Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.s3: सप्तमो पटलः: मूर्त्यन्तराणि
Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.s3
- Language
- English
सप्तमो पटलः: मूर्त्यन्तराणि
v2.c83.s3.1
मूर्त्यन्तराणि
v2.c83.s3.2
यक्ष-विद्याधर-भक्त-मुनि-वसु-मरुद्गण-पितृगणादीनां-प्रतिमा-लक्षणम्
v2.c83.s3.3
अश्वनीदेवते एकसिंहासनासीनावाश्विन्यावश्वरूपिणौ ।
(i) अ० आ० दाडिमीपुष्पसङ्काशावुभौ सोपवीतिनौ ॥
फुल्लरक्तोत्पलाक्षौ च पीतस्रग्वस्त्रधारिणौ ।
नासत्यदस्रनामानौ जटामकुटधारिणौ ॥
करद्वयसमायुक्तौ श्रीभूषणविभूषितौ ।
अभयं दक्षिणं हस्तं पुस्तकं वामहस्तके ॥
लम्बितं दक्षिणं पादं वाममुत्कुटिकासनम् ।
देवानां भिषजावेतौ तौ चिकित्साविधायिनौ ॥
तयोश्च पार्श्वयोर्विप्र ! दक्षिणेऽदक्षिणे क्रमात् ।
मृतसञ्जीविनी चैव संज्ञितौ मचारोद्धृतौ ॥
पृष्ठे विशल्यकरणी द्वे स्त्रियोपेतपिङ्गलौ ।
वामे धन्वन्तरिश्चैव आत्रेयश्च तथैव च ॥
पीतरक्तनिभावेतौ विधेयौ कृष्णावाससौ ।
खड्गखेटकहस्तौ तौ सर्वाभरणभूषितौ ॥
(ii) सु० आ० नासत्येश्चव दस्रश्च अश्विनौ तौ प्रकीर्तितौ ।
शुक्लवस्त्रधरोष्णीषौ पुस्तक[ाभयपाणिनौ ॥
सोत्तरीयौ सुरूपौ च शुक्लहेमनिभौ तथा ।
(iii) पू० कार० उभयौ सोपवीतौ तौ चूडामकुटधारिणौ ।
फुल्लरक्तोत्पलाक्षौ च पीतस्रक्शुक्लवस्त्रकौ ॥
(iv) शिल्प० एकसिंहासनासीनांवश्विनावरवरूपिणौ ।
दाडिमीपुष्पसङ्काशावुभौ तौ सोपवीतकौ ॥
फुल्लरक्तोत्पलाक्षौ च पीतस्रग्वस्त्रधरिणौ ।
करद्वयसमायुक्तौ श्रीभूषणविभूषितौ ॥
अभयं दक्षिणे हस्ते वरदं वामहस्तके ।
लम्बितं दक्षिणं पादं वाममुत्कुटिकासनम् ॥
(v) वि० ध० पद्मपत्रसवर्णभौ पद्मपत्रसमाम्बरौ ।
द्विभुजौ देवभिषजौ कर्तव्यौ देहसंयुतौ ॥
सर्वाभरणसम्पन्नौ विशेषाच्चारुलोचनौ ।
तथोरौषधयः कार्या दिव्या दक्षिणहस्तयोः ॥
v2.c83.s3.4
वामयोः पुस्तके कार्ये दर्शनीये तथा नृप ।
एकस्य दक्षिणे पार्श्वे वामे चान्यस्य यादव ! ॥
नारीयुगं प्रकर्तव्यं सुरूपं चारुदर्शनम् ।
तयोश्च नामनी प्रोक्ते रूपसंपत्तथाकृतिः ॥
मधूकपुष्पसङ्काशा रूपसंपत्प्रकीर्तिता ।
आकृतिः कथिता लोके शरकाण्डनिभा तथा ॥
रत्नभाण्डकरे कार्ये चन्द्रशुक्लाम्बरे तथा ।
v2.c83.s3.5
सदृशावश्विनौ कार्यों लोकस्य शुभदायकौ ।
शुक्लमाल्याम्बरधरौ जाम्बूनदविभूषितौ ॥
