83.s2.11
पद्मासनः पद्मकरः पद्मगर्भदलद्युतिः ।
सप्ताश्वरथसंस्थश्च द्विभुजश्च सदागतिः ॥
v2.c83.s2.12
ससप्ताश्वे सैकचक्रे रथे सूर्यो द्विपद्मधृक् ।
मषीभाजनलेखन्यौ विभ्रत्कुण्डी तु दक्षिणे ॥
वामे तु पिङ्गलो द्वारि दण्डभृत्स रवेर्गणः ।
बालव्यजनधारिण्यौ पार्श्वे राज्ञी च निष्प्रभा ॥
अथवाश्वसमारूढः कार्य एकस्तु भास्करः ।
v2.c83.s2.13
रविः कार्यश्शुभश्मश्रुः सिन्दूरारूणसुप्रभः ।
उदीच्यवेषस्स्वाकारस्सर्व्वाभरणभूषितः ॥
चतुर्बाहुर्महातेजाः कवचेनाभिसंवृतः ।
कर्त्तव्या रशना चास्य पानीयाङ्गेति संज्ञिताः ॥
रश्मयस्तस्य कर्त्तव्या वामदक्षिणहस्तयोः ।
ऊर्ध्वं स्त्रग्दामसंस्थाना सर्वैपुष्पचिता शुभा ॥
स्वरूपस्स्वाकारो दण्डः कार्योऽस्य वामतः ।
दक्षिणे पिङ्गलो भागे कार्तव्यश्चातिपिङ्गलः ॥
आपीच्यवेषौ कर्तव्यौ तावुभावपि यादव! ।
तयोर्मूर्ध्नि च विन्यस्तौ करौ कार्यौ विभावसोः ॥
लेखनीपत्रके कार्ये पिङ्गलश्चातिपिङ्गलः ।
चर्मशूलधरो देवस्तथा यत्नाद्विधीयते ॥
सिंहो ध्वजश्च कर्त्तव्यस्तथा सूर्यस्य वामतः ।
चत्वारश्चास्य कर्तव्यास्तनयास्तस्य पार्श्वयोः ॥
रेवन्तश्च यमश्चैव मनुद्वितयमेव च ।
ग्रहराजो रविः कार्यों ग्रहैर्वा परिवारितः ॥
राज्ञी सवर्णा छाया च तथा देवी सुवर्चसा ।
चतस्रश्चास्य कर्तव्याः पत्न्यश्च परिपार्श्वयोः ॥
एकचक्रे च सप्ताश्वे षडश्रे वा रथोत्तरे ।
उपविष्टस्तु कर्तव्यो देवो ह्यरुणसारथिः ॥
v2.c83.s2.14
अदितेः पुत्रभावत्वादादित्यस्त्विति चोच्यते ।
ईश्वरस्यार्धभागे तु जगच्चक्षुरिति स्मृतः ॥
द्विभुजं पद्महस्तं तु रक्तवर्णं सुरूपकम् ।
करण्डमुकुटोपेतं सर्व्वाभरणभूषितम् ॥
मकुटद्विगुणं तारं प्रभामण्डलमध्यगम् ।
उषाश्च प्रत्युषोदेवी सव्यासव्ये तु संस्थिते ॥
v2.c83.s2.15
अरुणं चाग्रतः कृत्वा पङ्गुवत् तत्स्वरूपकम् ।
सप्ताश्वरथमध्यस्थं भास्वरं पापनाशनम् ॥
रक्तपद्मासनस्थं हि आसनं तत्र कल्पयेत् ।
पूर्वोक्तविधिना सर्वमादित्यं परिकल्पयेत् ॥
v2.c83.s2.16
एकचक्रससप्ताश्वससारथिमहारथम् ।
कृत्वा तु स्थापयेत्सूर्यं प्रूरुषाकृतिरूपिणम् ॥
तदर्धं वामतश्शयामं नारीरूपसमन्वितम् ।
कृत्वा तु स्थापयेत्सम्यक्सर्वाभरणभूषितम् ॥
आकुञ्चितसुकेशं तु प्रभामण्डलसंयुतम् ।
मकुटं वा विधातव्यन्यत्सर्वं सुमण्डलम् ॥
हस्तद्वयलसत्पद्मं कञ्चुकाञ्चितविग्रहम् ।
एकवस्त्रं द्विदोर्दण्डं स्कन्धे सक्तकराम्बुजम् ॥
रथोपेत्तं विना वाथ केवलं पद्मसंस्थितम् ।
पादौ सकटकौ तस्य स्थिरं पद्मासने स्थितम् ॥
जातिहिङ्गुल्यवर्णस्था? संस्थाप्यं सूर्यमण्डलम् ।
v2.c83.s2.17
रक्तवर्णो महातेजा द्विबाहुः पद्मभृद्रविः ।
सप्तभिस्तुरगैर्युक्तो सर्वरज्जुसमन्विते ॥
एकचक्रे रथे तिष्ठन्पादाक्रान्तसरोरुहः ।
माणिक्यकुण्डलोपेतः पद्मरागकिरीटकः ॥
रक्ताम्बरधरो रम्यस्सुव्यक्ताङ्गो मनोहरः ।
अनूरुसारथिः कार्यः प्रतिहारौ च पार्श्वयोः ॥
दण्डपिङ्गलनामानौ खड्गखेटकधारिणौ ।
v2.c83.s2.18
आदित्यस्य प्रवक्ष्यामि मूर्तिं... ... ।
रक्तवर्णो महातेजाः शतपद्मोपरिस्थितः ॥
सर्वलक्षणसंयुक्तः सर्वाभरणभूषितः ।
द्विभुजश्चैकवक्त्रश्च श्वेतपङ्कजधृत्करः ॥
तेजोवर्तुलबिम्बस्य मध्यस्थो रक्तवाससः ।
इदमादित्यरूपं स्यात् सर्वपापप्रणाशनम् ॥
v2.c83.s2.19
सर्वलक्षणसंयुक्तं सर्वाभरणभूषितम् ।
द्विभुजं चैकवक्त्रं च श्वेतपङ्कजधृत्करम् ॥
वर्तुलं तेजसो बिम्बं मध्यस्थं रक्तवाससम् ।
