Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c84: विषयानुक्रमणिका (तृतीयखण्डस्य)

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c84

Language
English

विषयानुक्रमणिका (तृतीयखण्डस्य)

v2.c84.1

(तृतीयखण्डस्य)

v2.c84.2

| विषयाः | पृष्ठाङ्काः |
| १. चित्रप्रशंसा | २९६ |
| २. चित्रोत्पत्तिः | २९७ |
| ३. चित्रं नृत्यं गीतञ्च | ,, |
| ४. षडङ्गं चित्रम् | २९८ |
| ५. चित्रप्रकाराणि | २९८-२९९ |
| ६. चित्रोद्देशाः चित्रविषयाः वा | २९९-३०१ |
| ७. चित्राङ्गानि | ३०१ |
| ८. भूमिबन्धनं चित्रभित्तिर्वा | ३०१-४ |
| ९. लेप्यकर्म | ३०५-८ |
| १०. अण्डकवर्तनम् | ३०८ |
| ११. चित्रकर्मणि देवादीनां शरीरप्रमाणादि- | ३०९ |
| अ. शरीरप्रमाणम् | ३०९ |
| ब. हंसादि-पञ्चपुरुष-स्त्रीलक्षणम् | ३०९-१० |
| स. चित्रकर्मणि मूर्त्यवयव-प्रमाणम् | ३१०-११ |
| य. चित्रकर्मण्यङ्गप्रत्यङ्गमानेन स्त्रीणां निर्माणम् | ३११ |
| र. तेनैव सामान्यमानवर्णनम् | ३११-१२ |
| ल. चित्रकर्मणि देवतानेत्राद्यङ्गवर्णनम् | ३१२-१३ |
| १२. नाना turnानुगता शुभाकारविहाराः ऋज्वागतसाचीकृताद्यनेकभेदोपसंहिताश्चित्रकर्मणो नवभेदाः | ३१३-१६ |
| १३. चित्रे देवनृपर्षिगन्धर्वदैत्यदानवादीनां सपरिच्छदानां निर्माण-देशविशेषाSchneiderासनशयनयानवेशसरित्सागरवाहनशैलशिखरसद्वीपभू-मण्डलशङ्खनविधिचन्द्रनक्षत्ररात्रिसन्ध्यादिनिर्माणम् | ३१६-२१ |
| १४. विलेखा-लक्षणम् | ३२१-२२ |
| १५. वर्तिका | ३२२ |
| १६. चित्रलेखन-विधिः | ३२२ |
| १७. अ. वर्तनाविधाः ब. पट्टपत्रवर्तनादिप्रकारश्च | ३२३ |
| १८. चित्रपत्रोत्पत्तिः | ३२३-२५ |
| १९ कण्टकलक्षणम् | ३२५-२७ |
| २०. चित्रकर्मणि वर्णभेदः-शुद्धवर्णमिश्रवर्णादयश्च स्वर्णप्रयोगोऽपि | ३२७-३१ |
| २१. चित्रे शृङ्गारादिरसप्रदर्शनं ... .. ... .. रसचित्रादेश्च टि० ... ... | ३३१ |
| २२. चित्रदोषाः | ,, |
| २३. चित्रगुणाः | ३३१-३२ |
| २४. चित्रकारः | ३३२ |
| ग्रन्थकर्तुर्ग्रन्थसमापनस्तवः | ,, |

v2.c84.3

चित्र-लक्षणम्

v2.c84.4

Canons of Painting

v2.c84.5

चित्रलक्षणे

v2.c84.6

कलानां प्रवरं चित्रं धर्मकामार्थमोक्षदम् । माङ्गल्यं प्रथमं चैतद्गृहे यत्र प्रतिष्ठितम् ॥ यथा सुमेरुः प्रवरो नगानां यथाण्डजानां गरुडः प्रधानः । यथा नराणां प्रवरः क्षितीश— स्तथा कलानामिह चित्ररूपः ॥