v2.c83.s3.6
यक्षविद्याधरादीनां लक्षणं वक्ष्यतेऽधुना ।
द्विभुजं च द्विनेत्रं च करण्डमकुटान्वितम् ॥
चरResourceणाम्बरसंयुक्तं राक्षसाकारवद् भवेत् ।
श्यामवर्णं च पीतं च यक्षाणां वर्णमेव च ॥
श्यामरक्तं च पीतं च वर्णं विद्याधरं तथा ।
यक्षविद्याधरादीनां नवतालेन कारयेत् ॥
देवस्यानुचरा यक्षा विद्याधराश्च भारगाः ।
गानादि योग्यादि गन्धर्वा देवगुल्मनानार्थकम् ॥
निग्रहा राक्षसा प्रोक्ताश्चैव यक्षे तु भेदकम् ।
यक्षैश्च चामराद्यैश्च सुराणां चिह्नधारिणः ॥
स्थानकं चासनं चैव यक्षविद्याधरादीनाम् ।
दक्षिणं स्वस्तिकं पादं वामपादं तु कुञ्चितम् ॥
चामराद्यैर्वृतं हस्तं तं चोर्व्याश्रितमेव वा ।
एवं तु यक्षरूपं स्याद् विद्याधरमासनान्वितम् ॥
पुरतः पृष्ठपादौ च लाङ्गलाकारौ एव च ।
जान्वाश्रितौ हस्तौ गोपुरोद्धृतहस्तकौ ॥
एवं विद्याधराः प्रोक्ताः सर्वाभरणभूषिताः ।
नृत्तं वा वैष्णवं वापि वैशाखं स्थानकं तु वा ॥
गीतवीणाविधानैश्च गन्धर्वाश्चेति कथ्यते ।
चरणं पशुसमानं चोर्ध्वकायं तु नराभम् ॥
वदनं गरुडभावं बाहुकौ च पक्षयुक्तौ ।
मकुटं कमलयुक्तं पुष्पच्छायं वर्णम् ॥
परितः ककणवीणं किन्नरस्य तु स्वरूपम् ॥
v2.c83.s3.7
धरो ध्रुवश्च सोमश्च आपस्त्वनल एव च ।
अनिलः प्रत्यूषश्चैव प्रभावश्च तथैव च ॥
वसवश्चाष्टकास्त्वेते रक्तवर्णा द्विबाहवः ।
पीताम्बरधरास्सर्वे आसीनो वा स्थितोऽपिवा ॥
v2.c83.s3.8
खड्गखेटकहस्तास्ते सर्वरिभरणभूषिताः ।
करण्डमकुटोपेता रौद्रास्सर्वे प्रकीर्तिताः ॥
धरो ध्रुवस्तथा सोमस्सावित्रस्त्वनिलोऽनलः ।
प्रत्यूषश्च प्रभावश्च सुदंष्ट्रा भीमरूपकाः ॥
खड्गखेटकहस्तास्तु कुञ्चितभ्रूसुलोचनाः ।
सर्वाभरणसंयुक्ताश्चित्रवस्त्रधरास्तथा ॥
रक्तवस्त्रधराः पीताः प्रोक्ता वैवस्वतास्त्विह ।
धरो धूभ्रश्च सोमश्च आपश्चैवानिलोऽनलः ।
प्रत्यूषश्च प्रभावश्च वसवश्चाष्ट एव च ॥
द्विभुजाश्च द्विनेत्राश्च असिखेटकसंयुताः ।
रक्तवर्णा इमे सर्वे पीतवस्त्रसमन्विताः ॥
सर्वाभरणसंयुक्तास्स्निग्धकुन्तलमूर्धजाः ।
अथातस्संप्रवक्ष्यामि वसुरूपाणि ते जय ! ।
पद्माक्षमालिके तस्य दक्षवामकरद्वये ॥
सीरशक्ती दधानोऽयं धराख्यो वसुरादिमः ।
मालां पुष्करबीजोत्थां चक्रं शक्तिं कमण्डलुम् ॥
दक्षाधरादिसिक्येन? यस्य स्युस्स ध्रुवो मतः ।
