Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.s2.99
Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.s2.99
- Language
- English
v2.c83.s2.99
ईशो वै द्विभुजश्शान्तस्सर्वभरणभूषितः ।
जटामकुटसंयुक्तश्शुक्लवस्त्रद्युतिः स्थितः ॥
शुक्लयज्ञोपवीतश्च शुक्लपद्मोपरि स्थितः ।
शूलं दक्षिणहस्ते तु कपालं वामहस्तके ॥
ईशानं तु चतुर्बाहुं त्रिनेत्रं तु जटाधरम् ।
शूलपाणिं वृषारूढं वरदाभयपाणिकम् ॥
वृषारूढो महाराजो धवलः पिङ्गलेक्षणः ।
त्रिशूलपाणिरीशानस्त्रिनेत्रो लोकशङ्करः ॥
ईशानं संप्रवक्ष्यामि शारदेन्दुसमप्रभम् ।
शुभ्रं वृषभमारूढं बालेन्दुकृतशेखरम् ॥
जटामण्डलभृषाढ्यं लोचनत्रयभूषितम् ।
त्रिशूलपाणि वरदं व्याघ्रचर्माम्बरावृतम् ॥
मणिकुण्डलभूषाढ्यं नागयज्ञोपवीतिनम् ।
लिखेदेवंविधं देवं चित्रकं चित्रकोविदः ॥
वरं तथा त्रिशूलं च नागेन्द्रबीजपूरकम् ।
बिभ्राणो वृषभारूढ ईशानो धवलद्युतिः ॥