v2.c84.7

‘चित्रं हि सर्वशिल्पानां मुखं लोकस्य च प्रियम्’

v2.c84.8

चित्रमूलोद्भवं सर्वं त्रैलोक्यं सचराचरम् । ब्रह्मविष्णुभवाद्याश्च सुरासुरनरोरगाः ॥ स्थावरं जङ्गमं चैव सूर्य्यचन्द्रौ च मेदिनी । चित्रमूलोद्भवं सर्वं जगत्स्थावरजङ्गमम् ॥ वृक्षगुल्मलतावल्लय--स्वेदजाण्डजरायुजाः । सर्वे चित्रोद्भवा वत्स भूधरा द्वीपसागराः ॥ चतुरशीतिलक्षाणि जीवयोनिरनेकधा । चित्रमूलोद्भवाः सर्वे संसारद्वीपसागराः ॥ श्वेतरक्तपीतकृष्णा वर्णा वै चित्ररूपकाः । तनौ च नखकेशादि चित्ररूपमिवाम्भसाम् ॥ भगवान् भवरूपश्च पश्यतीदं परात्परम् । आत्मवद्वै सर्वमिदं ब्रह्मतेजोऽनुपश्यताम् ॥ पश्यन्ति भावरूपैश्च जले चन्द्रमसं यथा । तद्वच्चित्रमयं सर्वं पश्यन्ति ब्रह्मवादिनः ॥ विश्वं विश्वावतारश्च त्वनाद्यन्तश्च सम्भवेत् । आदिचित्रमयं सर्वं पश्यन्ति ब्रह्मचक्षुषा ॥ शिवशक्तेर्यथारूपं संसारे सृष्टिकोद्भवः । चित्ररूपमिदं सर्वं दिनं रात्रिस्तथैव च ॥ निमिषश्च पलं घटद्यो यामः पक्षक एव च । मासाश्च ऋतवश्चैव कालः संवत्सरादिकः ॥ चित्ररूपमिदं सर्वं संवत्सरयुगादिकम् । कल्पादिकोद्भवं सर्वं सृष्टद्याद्यं सर्वकर्मणाम् ॥ ब्रह्माण्डादिसमुत्पत्ती रचतारचिता तथा । तेषां चित्रमिदं ज्ञेयं नानात्वं चित्रकर्मणाम् ॥

v2.c84.9

ब्रह्माण्डादिगणाः सर्वे तद्रूपाः पिण्डमध्यगाः ।
आत्मा चात्मस्वरूपेण चित्रवत् सृष्टिकर्मणि ॥
आत्मरूपमिदं पश्येद् दृश्यमानं चराचरम् ।
चित्रावतारे भावं च विधातुर्भाववर्णतः ॥
आत्मानं च शिवं पश्येद् यद्वय्य जलचन्द्रमाः ।
तद्वच्चित्रमयं सर्वं शिवशक्तिमयं परम् ॥
ऊर्ध्वमूलमधः शाखं वृक्षं चित्रमयं तथा ।
शिवशक्त्यालयं चैव चन्द्रार्कपवनात्मकम् ॥
सूर्य्यपीठोद्भवा शक्तिः संलग्ना ब्रह्ममार्गतः ।
लीयमाना चन्द्रमध्ये चित्रकृत् सृष्टिकर्मणि ॥
चित्रावताररूपं तु कथितं च परात्परम् ।
यतस्तु वर्तते चित्रे जगत्स्थावरजङ्गमम् ॥
देवो देवी शिवः शक्तिः व्याप्तं यतश्चराचरम् ।
चित्ररूपमिदं ज्ञेयं जीवमध्ये च जीवकम् ॥
कूपो जले जलं कूपे विधिपर्यायतस्तथा ।
तद्वच्चित्रमयं विश्वं चित्रं विश्वे तथैव च ॥