मुक्ताफलकृता माला पङ्कजं शक्तिरङ्कुशः ॥
सः वसुः कीर्तितो वत्स? सोमनामेति वै बुधैः ।
सव्यवामोर्ध्वगौ यस्य करौ स्तश्शक्तिसंयुतौ ॥
सीराङ्कुशान्वितौ चाधः स भवेदापसंज्ञकः ।
अक्षमालोपवीत्यूर्ध्वे सृणिशक्तिकरावधः ॥
यस्य स्तस्सोऽनिलाख्यस्स्याच्छुभदः पञ्चमो वसुः ।
स्रुवाक्षमालिके दक्षे वामे शक्तिकपालभृत् ॥
सव्योर्ध्वादिक्रमार्थाद्योऽसौ नलाख्यस्तु वसुस्मृतः ।
खड्गाङ्कुशधरस्सव्ये शक्तिखेटकरोऽन्यतः ॥
प्रत्यूषाख्यो वसुश्चायं सप्तमः परिकीर्तितः ।
सव्ये दण्डकपालोऽसौ वामे तु सृणिशक्तिकः ॥
शुभदः कीर्तितश्चायं प्रभासो वसुरष्टमः ।
एते सर्वे समाख्याता नवकाञ्चनसंनिभाः ॥
धरो ध्रुवश्च सोमश्चापश्चैवानिलोऽनलः ।
प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तितः ॥
v2.c83.s3.9
नागाः
v2.c83.s3.10
श्वेतदेहश्च कर्तव्यस्स्फुरन्मौक्तिकसन्निभः ।
रक्ताङ्गस्स्वस्तिकोपेतस्सुतेजास्तक्षको महान् ॥
कृष्णः कार्कोटकः कण्ठे शुक्लरखात्रयान्वितः ।
रक्तपद्मनिभः पद्मः शिरशुक्लस्सविद्रुमः ॥
v2.c83.s3.11
शङ्खवर्णो महापद्मो मस्तके कृष्णशूलधृक् ।
हेमाभश्शङ्खपालस्स्यात् सितरेखाधरो गले ॥
कुलिको रक्तदेहस्तु चन्द्रार्धकृतमस्तकः ।
द्विजिह्वा बाहुवत्सप्तफणामणिसमन्विताः ॥
अक्षसूत्रधरास्सर्वे कुण्डिकापुच्छसंयुताः ।
एकभोगास्त्रिभोगा वा ह्येतज्जातास्सुतादयः ॥
त्रिनेत्रं चतुर्भुजं सौम्यं रक्ताभं सितवाससम् ।
अभयवरदोपेतं परहस्ते तु नागधृक् ॥
करण्डमकुटोपेतं नागं पञ्चफणान्वितम्।
सर्वाभरणसंयुक्तं पद्मपीठोपरि स्थितम् ॥
नागानां वक्ष्यते रूपं नाभेरुर्ध्वं नराकृतिः ।
सर्पाकारमधोभागं मस्तके भोगमण्डलम् ।
एकं फणात्रयं वापि पञ्च वा सप्त वा नव ॥
द्विजिह्वास्ते विघातव्याः खड्गचर्मकरैर्युताः ॥
रम्भा च विपुला चैव उर्वशी च तिलोत्तमा ।
मध्यक्षामसमायुक्ताः पीनोरुजघनस्तनाः ॥
दुकूलवसनास्सर्वाः पीनोरुजघनस्तनाः ।
मध्ये क्षौमादिवर्णातिसौम्याश्च किंचित्प्रहसिताननाः ॥
नानालङ्कारसंयुक्ता भद्रपीठोपरिस्थिताः ।
समभङ्गसमायुक्तास्सप्तसङ्ख्याप्सरो स्मृताः ॥
किरीटकुण्डलोपेतास्तीक्ष्णदंष्ट्रा भयानकाः ।
नानाशस्त्रधराः काक्षा दैत्यास्स्रुरगणद्विषः ॥
दानवाः विकृताकारा भ्रुकुटीकुटिलाननाः ।
करिभेन ? च कुब्जेन मण्डिताश्शस्त्रपाणयः ।
दंष्ट्राकरालवदना भ्रुकुटीकुटिलेक्षणाः ।