आदित्यस्य त्विदं रूपं कुर्यात्पापप्रणाशनम् ॥
v2.c83.s2.20
आदित्यपरिवाराः—नवग्रहाःनवग्रहमूर्तयश्च
v2.c83.s2.21
तेजश्चण्डो महावक्रो द्विभुजः पद्मखड्गभृत् ।
कुण्डिकाजप्यमालीन्दुः कुजश्शक्त्यक्षमालिकः ॥
v2.c83.s2.22
बुधश्चापाक्षपाणिस्स्याज्जीवः कुण्ड्यक्षमालिकः ।
शुक्रः कुण्ड्यक्षमाली स्यात्किङ्किणीसूत्रवाञ्छतिः ॥
अर्धचन्द्रधरो राहुः केतुः खड्गी च दीपभृत् ।
श्वेतवर्णो भवेत्सोमो रक्तो ह्यङ्गारकस्तथा ।
बुधश्च पीतवर्णभस्तादृग्रूपं गुरोस्तथा ॥
गोक्षीरधवलः शुक्रः कृष्णवर्णः शनैश्चरः ।
राजावर्त्तनिभो राहुर्धूम्रः केतुः सदा भवेत् ॥
सोमः कमलहस्तः स्यात् कुजो दण्डकमण्डलू ।
योगासनस्थश्च बुधो गुरुश्चाक्षकमण्डलू ॥
अक्षं कमण्डलुं शुक्रः शनिर्दण्डकमण्डलू ।
अर्धकायः स्थितो केतुः करपुटाकृतिः ॥
सप्ताश्वरथ आदित्यश्चन्द्रो दशहयः स्मृतः ।
मेषारूढोऽङ्गारकश्च बुधः सर्पासनस्थितः ॥
हंसारूढं गुरुं विद्यात् शुक्रं दर्दुरवाहनम् ।
शनिं च महिषारूढं राहुं वै कुण्डमध्यगम् ॥
सर्पपुच्छाकृतिं केतुं शनिं दंष्ट्राकरालकम् ।
किरीटमालाशोभाढ्याः सर्भाभरणभूषिताः ॥
श्वेतस्सोमः कुजो रक्तः बुधः पीतो गुरुस्तथा ।
शुक्रश्श्वेतश्शनिः कृष्णो राहुर्धूम्रास्तु केतवः ॥
पद्महस्तो भवेत्सोमः कुजे दण्डः कमण्डलुः ।
योगासनो बुधो देवो गुरौ चाक्षकमण्डलू ॥
अक्षः कमण्डलुश्शुक्रे शनौ दण्डकमण्डलू ।
अर्धकायस्थितो राहुः केतुः करपुटाकृतिः ॥
सप्ताश्वरथ आदित्यश्चन्द्रो दशहयस्स्थितः ।
मङ्गलो मेषमारूढो बुधस्सपर्सानस्थितः ॥
हंसारूढं गुरुं विद्याद्भेकारूढं च भार्गवम् ।
शनिं महिषमारूढं राहुं कुण्डस्य मध्यगम् ॥
सर्पपुच्छाकृतिं केतुं शनिं दंष्ट्राकरालितम् ।
ग्रहाः किरीटिनः कार्या रक्तकुण्डलशोभिताः ॥
सूर्यस्यायतने स्थाप्या वह्निकोणादितः क्रमात् ।
कुजो जीवस्तमश्शुक्रः केतवो ज्ञश्शनिश्चशी ॥
v2.c83.s2.23
१. सोमः
v2.c83.s2.24
चन्द्रश्श्वेतवपुः कार्यश्श्वेताम्बरधरः प्रभुः ।
चतुर्बाहुर्महातेजास्सर्व्वाभरणभूषितः ॥
कुमुदौ च सितौ कार्यों तस्य देवस्य हस्तयोः ।
कान्तिर्मूत्तिमती कार्या तस्य पार्श्वे तु दक्षिणे ॥
वामे शोभा तथा कार्या रूपेणाप्रतिमा भुवि ।
v2.c83.s2.25
चिह्नं तथास्य सिंहाङ्कं वामपार्श्वेऽर्कवद्भवेत् ॥
दशाश्वे च रथे कार्यो द्विचक्रे वरसारथौ ।
श्वेतश्श्वेताम्बरधरश्श्वेताश्वश्वेतभूषणः ।
गदापाणिर्द्विबाहुश्च कर्तव्यो वरदश्शशी ॥
सोमंस्सिंहासनासीनः कुन्दशङ्खसमद्युतिः ।
प्रभामण्डलसंयुक्तो द्विभुजस्सौम्यवक्त्रकः ॥
आसीनो वा स्थितो वापि कुमुदोज्वलर्कं करः ।
हेमयज्ञोपवीताङ्गस्सर्वभरणभूषितः ॥
शुक्लवस्त्रधरश्शान्तस्सर्वपुष्पैरलङ्कृतः ।
सोम एवं समाख्यातः ......... ॥
चन्द्रश्चित्रे विधातव्यश्श्वेताम्बरसमावृतः ।
दशश्वेताश्वसंयुक्तमारूढं स्यन्दनं शुभम् ॥
द्विभुजं दक्षिणे पाणौ गदां बिभ्रत्पथूदरीम् ।
वामस्तु वरदो हस्तश्शशाङ्कस्य निरूच्यते ॥
रक्तमाल्याम्बरधरश्शक्तिशूलगदाधरः ।
चतुर्भुजो मेषगमो वरदस्याद्वरासुतः ॥
'भौमोऽग्नितुल्यः कर्तव्यस्त्वष्टाश्वे काञ्चने रथे'
धरापुत्रस्य वक्ष्यामि लक्षणं चित्रकर्मणि ।
चतुर्भुजो मेषगमश्चाङ्गारकसमद्युतिः ॥
दक्षिणं तद्वरं हस्तं वरदं परिकल्पयेत् ।
ऊर्ध्वं शक्तिसमायुक्तं वामौ शुक्ल गदाधरौ ॥
'विष्णुतुल्यो बुधः कार्यो भौमतुल्ये तथा रथे'
सिंहारूढं संप्रवक्ष्ये कर्णिकारसमप्रभम् ।
पीतमाल्याम्बरधरं स्वर्णभूषणभूषितम् ॥