v2.c84.10

अतः परं प्रवक्ष्यामि चित्रं तवानघ ।
उर्वशीं सृजतः पूर्वं चित्रसूत्रं नृपात्मज ॥
नारायणेन मुनिना लोकानां हितकाम्यया ।
प्राप्तानां वञ्चनार्थाय देवस्त्रीणां महामुनिः ॥
सहकाररसं गृह्य उर्व्यां चक्रे वरस्त्रियम् ।
चित्रेण सा ततो जाता रूपयुक्ता वराप्सराः ॥
यां दृष्ट्वा व्रीडिताः सर्वा जग्मुस्ता देवयोषितः ।
एवं महामुनिः कृत्वा चित्रं लक्षणसंयुतम् ॥
ग्राहयामास स तदा विश्वकर्माणमच्युतम् ।

v2.c84.11

यथा नृत्ते तथा चित्रे त्रैलोक्यासुकृतिः स्मृता ।
दृष्टयश्च तथा भावा अङ्गोपाङ्गानि सर्वशः ॥
कराश्च ये महानृत्ते पूर्वोक्ता नृपसत्तम ।
त एव चित्रे विज्ञेया नृत्तं चित्रं परं मतम् ॥
नृत्ते प्रमाणं येनोक्तं तत्प्रवक्ष्याम्यतः शृणु ।
देवतारूपनिर्माणं कथयस्व ममानघ ॥
यस्मात्सन्निहिता नित्यं शास्त्रवत्साकृतिर्भवेत् ।
चित्रसूत्रं न जानाति यस्तु सम्यङ्नराधिप ॥
प्रतिमालक्षणं वेत्तुं न शक्यन्तेन कर्हिचित् ।
चित्रसूत्रं समाचक्ष्व भृगुवंशविवर्धन ! ॥
चित्रसूत्रविदेवाथ वेत्ति वाल्लक्षणं यतः ।

v2.c84.12

विना तु नृत्यशास्त्रेण चित्रसूत्रं सुदुर्विदम् ॥
जगतो न क्रिया कार्या द्वयोरपि यतो नृप ।
नृत्यशास्त्रं समाचक्ष्व चित्रसूत्रं वदिष्यसि ॥
नृत्यशास्त्रविधानं च चित्रं वेत्ति यतो द्विज ।
आतोद्यं यो न जानाति तस्य नृत्तं हि दुर्विदम् ॥
आतोद्येन विना नृत्तं विद्यते न कथञ्चन ।
आतोद्यं त्वं हि धर्मज्ञ नृत्यशास्त्रं वदिष्यसि ।
तस्मिन्सुविदिते वेत्ति नृत्त्यं भार्गवसत्तम ।

v2.c84.13

रूपभेदाः प्रमाणानि लावण्यं भावयोजनम् ।
सादृश्यं वर्णिकाभङ्ग इति चित्रं षडङ्गकम् ॥

v2.c84.14

सत्यं च वैणिकं चैव नागरं मिश्रमेव च ।
चित्रं चतुर्विधं प्रोक्तं तस्य वक्ष्यामि लक्षणम् ॥
यत्किञ्चल्लोकसादृश्यं चित्रं तत्सत्यमुच्यते ।
दीर्घाङ्गं सप्रमाणं च सुकुमारं सुभूमिकम् ॥
चतुरस्रं सुसम्पूर्णं न दीर्घं नोल्वणाकृतिम् ।
प्रमाणं स्थानलम्भाढ्यं वैणिकं तन्निगद्यते ॥
दृढोपचितसर्वाङ्गं वर्तुलं नद्यनोल्वणम् ।
चित्रं तं नागरं ज्ञेयं स्वल्पमाल्यविभूषणम् ॥
चित्रमिश्रं समाख्यातं सामान्यं मनुजोत्तम ।