नानारूपा महाकाया नानाशस्त्रधरास्तथा ॥
उत्पूर्वकृशकायास्ते चर्मास्थिस्नायुविग्रहाः ।
ह्रस्वकीर्णशिरोजास्स्युः पिशाचाश्चित्रकर्मणि ॥
ईदृशा एव वैताला दीर्घदेहाः कृशोदराः ।
कपोलैः पूर्वजैर्युक्ता लेखनीया मनीषिभिः ॥
वैदूर्यशकसङ्काशा? हरितश्मश्रवोऽपि च ।
रोहिता विकृता रक्तलोचना बहुरूपिणः ॥
नागैः शिरोरुहालीनैर्विरागाभरCollाम्बराः ।
कार्याः पिशाचा भूताश्च परूषासत्यवादिनः ।
(बहुप्रकारमन्दहा?) विरूपा विकृताननाः ।
घोररूपा विधातव्या ह्रस्वा नाना(सु?यु)धाश्च ते ॥
v2.c83.s3.12
सुभीमविक्रमा भीमा (:) सङ्घा यज्ञोपवीतिनः ।
v2.c83.s3.13
वर्म्मभिः शाटिकाचित्रैर्भूताः कार्याः सदा बुधैः ॥ येऽपि नोक्ता विधातव्यास्तेऽपि कार्यानुरूपतः । यस्य यस्य च यल्लिङ्गमसुरस्य सुरस्य च ॥ यक्षराक्षसयोर्वापि ना (ना?ग) गन्धर्वयोरपि । तेन लिङ्गेन कार्यः स यथा साधु विजानता ॥ प्रायेण वीर्य्यवन्तो हि दानवाः क्रूरकर्मिणः । किरीटिनश्च कर्तव्या विविधाStratumयुधपाणयः ॥ तेभ्योऽपीषत् कनीयांसो दैत्याः कार्या गुणैरपि । दैत्येभ्यःपरिहीणास्तु यक्षाः कार्या मदोत्कटाः ॥ हीनास्तेभ्योऽपि गन्धर्वा गन्धर्वेभ्योऽपि पन्नगाः । नागेभ्यो राक्षसा हीनाः क्रूर (विक्रिमत्सूषिणः?) ॥ विद्याधराश्च यक्षेभ्यो हीनदेहतराः स्मृताः । चित्रमाल्याम्बरधराश्चित्रचर्मासिपाणयः ॥ नानावेषधरा घोरा भूतसङ्घा भयानकाः । पिशाचेभ्योऽधिकाः स्थूलास्तेजसा परुषास्तथा ॥ अन्यूनाधिकरूपांश्च प्रायशः कुर्वीत् शुभान् ।
v2.c83.s3.14
मरुद्गणा धूम्रवर्णा द्विभुजात्यन्तसुन्दराः ।
v2.c83.s3.15
केशभारसमायुक्तास्सर्व्वाभरणभूषिताः ॥ दुकूलवसनास्सर्वे नानापुष्पैरलङ्कृताः । अभयवरदोपेतां टङ्कशूलसमन्विताः ॥ स्थानकाः पद्मपीठे तु शुक्लवस्त्रधराश्शुभाः ।
v2.c83.s3.16
साध्याः पद्मासनगताः कमण्डलवक्षसूत्रिणः ।
v2.c83.s3.17
धर्मपुत्रा महात्मानो द्वादशामरपूजिताः ॥
v2.c83.s3.18
पितरः पीतवर्णाभाः वृद्धास्ते केशबन्धताः ।
v2.c83.s3.19
यज्ञसूत्रसमायुक्ता द्विभुजाः श्वेतवाससः ॥ नानाभरणसंयुक्ता भस्मोद्धूलितविग्रहाः । सितदन्तसमायुक्ताः सौम्यदृक्पातानान्विताः ॥ फलके भद्रपीठे वा पितरस्तु महात्मनः? । वामजानूपरिन्यस्तवामहस्तसमन्विताः ॥ सूची दक्षिणहस्ते तु पितरस्त्रय उच्यते? ।
v2.c83.s3.20
पितापितामहौ चैव प्रपितामह एव च ।
v2.c83.s3.21
पितरस्स्तूयमानास्तु तेषां वै लक्षणं शृणु ॥ सुवृद्धा पीतवर्णास्तु छत्रदण्डधरास्तथा । शुक्लवस्त्रैः परिच्छिन्नाः कीर्त्तिताः पितरस्त्रयः ॥
v2.c83.s3.22
कुशपद्मविष्टरस्थाः पितरः पिण्डपात्रिणः ।
v2.c83.s3.23
पितरः पीतवर्णाभाः द्विभुजाः श्वेतवाससः ।
v2.c83.s3.24
यज्ञसूत्रसमायुक्तास्सौम्यदृग्वदनान्विताः ॥
फलके भद्रपीठे वा त्रयस्तु सहिताननाः ।
v2.c83.s3.25
ऋषयः पीतवर्णास्तु नानावर्णान्विताम्बराः ।
वृद्धाश्च द्विभुजाश्शान्ता जटामकुतमण्डिताः ॥
चिबुकाहृदयान्ताश्च उपवीतसमन्विताः ।
भस्मना चं त्रिपुण्ड्रास्यास्स्थानका वासनास्तु वा ॥
दण्डं दक्षिणहस्ते तु छत्रं वामकरे धृतम् ।
क्षत्रदण्डं विना वापि सव्यं वै ज्ञानमुद्रिका ॥
वामजानूपरिन्यस्तवामहस्तसमन्विताः ।
मनुस्त्वगस्त्य इत्युक्तो वसिष्ठो गौतमस्तथा ॥
अङ्गिरास्स्याद्विश्वामित्रः भरद्वाज इति स्मृताः ।
एते वै सप्त ऋषयः कीर्तिताश्च विशेषतः ॥
v2.c83.s3.26
भृगुश्चैव वशिष्ठश्च पुलस्त्यः पुलहः क्रतुः ।
काश्यपः कौशिकश्चैव अङ्गिरा मुनयस्त्विमे ॥
सुवल्कला जटायुक्तास्सुमुखा दंशहस्तकाः ।
कटद्या च मण्डिताकाराश्शुक्लवस्त्रधराश्शुभाः ॥
पिङ्गलाश्च सुनेत्राश्च परंनयस्सप्त कीर्तिताः ।
v2.c83.s3.27
अगस्त्यश्च पुलस्त्यश्च विश्वामित्रः पराशरः ।
जमदग्निश्च वाल्मीको सनत्कुमारश्च सप्त च ॥
शुक्लवस्त्रधरास्सर्वे शुक्लयज्ञोपवीतकाः ।
शुक्लवस्त्रोत्तरीयाश्च जटावल्कलसंयुताः ॥
कमण्डल्र्वक्षहस्ताश्च दीर्घश्मश्रुसमन्विताः ।
v2.c83.s3.28
ऋषीणां लक्षणं वक्ष्ये शास्त्रे संक्षिप्यतेऽधुना ॥
अगस्त्यः काश्यपश्चैव भृगुर्वसिष्ठो भार्गवः ॥
विश्वामित्रस्तथा भारद्वाजः सप्तर्षयः क्रमात् ।
अगस्त्यं सप्ततालेन मानयेत्त्वङ्गमानकम् ॥
काश्यपं चाष्टतालेन मानयेदपि च भृगुम् ।
अन्यथा ऋषिसर्वान् नवतालेन कारयेत् ॥
श्यामवर्णमगस्त्यं च काश्यपं पीतवर्णकम् ।
भृगुं च कृष्णवर्णं कुर्याद् वसिष्ठं रक्तवर्णकम् ॥
भार्गवं पिङ्गलाभं स्याद् विश्वामित्रं च रक्तकम् ।
भरद्वाजं च हारिद्रं वर्णमेवं क्रमाद् विदुः ॥
द्विभुजं च द्विनेत्रं च जटाजूटेन मण्डितम् ।
पीताम्बरधरं चैव सर्वेषामपि मुनीनाम् ॥
कुब्जाकारं बृहत्कुक्षि कषायं पूर्णशोभितम् ।
