Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.s3.3
Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.s3.3
- Language
- English
v2.c83.s3.3
अश्वनीदेवते एकसिंहासनासीनावाश्विन्यावश्वरूपिणौ ।
(i) अ० आ० दाडिमीपुष्पसङ्काशावुभौ सोपवीतिनौ ॥
फुल्लरक्तोत्पलाक्षौ च पीतस्रग्वस्त्रधारिणौ ।
नासत्यदस्रनामानौ जटामकुटधारिणौ ॥
करद्वयसमायुक्तौ श्रीभूषणविभूषितौ ।
अभयं दक्षिणं हस्तं पुस्तकं वामहस्तके ॥
लम्बितं दक्षिणं पादं वाममुत्कुटिकासनम् ।
देवानां भिषजावेतौ तौ चिकित्साविधायिनौ ॥
तयोश्च पार्श्वयोर्विप्र ! दक्षिणेऽदक्षिणे क्रमात् ।
मृतसञ्जीविनी चैव संज्ञितौ मचारोद्धृतौ ॥
पृष्ठे विशल्यकरणी द्वे स्त्रियोपेतपिङ्गलौ ।
वामे धन्वन्तरिश्चैव आत्रेयश्च तथैव च ॥
पीतरक्तनिभावेतौ विधेयौ कृष्णावाससौ ।
खड्गखेटकहस्तौ तौ सर्वाभरणभूषितौ ॥
(ii) सु० आ० नासत्येश्चव दस्रश्च अश्विनौ तौ प्रकीर्तितौ ।
शुक्लवस्त्रधरोष्णीषौ पुस्तक[ाभयपाणिनौ ॥
सोत्तरीयौ सुरूपौ च शुक्लहेमनिभौ तथा ।
(iii) पू० कार० उभयौ सोपवीतौ तौ चूडामकुटधारिणौ ।
फुल्लरक्तोत्पलाक्षौ च पीतस्रक्शुक्लवस्त्रकौ ॥
(iv) शिल्प० एकसिंहासनासीनांवश्विनावरवरूपिणौ ।
दाडिमीपुष्पसङ्काशावुभौ तौ सोपवीतकौ ॥
फुल्लरक्तोत्पलाक्षौ च पीतस्रग्वस्त्रधरिणौ ।
करद्वयसमायुक्तौ श्रीभूषणविभूषितौ ॥
अभयं दक्षिणे हस्ते वरदं वामहस्तके ।
लम्बितं दक्षिणं पादं वाममुत्कुटिकासनम् ॥
(v) वि० ध० पद्मपत्रसवर्णभौ पद्मपत्रसमाम्बरौ ।
द्विभुजौ देवभिषजौ कर्तव्यौ देहसंयुतौ ॥
सर्वाभरणसम्पन्नौ विशेषाच्चारुलोचनौ ।
तथोरौषधयः कार्या दिव्या दक्षिणहस्तयोः ॥
Linked texts (3)
- Suprabhedāgama — Sanskrit
- Kāśyapaśilpa — Sanskrit
- Viṣṇudharmottarapurāṇa — Sanskrit