Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.s2.7
Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.s2.7
- Language
- English
v2.c83.s2.7
प्रहर्षणी महाकली कपिला च प्रबोधनी ॥
नीलाम्बरा घनान्ता च अमृताख्या च शक्तयः ।
शृणु वत्स प्रवक्ष्यामि सूर्यभेदांस्तु ते जय ।
यावत्प्रकाशकस्सूर्यो जायते मूर्तिभिर्यथा ॥
दक्षिण पौष्करी माला करे वामे कमण्डलुः ।
पद्माभ्यां शोभितकरा सा धात्री प्रथमा स्मृता ॥
शूलं वामकरे चास्या दक्षिणे सोम एव च ।
मैत्रो नाम त्रिनयना कुशेशयविभूषिता ॥
प्रथमे तु करे चक्रं तथा वामे च कौमुदी ।
मूर्तिराैर्यमणी ज्ञेया सप्तभिः पाणिपल्लवैः ॥
अक्षमाला करे सव्ये चक्रं वामे प्रतिष्ठितम् ।
सा मूर्ती रौद्री ज्ञातव्या प्रधान। पद्मभूषिता ॥
चक्रं तु दक्षिणे यस्या वामे पाशस्सुशोभनः ।
सा वारुणी भवेन्मूर्तिः पद्मव्यग्रकरद्वया ॥
कमण्डलुर्दक्षिणतो माला चाक्षमयी भवेत् ।
सा भवेत्सम्मता सूर्यमूर्तिः पद्मविभूषिता ॥
यस्या दक्षिणतश्शूलं वामहस्ते सुदर्शनः ।
भगमूर्तिस्समाख्याता पद्महस्ता शुभा जय !
अथ वामकरे माला त्रिशूलं दक्षिणे स्मृतम् ।
विवस्वन्मूर्तिरेषा स्यात्पद्मलाञ्छनलक्षिता ॥
पूषाख्यस्य भवेन्मूर्तिर्द्विभुजा पद्मलाञ्छिता ।
सर्वपापहरा ज्ञेया सर्वलक्षणलक्षिता ॥
दक्षिणे तु गदा यस्या वामे चैव सुदर्शनः ।
पद्मव्यग्रा तु सावित्री मूर्तिस्सर्वार्थसाधनी ॥
स्रुवं च दक्षिणे हस्ते वामे होमजकालिकम् ।
मूर्तिस्त्वाष्ट्री भजेत्सा स्यात्पद्मरुद्धकरद्वया ॥
सुदर्शनकरा सव्ये पद्महस्ता तु वामतः ।
एषा स्याद् द्वादशी मूर्तिर्विष्णोरमिततेजसः ॥
धाता मित्रो ऽर्यमा रुद्रो वरुणस्सूर्य एव च ।
भगो विवस्वान् पूषा च सविता दशमस्स्मृतः ॥
एकादशस्तथा त्वष्टा विष्णुर्द्वादश उच्यते ।