अगस्त्यं चैवेति प्रोक्तमन्यं चैवेति पौरुषम् ॥
v2.c83.s3.29
सर्वेषामपि मुनीनां यज्ञसूत्रोत्तरीयकैः ।
दण्डं च सव्यहस्तेन वामहस्तेन पुस्तकम् ॥
अथवा यष्टिं विना सव्ये हस्तौ सदृशौ मुनीनाम् ।
अथवाऽराध्यवत्कुर्यादासनं स्थानकं तु वा ॥
v2.c83.s3.30
अधुना वक्ष्यते सर्वभक्तानां लक्षणं क्रमात् ।
पादं चतुर्विधं प्रोक्तं तद्दशान्मानं गृह्यते ॥
प्रथमं सालोक्यमथ द्वितीयं सामीप्यमुच्यते ।
सारूप्यं च तृतीयं स्यात्सायुज्यं तु चतुर्थकम् ॥
भक्तिज्ञानं च वैराग्ययुक्तं सालोक्यमीरितम् ।
ज्ञानं वैराग्यसंयुक्तं सामीप्यमिति कथ्यते ॥
केवलं ध्यानसंयुक्तं सारूप्यमिति निश्चयम् ।
शुद्धज्ञानसमायुक्तं सायुज्यं परमार्थवत् ॥
उत्तमभवतालेन सालोक्याङ्गं प्रमीयते ।
अधमदशतालेन सामीप्याङ्गं च निर्मितम् ॥
मध्यमदशतालेन सारूप्यं मानयेत्सुधीः ।
उत्तमदशतालेन सायुज्यं कथितं बुधैः ॥
v2.c83.s3.31
अर्थः कार्यस्तु रूपेण धनदस्य महात्मनः ।
v2.c83.s3.32
कामदेवस्तु कर्तव्यो रूपेणाप्रतिमो भुवि ॥
अष्टबाहुः स कर्तव्यः शङ्खपद्मविभूषणः ।
चापबाणकरश्चैव मदादञ्चितलोचनः ॥
रतिः प्रीतिस्तथा शक्तिर्मदशक्तिस्तथोज्ज्वला ।
चतस्रस्तस्य कर्तव्याः पत्न्यो रूपमनोहराः ॥
केतुश्च मकरः कार्यः पञ्चबाणमुखो महान् ।
करेण कटिगेनाथ निद्रां वामेन कारयेत् ॥
दक्षिणं तु तथा पार्श्वे तस्याः सङ्कर्षणो भवेत् ।
वासुदेवस्तथा वामे मैकानेशा तथा सुतः ।
v2.c83.s3.33
कालः करालवदनः नित्यगश्च विभीषणः ।
पाशहस्तश्च कर्तव्यः सर्पवृश्चिकरोमवान् ॥
v2.c83.s3.34
ज्वरश्चित्रपादः कर्तव्यस्त्रिनेत्रैर्वदनैस्त्रिभिः ।
भस्मप्रहरणो रौद्रस्त्रिबाहुर्व्याकुलेक्षणः ॥
v2.c83.s3.35
सामवेदस्तु कर्तव्यः किं तु श्ववदनः प्रभुः ।
अथवा देवरूपेण वेदाः कार्या विचक्षणैः ॥
ऋग्वेदस्तु स्मृतो ब्रह्मा यजुर्वेदस्तु वासवः ।
सामवेदस्तथा विष्णुः शम्भुश्चाथर्वणो भवेत् ॥
v2.c83.s3.36
शिक्षा प्रजापतिर्ज्ञेया कल्पो ब्रह्मा प्रकीर्तितः ।
सरस्वती व्याकरणं निरुक्त वरुणः प्रभुः ॥
छन्दो क्षितिस्तथैवाग्निर्ज्योतिषं भगवान्रविः ।
v2.c83.s3.37
मीमांसा भगवान्सोमो न्यायमार्गः समीरणः ॥
धर्मश्च धर्मशास्त्राणि पुराणं च तथा मनुः ।
इतिहासं प्रजाध्यक्षो धनुर्वेदं शतक्रतुः ॥
आयुर्वेदस्तथा साक्षाद्देवो धन्वन्तरिः प्रभुः ।