v2.c84.15

असंख्यातानि सत्त्वानि शक्यन्ते नैव भाषितुम् ।
तत्तद्रूपानुसारेण लेखनीयानि कोविदैः ॥
सादृश्यं लिख्यते यत्तु दर्पणे प्रतिबिम्बवत् ।
तच्चित्रं विद्धमित्याहुर्विश्वकर्मादयो बुधाः ॥
आकस्मिके लिखामीति यदा तद्दिश्य लिख्यते ।
आकारमात्रसंपत्वे तदविद्धमिति स्मृतम् ॥
शृङ्गारादिरसो यत्र दर्शनादेव गम्यते ।
भावचित्रं तदाख्यातं चित्रकौतुककारकम् ॥
सद्रवैर्वर्णकैर्लेख्यं रसचित्रं विचक्षणैः ।
चूर्णितैर्वर्णकैर्लेख्यं धूलिचित्रं विदुर्बुधाः ॥
सुप्रमाणं तथा विद्धमविद्धं भावचित्रकम् ।
रसधूलिगतं प्रोक्तं मानसोल्लासपुस्तके ॥
निर्मितं चित्रलक्ष्मेदं चित्रं लोचनहारकम् ।
भूलोकमल्लदेवेन चित्रविद्याविरिञ्चिना ॥
चित्रं लक्षणसंयुक्तं लेखयित्वा महीपतिः ।

v2.c84.16

तच्चित्रं तु त्रिधा ज्ञेयं तस्य भेदोऽधुनोच्यते ।
सर्वाङ्गदृश्यकरणं चित्रमित्यभिधीयते ॥
भित्त्यादौ लग्नभावेनाप्यर्धं यत्र प्रदृश्यते ।

v2.c84.17

तदर्धचित्रमित्युक्तं यत्तत् तेषां विलेखनम् ।
चित्राभासमिति ख्यातं पूर्वैः शिल्पविशारदैः ॥
रसचित्रं तथा धूलीचित्रं चित्रमिति त्रिधा ।
एतान्यनलवर्णानि चूर्णयित्वा पृथक् पृथक् ॥
एतैश्चूर्णैः स्थण्डिले रम्ये क्षणिकानि विलेपयेत् ।
धूलीचित्रमिदं ख्यातं चित्रकारैः पुरातनैः ॥
सादृश्यं दृश्यते यत्तु वर्पणे प्रतिबिम्बवत् ।
तच्चित्रमिति विख्यातं नालमाकारमात्रकम् ॥
शृङ्गारादिरसो यत्र दर्शनादेव गम्यते ।
. . . . . रसचित्रमिति स्मृतम् ॥

v2.c84.18

पट्टे पटे वा कुड्ये वा यथा चित्रस्य सम्भवः ।
वर्तयः कृतबन्धाश्च लेखामानं तथा भवेत् ॥
वर्णव्यतिक्रमो याहग् यादृशो वर्तनाक्रमः ।
मानोन्मानविधिश्चैव नवस्थानविधिस्तथा ॥
हस्तानां यश्च विन्यासो . . . . . ।
दिव्यानां मानुषाणां च दिव्यमानुषजन्मनाम् ।
गणरक्षःकिन्नराणां कुब्जवामनयोषिताम् ।
विकल्पाकृतिमानानि रूपसंस्थानमेव च ॥
वृक्षगुल्मलतावल्लीवीरुधां पापकर्मणाम् ।
शूराणां दुर्विधानां च धनिनां पृथिवीभृताम् ॥
ब्राह्मणानां विशां शूद्रजातीनां क्रूरकर्मणाम् ।
मानिनामथ रङ्गोपजीविनां चेह कथ्यते ॥
रूपलक्षणनैपथ्यं सतीनां राजयोषिताम् ।
दासीप्रव्रजितारण्डा (यतिवल्लीषु लक्षणा ॥
कन्यानामसंकाराणां च दिघ्याना) ? गजवाजिनाम् ।
मकरव्यालसिंहानां तथा यज्ञोपवीतिनाम् ॥
दिवारात्रिविभागस्य ऋतूनां चापि लक्षणम् ।
. . . . . ॥
प्रविभागस्य देवानां रेखाणां चापि लक्षणम् ।
लक्षणं पञ्चभूतानां तेषामारम्भ एव च ