Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c84.31
Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c84.31
- Language
- English
v2.c84.31
अथ वक्ष्यामि संक्षेपात् सर्वेषां वर्णलेपनम् ।
संस्कृतिं च विशेषेणं तेषां योगं तथैव च ॥
सितवर्णं पीतवर्णं रक्तवर्णं च कज्जलम् ।
एतानि शुद्धवर्णानि श्यामवर्णं तथैव च ॥
सुधावलिप्तकुड्यादौ धवलं वर्णमालिपेत् ।
शङ्खशुक्त्यादिकं वाथ सितमृद्वाथ (?) चूर्णयेत् ॥
कपित्थनिम्बनिर्यासतोयैरालोड्य बुद्धिमान् ।
मन्दमालेपयेद भित्तौ फलके वा यथारुचि ॥
शाकोटकत्वचा वाथ केतकीहस्ततोऽपिवा ।
यदा सुस्निग्धतां याति तदावृत्त्या विलेपयेत् ।
अथवाोलूखले गर्ते सुधाचूर्णानि निक्षिपेत् ।
पिष्ट्वा पुनः पुनः सम्यङ्मुसलेन महामतिः ॥
केरबालफलोदेन सिक्त्वा तं पेषयेत् पुनः ।
तं पिष्टमुष्णतोयेन सम्यगालोड्य गालयेत् ॥
पुनः पूर्वोक्तमार्गेण सुधोपरि विलेपयेत् ।
इदं तु फलकादौ न शक्यं शक्यं मृदादिषु ॥
एवं धवलिते भित्तौ दर्पणोदरसन्निभे ।
फलकादौ पटादौ वा चित्रलेखनमारभेत् ॥