वरदं खड्गसंयुक्तं खेटकेन समन्वितम् ।
गदया च समायुक्तं बिभ्राणं दोश्चतुष्टयम् ॥
एवं लिखेच्चन्द्रसूनुं बुधं ग्रहपतिं शुभम् ।
तप्तजाम्बूनदाकरो द्विभुजश्च बृहस्पतिः ।
पुस्तकं चाक्षमाला च करयोस्तस्य कारयेत् ॥
सर्वाभरणयुक्तश्च तथा पीताम्बरो गुरुः ।
अष्टाश्वे काञ्चने दिव्ये रथे दृष्टिमनेोरथे ॥
शुक्रश्श्वेतवपुः कार्यश्श्वेताम्बरधरस्तथा ।
द्वौ करो कथितौ तस्य निधिपुस्तकसंयुतौ ॥
दशाश्वे वा रथे कार्यो राजते भृगुनन्दनः ।
ततो देवगुरूलेक्ष्यश्शुक्रश्च भृगुनन्दनः ।
चतुर्भिबाहुभिर्युक्तश्चित्रकर्मविशारदैः ॥
v2.c83.s2.26
वरदौ साक्षसूत्रौ च कमण्डलुधरौ तथा ।
दण्डिनौ च तथा बाहौ बिभ्राणौ परिकल्पयेत् ॥
कृष्णवासास्तथा कृष्णश्शनिः कार्योऽसिताननः ।
दण्डाक्षमालासंयुक्तः करद्वितयभूषणः ॥
काष्णायसे रथे कार्यस्तथैवाष्टतुरङ्गमे ।
शनैश्चरः कृष्णवर्णो द्विभुजस्सितवाससा ।
करण्डकुटोपेतस्सर्वभरणभूषणः ॥
दण्डं दक्षिणहस्ते तु वरदं वाममुच्यते ।
स्थानकं पद्मपीठे तु शुक्लवस्त्रधरश्शुचिः ॥
ईषत्पङ्गुरिव स्थाने ईषद्ध्रस्वस्तनुस्स्मृतः ।
रौप्ये रथे तथाष्टाश्वे राहुः कार्यो विचक्षणैः ।
कम्बलं पुस्तकं कार्यं भुजेनैकेन संयुतम् ॥
करमेकं तु कुर्याच्च शस्त्रशून्यं तु दक्षिणम् ।
सिंहासनगतं राहुं करालवदनं लिखेत् ।
वरदं खड्गसंयुक्तं खेटशूलधरं क्रमात् ॥
भौमवच्च तथा रूपं केतोः कार्यं विजानता ।
केवलं चास्य कर्तव्या दश राजंस्तुरङ्गमाः ॥
धूम्रा द्विबाहवस्सर्वे वरदाश्च गदाधराः ।
गृध्रपृष्ठसमारूढा लेखनीयास्तु केतवः ॥
गृध्राः किरीटिनः कार्या नवतालप्रमाणकाः ।
रक्तकुण्डलकेयूरहाराभरणभूषिताः ॥
v2.c83.s2.27
सौरमायतनम्
v2.c83.s2.28
अग्नेय्यां तु कुजः स्थाप्यो गुरुर्याम्ये प्रतिष्ठितः ।
नैरृत्ये राहुसंस्थानं पश्चिमे चैव भार्गवः ॥
वायव्ये केतुसंस्थानं सौम्यायां बुध एव च ।
ईशाने च शनि दद्यात् प्राच्यां चैव तु चन्द्रमाः ॥
v2.c83.s2.29
सौरप्रतीहाराः
v2.c83.s2.30
भूयस्तव प्रवक्ष्यामि दण्डनायकपिङ्गलौ ।
राज्ञस्त्रोषादयश्चान्ये दिग्देवा दिण्डिना सह ॥
मया सह समागम्य पुरा देवैर्विचारितम् ।
एष कारुणिकस्सूर्यो युध्यते दानवैस्सह ॥
ते तु लब्धवरा भूत्वा अमात्याद्या ह्यभीक्ष्णशः ।
आदित्यं मन्यमानास्ते तपन्तं हन्तुमुद्यताः ॥
तस्मात्तेषां विघातार्थं प्रवराश्च भवामहे ।
अस्माभिः प्रतिरुद्धास्ते न द्रक्ष्यन्ति दिवाकरम् ॥
v2.c83.s2.31
संमत्यैवं ततस्कन्दो वामपार्श्वे रवेःस्थितः ।
दण्डनायकसंज्ञस्तु सर्वलोकस्य स प्रभुः ॥
उक्तश्च स तदार्केण त्वं प्रजादण्डनायकः ।
दण्डनीतिकरो यस्मात्तस्मात्त्वं दण्डनायकः ॥
लिखते यः प्रजानां च सुकृतं यच्च दुष्कृतम् ।
अग्नेर्दक्षिणपार्श्वे तु पिङ्गलत्वात्स पिङ्गलः ॥
अश्विनौ वापि सूर्यस्य पार्श्वयोरुभयोःस्थितौ ।
अश्वरूपात्समुत्पन्नौ तेन तावश्विनौ सुरौ ॥
द्वारपालौ स्मृतौ तस्य राज्ञः श्रेष्ठौ महाबलौ ।
कार्तिकेयस्स्मृतो राज्ञा श्रेष्ठश्चापि हरस्स्मृतः ॥
राजृदीप्तौ स्मृतो धातुर्नकारस्तस्य प्रत्ययः ।
सुरसेनापतित्वेन स यस्माद्दीप्यते सदा ॥
तस्मात्स कार्तिकेयस्तु नाम्ना राज्ञ इति स्मृतः ।
सृगतौ च स्मृतो धातुर्यस्य स प्रत्ययस्स्मृतः ॥
गच्छतीति रहस्तस्मात्पर्यायात्स्नौष उच्यते ।
प्रथमं यद्भवेद्द्वारं धर्मार्थाभ्यां समाश्रितम् ॥
तत्रैतौ संस्थितौ देवौ लोकपूज्यौ द्विजोत्तमाः ! ।
द्वितीयां तु कक्ष्यायामप्रधृष्टौ व्यवस्थितौ ॥
पक्षिप्रैताधिपौ नाम्ना स्मृतौ कल्माषपक्षिणौ :
वर्णस्य शबलत्वाच्च यमः कल्माष उच्यते ॥
पक्षावस्येति यः पक्षी गरुडः परिकीर्तितः ।
स्थितो दक्षिणतस्तस्य दण्डहस्तसमन्वितः ॥
उत्तरेण स्थितोऽर्कस्य कुबेरश्च विनायकः ।
कुबेरो धनदो ज्ञेयो हस्तिरूपो विनायकः ॥
कुत्सया कुप्यता शप्तं कुशरीरमजायत् ।
कुबेरः कुशरीरत्वात्स नाम्ना धनदस्स्मृतः ॥
नायकस्सर्वसत्त्वानां तेन नायक उच्यते ।
विविधं नयते यस्मात् स तु तस्माद्विनायकः ॥
रेवतश्चैव दिण्डिश्च तौ रवेः पूर्वतस्स्थितौ ।
ततो दिण्डिस्स्मृतो रुद्रो रेवतस्तनयो रवेः ॥
प्लुतं गच्छत्यसौ यस्मात्सर्वलोकनमस्कार्तः ।
रेवॄप्लवगतौ धातूरेवतस्तेन स स्मृतः ॥
डिङ्गतावस्य वै धातोर्दिण्डिशब्दो निपात्यते ।
डयतेऽसौ सदा दिण्डी तेन दिण्डिः प्रकीर्तितः ॥
इत्येते प्रवराः प्रोक्ता धात्वर्था नैगमैश्शुभैः ।
एषां संक्षेपतो भूयस्संख्यां वो निगदामि वै ।
v2.c83.s2.32
अश्विनौ तौ ततो ज्ञेयौ दण्डनायकपिङ्गलौ ।
तौ सूर्यद्वारपौ ज्ञेयौ राज्ञस्त्रीषो ततस्मृतौ ॥
रेवतश्चैव दिण्डिश्च इत्येते प्रवरा मया ।
अष्टादश समाख्यातास्संक्षेपात्संख्यया मया ॥
दण्डी च पिङ्गलश्चैव ह्यानन्दो नन्दकस्तथा ।
चित्रो विचित्रो ज्ञातव्याः किरणाक्षःसुलोचनः ॥
सर्वे ते पुरुषाकाराः कर्तव्यः शान्तिमिच्छता ।
अष्टौ स्युश्च चतुर्द्वाःसु सव्यदक्षिणतः क्रमात् ॥
तर्जनी किरणश्चैव ताम्रचूडश्च दण्डकः ।
दण्डी नाम तथा वामे शृणु पिङ्गलकस्य च ॥
शक्तिश्च किरणस्थाने ताम्रचूडपदेंशकः ।
पूर्ववत् तर्जनीदण्डौ पिङ्गलः पूर्वदक्षिणे ॥
तर्जन्यौ द्वे वज्रदण्डावानन्दक इति स्मृतः ।
तर्जनी दण्डापसव्ये संभवे दन्तकस्तथा ॥
द्वे तर्जन्यौ पद्मदण्डौ वामातश्चित्रकः स्मृतः ।
तर्जनी दण्डापसव्ये विचित्रो दक्षिणे स्थितः ॥
तर्जन्यौ किरणो दण्डः किरणाक्षस्तथैव च ।
तर्जनी दण्डापसव्यौ प्रतीहारः सुलोचनः ॥
इत्यष्टौ च प्रतीहाराः सर्वविघ्नप्रणाशनाः ।
सर्वे तेजोमया नित्यं सूर्यदेवप्रत्यत्मकाः ॥
तर्जन्यंगुताम्रचूडदण्डैर्दण्डी तु वामतः ।
तर्जनीशक्ति किरणदण्डैस्स्यात्पिङ्गलः परः ॥
द्वे तर्जन्यौ वज्रदण्डावानन्दो वामगो दधत् ।
तर्जनीदण्डापसव्ये विचित्रो दक्षिणे स्थितः ॥
द्वे तर्जन्यौ पद्मदण्डौ चित्रो धत्ते स वामतः ।
तर्जनीदण्डापसव्ये विचित्रो दक्षिणे स्थितः ॥
तर्जन्यौ किरणं दण्डः किरणाक्षस्तु धारयेत् ।
तर्जनीदण्डापसव्ये प्रतीहारस्सुलोचनः ॥
चतुर्द्वारेषु संस्थाप्या दिशास्वेते प्रदक्षिणम् ।
v2.c83.s2.33
दिग्पालाः लोकपालाः वा
v2.c83.s2.34
सामान्यलक्षणम्
v2.c83.s2.35
त्रिदेशेशः सहस्राक्षो वज्रभृत् सुभुजो बली ।
किरीटी सगदः श्रीमान् श्वेताम्बरधरस्तथा ॥
श्रोणिसूत्रेण महता दिव्याभरणभूषितः ।
कार्यो राजश्रिया युक्तः पुरोहितसहायवान् ॥
वैवस्वस्तु विज्ञेयः कालेः केसं? परायणः ।
तेजसा सूर्यसङ्काशो जाम्बूनदविभूषितः ॥
v2.c83.s2.36
सम्पूर्णचन्द्रवदनः पीतवासा शुभेक्षणः ।
विचित्रमुकुटः कार्यो वराङ्गदविभूषितः ॥
तेजसा सूर्यसङ्काशः कर्तव्यो बलवाञ्छुभः ।
धन्वन्तरिर्भरद्वाजः प्रजानीयतयस्तथा ? ॥
दक्षार्थाः सदृशाः कार्या कार्यो रूपाणि ०.०रपि ।
अर्चिष्मान् ज्वलनः कार्यः यत्कण्ठाश्वसमीरणः ॥
@H : (ii) अ० पृ० :
वरं वज्राङ्कुशौ चैव कुण्डीं धत्ते करैस्तु यः ।
गजारूढः सहस्राक्ष इन्द्रो वै पूर्वतः स्थितः ॥
वरदः शक्तिहस्तश्च समृणालकमण्डलुः ।
ज्वालापुञ्जनिभो देवो मेषारूढो हुताशनः ॥
लेखनीं पुस्तकं धत्ते कुक्कुटं दण्डमेव च ।
सुमहामहिषारूढो यमः कृष्णाङ्ग ईरितः ॥
खड्गं च खेटकं हस्ते कर्त्री चैवारिमस्तकम् ।
दंष्ट्रालम्बमुखीं कुर्याच्छ्वारूढां च निऋतिम् ॥
वरं पाशं च कमलं करैर्विभ्रत्कमण्डलुम् ।
कर्तव्यो मकरारूढो वरुणः पश्चिमे तथा ।
वरं ध्वजं पताकां च दधद्धस्तैः कमण्डलुम् ।
मृगारूढो हरिद्वर्णः पवनो वायुदिक्पतिः ॥
गदां निधिं बीजपूरं करैर्विभ्रत्कमण्डलुम् ।
गजारूढः प्रकर्तव्यो धनदश्चोत्तरे तथा ॥
वरदं च त्रिशूलं च नागेन्द्रं बीजपूरकम् ।
वृषारूढश्च कर्तव्य ईशानो धवलद्युतिः ॥
@H इन्द्रः
@H (i) अ० आ०
श्यामवर्णं द्विहस्तं च रक्ताम्बरधरं शुभम् ।
किरीटमुकुटोपेतं सर्वाभरणभूषितम् ॥
शक्तिर्दक्षिणहस्ते तु वामहस्तेऽङ्कुशं धृतम् ।
विशालोदरग्रीवं च वामे शचीसमन्वितम् ॥
द्विनेत्रं सौम्यवदनं सिहासनोपरि स्थितम् ।
आसीनं वा प्रकर्तव्यं गजारूढमथापि वा ॥
इन्द्रमेवं समाख्यातमश्विन्यौ च प्रवक्ष्यते ।
@H (ii) सु० आ०
इन्द्रमैन्द्रे तु मतिमांस्त्विन्द्रो वज्राङ्कुशौ दधत् ।
श्यामाङ्गं तु गजारूढमप्सरोगणसंयुतम् ॥
@H (iii) पू० कार०
वज्रपाणिर्महावीरस्तिसहस्कन्धोऽवलीमधुक् ।
ललाटोरस्थलायामपीवरोरुर्महोदरः ॥
प्रसन्नवदनश्श्यामवर्णो रक्ताम्बरस्सुखी ।
किरीटकुण्डली हारकेयूरादिविभूषितः ॥
पृथुशिरोगजारूढो देवराजश्शचीपतिः ।
v2.c83.s2.37
सुरराजं प्रवक्ष्येऽहमैरावतसमाश्रितम् ।
किरीटकुण्डलधरं भुजद्वयसमन्वितम् ॥
कुलिशं दक्षिणे पाणौ वामहस्ते तथोत्पलम् ।
दिव्यरत्नविभूषाढ्यं दिव्यचीनांशुकैर्युतम् ॥
चित्रचामरधारिण्यौ स्त्रियौ पार्श्वे प्रकल्पयेत् ।
सिंहासनस्थमथवा लिखेद् गन्धर्वसंयुतम् ॥
इन्द्राणीं वामहस्तस्य लिखेदुत्पलधारिणीम् ।
v2.c83.s2.38
शुक्लश्चतुर्विषाणो द्विपो महेन्द्रस्य वज्रपाणित्वं च ।
तिर्यग्ललाटसंस्थं तृतीयमपि लोचनं चिह्नम् ॥
v2.c83.s2.39
चतुर्दन्ते गजे सक्तः श्वेतः कार्यस्स्रुरेश्वरः ।
वामोत्सङ्गगता कार्या तस्य भार्या शची नृप ! ॥
नीलवस्त्रा सुवर्णाभा सर्वाभरणवांस्तथा ।
तिर्यग्ललाटकस्थाक्षः कर्तव्यश्च विभूषितः ॥
शक्रश्चतुर्भुजः कार्यो द्विभुजा च तथा शची ।
पद्माङ्कुशौ च कर्तव्यौ वामदक्षिणहस्तयोः ॥
वामं शचीपृष्ठगतं द्वितीयं वज्रसंयुतम् ।
वामे शच्याः करे कार्या रम्या सन्तानमञ्जरी ॥
दक्षिणं पृष्ठविन्यस्तं देवराजस्य कारयेत् ।
v2.c83.s2.40
वरं वराङ्कुशौ चैव कुण्डीं धत्ते करैस्तु यः ।
गजारूढः सहस्राक्ष इन्द्रः पूर्वदिशाधिपः ॥
v2.c83.s2.41
अग्निः
v2.c83.s2.42
वच्मीह वह्निरूपं तु रक्तवर्णं चतुर्भुजम् ।
वरदाभयहस्तं च . . . . . ॥
शक्तिस्तस्यादपरे वामे दक्षिणे तु स्रुचं धरम् ।
एकाननं त्रिनेत्रं च रक्तकेशोर्ध्वमेव च ॥
v2.c83.s2.43
कृत्वा चाग्निमजारूढं रक्ताभं रक्तलोचनम् ।
शिखाभिरूर्ध्वगाभिश्च युक्तं शक्तिस्रुवं धरम् ॥
v2.c83.s2.44
अर्धचन्द्रासनासीनो ब्रह्मरूपो हुताशनः ।
प्रज्वलत्काञ्चनज्योतिः पिङ्गलः पिङ्गलोचनः ॥
हेमकूर्चाग्रसदृशस्वरूपं च शिरोरुहम् ।
तरुणादित्यसंकाशं तद्वस्त्रमुपवीतकम् ॥
अक्षमाला च शक्तिश्च दक्षिणेऽक्षिणेऽपि च ।
ज्वालामालाकुलं तीव्रं पार्श्वस्थं ह्यंशुमण्डलम् ॥
मेषारूढं च कुण्डस्थो योगपट्टेन वेष्टितम् ।
दक्षिणे तु स्थिता स्वाहा रत्नकुण्डलमण्डिता ॥
v2.c83.s2.45
वह्नेस्स्वरूपं वक्ष्यामि शुद्धकाञ्चनसुप्रभम् ।
अर्धचन्द्रासनगतं रक्तवस्त्रविराजितम् ॥
v2.c83.s2.46
लोहितं वा प्रकुर्वीत बालार्कसमतेजसम् ।
युक्तं यज्ञोपवीतेन लम्बकूर्चेन शोभितम् ॥
मेषपृष्ठस्थितं देवं भुजद्वयसमन्वितम् ।
दक्षिणे चाक्षसूत्रं स्यात् करे वामे कमण्डलुः ॥
स्वाहादेवी कृता पार्श्वे कुङ्कुमेन विलोपिता ।
अरुणैरम्बरैर्भव्या लेख्या मात्र ? विभूषिता ॥
कुण्डस्थो वा प्रकर्तव्यो हव्यवाहो विचक्षणैः ।
ज्वालाभिस्सप्तशीर्षेण शोभमानो महाद्युतिः ॥
v2.c83.s2.47
रक्तं जटाधरं वह्निं कारयेद्धू भ्रवाससम् ।
ज्वालामालाकुलं सौम्यं त्रिनेत्रं श्मश्रुधारिणम् ॥
चतुर्बाहुं चतुर्दंष्ट्रं देवेशं वायुसारथिम् ।
चतुर्भिश्च शुकैर्युक्त धूमचित्तरथे स्थितम् ॥
वामोत्सङ्गगता स्वाहा शक्रस्येव शची भवेत् ।
रत्नपात्रकरा देवी वह्नेर्दक्षिणहस्तयोः ॥
ज्वालात्रिशूले कर्त्तव्ये त्वक्षमाल्यं च वामके ।
v2.c83.s2.48
वरदः शक्तिहस्तश्च समृणालकमण्डलुः ।
ज्वालापुञ्जनिभो देवो मेषारूढो हुताशनः ॥
v2.c83.s2.49
वैवस्वतः यमः
v2.c83.s2.50
द्विभुजः कृष्णवर्णस्तु खङ्गखेटकधारिणी ।
करालदंष्ट्रवदनो रक्तमाल्यानुलेपनः ॥
रक्तवस्त्रधरोऽग्रश्च किरीटमकुटान्वितः ।
दीप्ताग्निसदृशाक्षश्च महामहिषवाहनः ॥
यमस्त्वेवं हि पार्श्वस्थौ तमस्रौ चोग्रवक्त्रकौ ।
चित्रगुप्तः कलिंश्चैव द्वारपार्श्वे तु संस्थितौ ॥
कृष्णश्यामनिभौ तौ च रक्तवस्त्रधरावुभौ ।
पीठपार्श्वस्थितौ मृत्युसंहितौ व्युग्रतेजसौ ॥
नीललोहितसङ्काशौ द्वौ चामरधृते स्त्रियौ ।
पुरतः संस्थितौ विप्रौ धर्माधर्मसमाह्वयौ ॥
यमंस्सिंहासनासीनो महिषारोहितहस्तु वा ।
v2.c83.s2.51
यमं सुदण्डहस्तं तु महिषासनसंस्थिम् ।
करालं कालवर्णं च फलपल्लवपाणिनम् ॥
v2.c83.s2.52
दण्डपाणिर्महादीप्तः कालाञ्जनसमच्छविः ।
महामहिषिकारूढो दीप्ताग्निसमलोचनः ॥
v2.c83.s2.53
पितृराजं प्रवक्ष्यामि नीलाञ्जनसमच्छविम् ।
दण्डं पाशं धनुर्दोर्भ्यां प्रदीप्ताग्निविलोचनम् ॥
महामहिषमारूढं सिंहासनमथापि वा ।
मृत्युना चित्रगुप्तेन पार्श्वयोरुपशोभितम् ॥
v2.c83.s2.54
करालैः किंकरैश्चैव सुरासुरगणैस्तथा ।
v2.c83.s2.55
धर्म्मिभिः पापिभिश्चैव सेव्यमानं निरन्तरम् ॥
v2.c83.s2.56
सजलाम्बुदसच्छांयस्तप्तचामीकराम्बरः ।
v2.c83.s2.57
महिषस्थश्च कर्तव्यस्सर्वाभरणवान् यमः ॥ नीलोत्पलाभां धूमोर्णां वामोत्सङ्गे च कारयेत् । धूमोर्णा द्विभुजा कार्या यमः कार्यश्चतुर्भुजः ॥ दण्डखड्गावुभौ कार्यो यमदक्षिणहस्तयोः । ज्वाला त्रिशूला कर्तव्या त्वक्षमाला च वामके ॥ दण्डोपरि मुखं कार्यं ज्वालामालाविभूषणम् । धूमोर्णा दक्षिणो हस्तो यमपृष्ठगतो भवेत् ॥ वामे तस्याः करे कार्यं मातुलुङ्गं सुदर्शनम् । पार्श्वे तु दक्षिणे तस्य चित्रगुप्तं तु कारयेत् ॥ आपीच्यवेषं स्वाकारं द्विभुजं सौम्यदर्शनम् । दक्षिणे लेखनी तस्य वामे पत्रं तु कारयेत् ॥ वामे पाशधरः कार्यः कालो विकटदर्शनः ।
v2.c83.s2.58
लेखनीं पुस्तकं धत्ते कुक्कुटं दण्डमेव च ।
v2.c83.s2.59
महामहिषमारूढो यमः कृष्णाङ्ग ईरितः ॥
v2.c83.s2.60
निर्ऋतिः
v2.c83.s2.61
निर्ऋतिर्नीलवर्णस्तु द्विभुजश्च महातनुः ।
v2.c83.s2.62
खड्गं दक्षिणहस्तेन वामहस्तेन खेटकम् ॥ पीतवस्त्रधरं रौद्रं करालास्यं च दंष्ट्रिणम् । सर्वाभरणसंयुक्तं नानापुष्पैरrawकृतम् ॥ दुकूलवसनास्सर्वाः पीनोरुजघनस्तनाः । मध्यक्षामातिसौम्याश्च किञ्चित्प्रहसिताननाः ॥ नानागन्धानुलिप्ताङ्गा भद्रपीठोपरिस्थिताः । समभङ्गसमायुक्तास्सप्तसङ्ख्याप्सरास्स्मृताः ॥ अप्सरैश्च समायुक्तो निर्ऋतिश्च विशेषतः ।
v2.c83.s2.63
खङ्गखेटकसंयुक्तं निर्ऋतिश्यामवर्णकम् ।
v2.c83.s2.64
करालं विकृताकारं सिंहारूढं द्विनेत्रकम् ॥
v2.c83.s2.65
राक्षसेशो विशालाक्षः पीतवस्त्रश्शवासनः ।
v2.c83.s2.66
निर्ऋतिस्सुस्थितासीनः खड्गहस्तो महोज्वल ॥
v2.c83.s2.67
राक्षसं संप्रवक्ष्यामि नैर्ऋते स्थितम् ।
v2.c83.s2.68
नरयानसमारूढं रक्षोभिर्बहुभिर्वृतम् ॥ कालमेघसमाभासं खङ्गखेटकधारिणम् । पीतवस्त्रपरीधानं स्वर्णभूषाविभूषितम् ॥
v2.c83.s2.69
विरूपाक्षो विवृतास्यः प्रांशुदंष्ट्रोज्वलsrcनः ।
v2.c83.s2.70
अर्ध्वकेशी च खरस्थश्च द्विबाहुर्भीषणाननः ॥ कर्णेन कृष्णरक्ताङ्गः कृष्णाम्बरधरस्तथा ।
v2.c83.s2.71
सर्वाभरणवान् दंष्ट्रासङ्गीर्दण्डधरस्तथा ॥
भार्याश्चतस्रः कर्तव्या देवी च निर्ऋतिस्तथा ।
कृष्णाङ्गी कृष्णवदना पाशहस्ता तु वामतः ॥
v2.c83.s2.72
खड्गं च खेटकं हस्तैः कर्तिकां वैरिस्तकम् ।
दंष्ट्राकरालवदनं श्वानारूढश्च राक्षसः ॥
v2.c83.s2.73
वरुणश्शुक्लवर्णस्तु द्विभुजः पाशहस्तकः ।
सर्वाभरणसंयुक्तः करण्डमुकुटान्वितः ॥
पीतवस्त्रधरश्शान्तो महाबलसमन्वितः ।
यज्ञसूत्रसमायुक्तो मकरस्थानकासनः ॥
v2.c83.s2.74
वरुणं पाशहस्तं तु शुक्लवर्णंसमप्रभम् ।
अन्यहस्तेन वरदं सर्वाभरणभूषितम् ॥
v2.c83.s2.75
शङ्खकुन्देन्दुधवलः पाशहस्तो महाबलः ।
केयूरकुण्डली हारी पीतवासास्सुशोभनः ॥
आसीनो वा स्थितो वापि मकरे वरुणस्मृतः ।
v2.c83.s2.76
सप्तहंसे रथे कार्यो वरुणो यादसां पतिः ।
स्निग्धवैदूर्यसंङ्काशः श्वैताम्बरधरस्तथा ॥
किंचित्प्रलम्बजठरो मुक्ताहारविभूषितः ।
सर्वाभरणवान्राजन् ! महादेवश्चतुर्भुजः ॥
वामभागगतं केतुं मकरं तस्य कारयेत् ।
छत्रं तु सुसितं मूर्धिन भार्या सर्वाङ्गसुन्दरी ॥
वामोत्सङ्गगता कार्या मध्ये तु द्विभुजा नृप! ।
उत्पलं कारयेद्वामे दक्षिणं देवपृष्ठगम् ॥
पद्मपाशौ करे कार्यौ देवदणिहस्तयोः ।
शङ्खं च रत्नपात्रं च वामयोस्तस्य कारयेत् ॥
भागे तु दक्षिणे गङ्गा मकरस्था सचामरा ।
देवी पद्मकरा कार्या चान्द्रगौरी वरानना ॥
वामे तु यमुना कार्या कूर्मसंस्था सचामरा ।
नीलोत्पलकरा सौम्या नीलनीरजसन्निभा ॥
v2.c83.s2.77
वरं पाशौ व्यलं कुण्डी हस्तैर्विभ्रत्क्रमाच्च यः ।
नक्रारूढः स कर्त्तव्यो वरुणः पश्चिमाश्चितः ॥
v2.c83.s2.78
द्विभुजस्तु महावीर्य्यस्ताम्राक्षो धूम्रसत्रिभः ।
ध्वजं वै दक्षिणे हस्ते वामहस्ते तु दण्डधृक् ॥
कुञ्चितभ्रूयुतो वायुः श्वेताम्बरविभूषितः
नानाभरणसंयुक्तः केशाढ्यः कैशैस्तु सुविकीर्णकः ॥
सिंहासनोपरिष्टात्तु शीघ्रयात्रोत्सुकः स्थितः ।
v2.c83.s2.79
अनिलं धूम्रवर्णं तु मृगारूढं धृतध्वजम् ।
सव्येऽङ्कुशधरं श्यामं चात्मानं विधिवत्गतम् ॥
v2.c83.s2.80
(iii) पू० का०
v2.c83.s2.81
कुञ्चितभ्रूयुं वा वायुस्ताम्रदृग् धूम्रसन्निभः ।
अङ्कुशेन करो वीर्य्यश्शम्बराम्बरसंयुतः ।।
मृगारूढो विधातव्यस्सर्वभरणभूषितः ।
v2.c83.s2.82
(iv) शिल्प०सं०
v2.c83.s2.83
समीरणं प्रवक्ष्यामि सूत्रहरिणवाहनम् ।
पीताम्बरधरं देवं चित्ररत्नविभूषितम् ।।
वरदं दक्षिणं हस्तं बामहस्तं पताकया ।
बिभ्राणं कुण्डलोपेतं किरीटवरधारिणम् ।।
v2.c83.s2.84
(v) वि० घ०
v2.c83.s2.85
वायुरम्बरवर्णस्तु तदाकाशाम्बरो भवेत् ।
काष्ठपूरितचक्रस्तु द्विभुजो रूपसंयुतः ।।