फलवेदं महीदेवी नृत्यशास्त्रं महेश्वरः ॥
सङ्कर्षणः पाञ्चरात्रं रुद्रः पाशुपतं तथा ।
पातञ्जलमनन्तश्च सांख्यञ्च कपिलो मुनिः ॥
अर्थशास्त्राणि सर्वाणि धनाध्यक्षः प्रकीर्तितः ।
कलाशास्त्राणि सर्वाणि कामदेवो जगद्गुरुः ॥
अन्यानि यानि शास्त्राणि यत्कर्तृणि प्रचक्षते ।
स चैव देवता तस्य शास्त्रकाव्यस्व देहवत् ॥
v2.c83.s3.38
धर्मस्य रूपनिर्माणं ज्ञानस्य च परन्तप ।
वैराग्यस्य च धर्मज्ञ तथैश्वर्यस्य मे वद ॥
चतुर्वक्त्रश्चतुष्पादश्चतुर्बाहुस्सिताम्बरः ।
सर्वाभरणवाञ्छ्वेतो धर्मः कार्यो विजानता ॥
दक्षिणे चाक्षमालां च तस्य वामे तु पुस्तकम् ।
मूर्तिमान्व्यवसायस्तु कार्यो दक्षिणभागगः ॥
वामभागगतः कार्यः सुखः परमरूपवान् ।
कार्यौ धर्मकरौ मूर्ध्नि विन्यस्तौ च तथा तयोः ।
अक्षमाला स्मृतः कालः पुस्तकं चागमं स्मृतम् ।
यज्ञः सत्यं तपोदानं तस्य वक्त्रचतुष्टयम् ॥
देशकालौ तथा शौचं शुद्धिश्चास्य भुजःस्मृतः ।
श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः ॥
तस्य देवस्य धर्मज्ञ ज्ञेयं पादचतुष्टयम् ।
सत्त्वाधिकत्वाच्छुक्लस्तु ज्ञानवासश्च र्कतियते ॥
अथवा चास्य कर्तव्याः पत्न्यश्चैव चतुर्दश ।
कान्तिर्लक्ष्मी धृतिर्मेधा पुष्टिः श्रद्धा क्रिया मतिः ॥
बुद्धिलज्जा वपुश्शान्तिः सिद्धिस्तुष्टिश्चतुर्दशी ।
द्वाराण्येतानि धर्मस्य सर्वाणि कथितानि ते ॥
कार्याः सरूपा द्विभुजाश्च सर्वास्तेजोन्वितास्ताश्च सुभूषणाश्च ।
धर्मःस्थितः स्याद्यदि चैक एव भार्यान्वितश्चेदथवोपदिष्टः ॥
v2.c83.s3.39
नीलोत्पलाभं गगनं तद्वर्णाम्बरधारिणम् ।
चन्दार्कहस्तं कर्तव्यं द्विभुजं सौम्यदर्शनम् ॥
चतुरस्रं भवेन्मूले ततो वृत्तं महाभुज ।
ततोल्पचतुरस्रं च चतुरस्रं ततो भवेत् ॥
ततोल्पचतुरस्रं च मेरुवत्संस्थितं ततः ।
भद्रपीठमिदं प्रोक्तं व्योमभागं तृतीयकम् ॥
सर्वेषां भद्रपीठानामेतल्लक्षणमुच्यते ।
v2.c83.s3.40
सम्भवञ्चतुरस्रं तु मध्यभागं प्रकीर्तितम् ॥
भद्रपीठं ततो भागं तत्र पद्मं निवेशयेत् ।
शुभाष्टपत्रं तन्मध्ये कर्णिकायां दिवाकरम् ॥
पत्रेषु कल्पयेत्तत्र दिक्पालांश्च यथादिशम् ।
भद्रपीठमधस्तात्तु पृथ्वीं परिकल्पयेत् ॥
अन्तरिक्षं तथा स्तम्भमूर्ध्वभागं ततो विदुः ।
तत्र सन्निहिताः सर्वे भवन्ति त्रिदशोत्त्तमाः ॥
सर्वदेवमयं व्योम कथितं ते महाभुज !
तस्य सम्पूजनं कृत्वा सर्वान्कामानवाप्नुयात् ॥
v2.c83.s3.41
ऐडूकरूपनिर्माणं शृणुष्व गदतो मम ।
ऐडूकपूजनात्पूजा कृतस्य जगतो भवेत् ॥
भद्रपीठं बुधः कुर्यात्सोपानैः शोभनैर्युतम् ।
चतुभिर्यादवश्रेष्ठ यथादिशमरिन्दम् ॥
तस्योपरिष्टादपरं भद्रपीठं तु कारयेत् ।
तस्योपरिष्टादपरं तादृग्विधमरिन्दम् ॥
तस्योपरिष्टात्कर्तव्यं लिङ्गरूपं विजानता ।
तत्तु तत्रापि कर्त्तव्यं लिङ्गरेखाविराजितम् ॥
तस्य मध्ये ध्रुवां यष्टिं चतुरस्रां तु कारयेत् ।
तस्योपरिष्टात्कर्तव्या भूमिकास्तु त्रयोदश ॥
तस्योपरिष्टात्कर्तव्यं तथैवामलतारकम् ।
तस्योपरि पुनर्यष्टिः कार्या राजन्सुवर्तुला ॥
समार्धचन्द्रमध्यस्थचन्द्रकेण विराजिता ।
भूमिका या मया प्रोक्ता तथैवामलतारकम् ॥
भुवनास्ते त्वया ज्ञेयास्तथा राजंश्चतुर्दश ।
लिङ्गे महेश्वरो देवो वृत्ता यष्टिः पितामहः ॥
चतुरस्रा तु या यष्टिः स च देवो जनार्दनः ।
गुणरूपेण विज्ञेयं भद्रपीठत्रयं तथा ।
गुणाधानमितिप्रोक्तं त्रैलोक्यं सचराचरम् ।
अधस्ताद्भुवनानां तु लिङ्गोपरि तथा नृप ॥
लोकपालांश्च कर्तव्याः शूलहस्ताश्चतुर्दिशम् ।
विरूढो धृतराष्ट्रश्च विरूपाक्षश्च यादवः ॥
कुबेरश्च महातेजाः सूर्यवेशधराः शुभाः ।
सर्वे कवचिनः कार्याः शुभानरणभूषिताः ॥
विरूपाक्षं विजानीहि शक्रदेवं गणेश्वरम् ।
धृतराष्ट्रं विजानीहि यमं भुवननायकम् ॥
विरूपाक्षं विजानीहि वरुणं यादसाम्पतिम् ।
राजराजं विजानीहि कुबेरं धनदं प्रभुम् ॥
v2.c83.s3.42
समाप्तस्सप्तमो पटलः
Linked texts (25)
- Kauṭilīya Arthaśāstra — Kauṭilya, Sanskrit
- Suprabhedāgama — Sanskrit
- Nāṭyaśāstra — Bharata, Sanskrit
- Kāśyapaśilpa — Sanskrit
- Mānava Dharmaśāstra — Manu & Bhṛgu, Sanskrit
- Viṣṇudharmottarapurāṇa — Sanskrit
- Nirukta — Yāska, Sanskrit
- Nāradīyāśikṣā — Nārada, Sanskrit
- Bihā Kappa — Bhadrabāhu, Ardhamāgadhī Prakrit
- Pañcarātra — Bhāsa, Sanskrit
- Pāśupata — Sanskrit
- Nyāya — Sanskrit
- Ṛgvedasaṃhitā — Sanskrit
- Chandas
- Dharmaśāstra
- Sāmavedasaṃhitā — Sanskrit
- Jyotiṣa
- Purāṇa — Sanskrit
- Sāṃkhya — Sanskrit
- Vyākaraṇa
- Atharvavedasaṃhitā — Atharvan & Aṅgiras, Sanskrit
- Mīmāṃsā — Sanskrit
- Āyurveda
- Kalāśāstra
- Lohaśāstra (Patañjali) — Patañjali, Sanskrit