Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.s2.26
Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.s2.26
- Language
- English
v2.c83.s2.26
वरदौ साक्षसूत्रौ च कमण्डलुधरौ तथा ।
दण्डिनौ च तथा बाहौ बिभ्राणौ परिकल्पयेत् ॥
कृष्णवासास्तथा कृष्णश्शनिः कार्योऽसिताननः ।
दण्डाक्षमालासंयुक्तः करद्वितयभूषणः ॥
काष्णायसे रथे कार्यस्तथैवाष्टतुरङ्गमे ।
शनैश्चरः कृष्णवर्णो द्विभुजस्सितवाससा ।
करण्डकुटोपेतस्सर्वभरणभूषणः ॥
दण्डं दक्षिणहस्ते तु वरदं वाममुच्यते ।
स्थानकं पद्मपीठे तु शुक्लवस्त्रधरश्शुचिः ॥
ईषत्पङ्गुरिव स्थाने ईषद्ध्रस्वस्तनुस्स्मृतः ।
रौप्ये रथे तथाष्टाश्वे राहुः कार्यो विचक्षणैः ।
कम्बलं पुस्तकं कार्यं भुजेनैकेन संयुतम् ॥
करमेकं तु कुर्याच्च शस्त्रशून्यं तु दक्षिणम् ।
सिंहासनगतं राहुं करालवदनं लिखेत् ।
वरदं खड्गसंयुक्तं खेटशूलधरं क्रमात् ॥
भौमवच्च तथा रूपं केतोः कार्यं विजानता ।
केवलं चास्य कर्तव्या दश राजंस्तुरङ्गमाः ॥
धूम्रा द्विबाहवस्सर्वे वरदाश्च गदाधराः ।
गृध्रपृष्ठसमारूढा लेखनीयास्तु केतवः ॥
गृध्राः किरीटिनः कार्या नवतालप्रमाणकाः ।
रक्तकुण्डलकेयूरहाराभरणभूषिताः ॥