गमनेच्छुश्शिवा भार्या तस्य कार्या च वामतः ।
कार्यो गृहीतचक्राङ्गः कराभ्यां पवनो द्विजः ।।
तथैव देवी कर्तव्या शिवा परमसुन्दरी ।
व्यावृत्तास्यस्तथा कार्यो देवो व्याकुलमूर्धजः ।।
v2.c83.s2.86
(vi) रूप०
v2.c83.s2.87
वरं ध्वजं पताका च कमण्डलुकुरैर्दधत् ।
मृगारूढो हरिद्वर्णः पवनो वायुदिक्पतिः ।।
v2.c83.s2.88
धनदः
v2.c83.s2.89
(i) अ० आ०
v2.c83.s2.90
धनदस्सर्वयक्षेशस्सर्वाभरणभूषितः ।
तप्तकाञ्चनसङ्काशो हस्तद्वयसमन्वितः ।।
वरदाभयहस्तश्च गदां वै वामहस्तके ।
करण्डमकुटोपेतस्सितवासोत्तरीयकः ।।
दक्षभागे शङ्खनिधिर्वामे पद्मनिधिस्तथा ।
धनदस्य तु वामे तु देवीं कुर्य्यात्सलक्षणाम् ।।
पद्मपीठोपरिष्टात्तु द्विनेत्रो मेषवाहनः ।
रक्ताम्बरधरस्सौम्यश्शङ्खपद्मनिधियुतः ।।
शङ्खपद्मनिधी द्वौ च भूताकारौ महाबलौ ।
आसीनो पद्मपीठे तु पद्महस्तौ द्विजोत्तम ! ।।
करण्डमुकुटोपेतौ सितावासोत्तरीयकौ ।
v2.c83.s2.91
(ii) सु० आ०
v2.c83.s2.92
यक्षेशं तु गदाहस्तं श्यामरूपं भयावहम् ।
द्विबाहुं रक्तवस्त्राढ्यं रक्ताक्षं रक्तपाणिनम् ।।
v2.c83.s2.93
(iii) पू० का०
v2.c83.s2.94
मकुटी कुण्डली हारी केयूरी नरवाहनः ।
यक्षराजः कुबेरोऽयं तप्तकाञ्चनसन्निभः ।।
शङ्खपद्मनिधीयुक्तो गदाहस्तो निधीश्वरः ।
v2.c83.s2.95
(iv) शि० सं०
v2.c83.s2.96
हरमित्रं प्रवक्ष्यामि द्रव्यहारविभूषितम् ।
किरीटकुण्डलयुतं श्वेताम्बरविराजितम् ।।
नरयुक्तविमानस्थं गदापाणि वरप्रदम् ।
महोदरं महाबाहुं गौरवर्णं मनोहरम् ।।
अष्टभिनिधिभिर्युक्तं द्रविणव्यग्रपाणिभिः ।
v2.c83.s2.97
समन्तात् गुह्यकैर्युक्तं चित्रकर्मणि - लेखयेत् ।
कर्तव्यः पद्मपत्राभो वरदो नरवाहनः ।
चामीकराभो वरदस्सर्वभरणभूषितः ॥
लम्बोदरश्चतुर्बाहुर्वामपिङ्गललोचनः ।
आपीच्यवेषः कवची हारभारी मनोहरः ॥
द्वे च दंष्ट्रे मुखे तस्य कर्तव्ये श्मश्रुधारिणः ।
वामेन विभवा कार्या मौलिस्तस्पारिमर्दन ! ॥
वामोत्सङ्गगता कार्या वृद्धिर्देवी वरप्रदा ।
देवपृष्ठगतं पाणि द्विभुजायास्तु दक्षिणम् ॥
रत्नपात्रधरं कुर्याद्वामं रिपुनिषूदन ! ।
गदाशक्ती च कर्तव्ये तस्य दक्षिणहस्तयोः ॥
सिंहार्क लक्षणं केतुं शिविकामपि पादयोः ? ।
शङ्खपद्मनिधी कार्यौ सरूपौ निधिसंस्थितौ ॥
शङ्खपद्माञ्जलिक्रान्तं वदनं तस्य पार्श्वयोः ।
गदानिधी बीजपूरकमण्डलुधरः करैः ।
गजारूढः प्रकर्त्तव्यः सौम्यो नरवाहनः ॥
v2.c83.s2.98
ईशः
v2.c83.s2.99
ईशो वै द्विभुजश्शान्तस्सर्वभरणभूषितः ।
जटामकुटसंयुक्तश्शुक्लवस्त्रद्युतिः स्थितः ॥
शुक्लयज्ञोपवीतश्च शुक्लपद्मोपरि स्थितः ।
शूलं दक्षिणहस्ते तु कपालं वामहस्तके ॥
ईशानं तु चतुर्बाहुं त्रिनेत्रं तु जटाधरम् ।
शूलपाणिं वृषारूढं वरदाभयपाणिकम् ॥
वृषारूढो महाराजो धवलः पिङ्गलेक्षणः ।
त्रिशूलपाणिरीशानस्त्रिनेत्रो लोकशङ्करः ॥
ईशानं संप्रवक्ष्यामि शारदेन्दुसमप्रभम् ।
शुभ्रं वृषभमारूढं बालेन्दुकृतशेखरम् ॥
जटामण्डलभृषाढ्यं लोचनत्रयभूषितम् ।
त्रिशूलपाणि वरदं व्याघ्रचर्माम्बरावृतम् ॥
मणिकुण्डलभूषाढ्यं नागयज्ञोपवीतिनम् ।
लिखेदेवंविधं देवं चित्रकं चित्रकोविदः ॥
वरं तथा त्रिशूलं च नागेन्द्रबीजपूरकम् ।
बिभ्राणो वृषभारूढ ईशानो धवलद्युतिः ॥
v2.c83.s2.100
समाप्तः षष्ठो पटलः
Linked texts (4)
- Suprabhedāgama — Sanskrit
- Kāśyapaśilpa — Sanskrit
- Viṣṇudharmottarapurāṇa — Sanskrit
- Rūpamaṇḍana — Maṇḍana, Sanskrit