Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.s3.8
Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.s3.8
- Language
- English
v2.c83.s3.8
खड्गखेटकहस्तास्ते सर्वरिभरणभूषिताः ।
करण्डमकुटोपेता रौद्रास्सर्वे प्रकीर्तिताः ॥
धरो ध्रुवस्तथा सोमस्सावित्रस्त्वनिलोऽनलः ।
प्रत्यूषश्च प्रभावश्च सुदंष्ट्रा भीमरूपकाः ॥
खड्गखेटकहस्तास्तु कुञ्चितभ्रूसुलोचनाः ।
सर्वाभरणसंयुक्ताश्चित्रवस्त्रधरास्तथा ॥
रक्तवस्त्रधराः पीताः प्रोक्ता वैवस्वतास्त्विह ।
धरो धूभ्रश्च सोमश्च आपश्चैवानिलोऽनलः ।
प्रत्यूषश्च प्रभावश्च वसवश्चाष्ट एव च ॥
द्विभुजाश्च द्विनेत्राश्च असिखेटकसंयुताः ।
रक्तवर्णा इमे सर्वे पीतवस्त्रसमन्विताः ॥
सर्वाभरणसंयुक्तास्स्निग्धकुन्तलमूर्धजाः ।
अथातस्संप्रवक्ष्यामि वसुरूपाणि ते जय ! ।
पद्माक्षमालिके तस्य दक्षवामकरद्वये ॥
सीरशक्ती दधानोऽयं धराख्यो वसुरादिमः ।
मालां पुष्करबीजोत्थां चक्रं शक्तिं कमण्डलुम् ॥
दक्षाधरादिसिक्येन? यस्य स्युस्स ध्रुवो मतः ।
मुक्ताफलकृता माला पङ्कजं शक्तिरङ्कुशः ॥
सः वसुः कीर्तितो वत्स? सोमनामेति वै बुधैः ।
सव्यवामोर्ध्वगौ यस्य करौ स्तश्शक्तिसंयुतौ ॥
सीराङ्कुशान्वितौ चाधः स भवेदापसंज्ञकः ।
अक्षमालोपवीत्यूर्ध्वे सृणिशक्तिकरावधः ॥
यस्य स्तस्सोऽनिलाख्यस्स्याच्छुभदः पञ्चमो वसुः ।
स्रुवाक्षमालिके दक्षे वामे शक्तिकपालभृत् ॥
सव्योर्ध्वादिक्रमार्थाद्योऽसौ नलाख्यस्तु वसुस्मृतः ।
खड्गाङ्कुशधरस्सव्ये शक्तिखेटकरोऽन्यतः ॥
प्रत्यूषाख्यो वसुश्चायं सप्तमः परिकीर्तितः ।
सव्ये दण्डकपालोऽसौ वामे तु सृणिशक्तिकः ॥
शुभदः कीर्तितश्चायं प्रभासो वसुरष्टमः ।
एते सर्वे समाख्याता नवकाञ्चनसंनिभाः ॥
धरो ध्रुवश्च सोमश्चापश्चैवानिलोऽनलः ।
प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तितः ॥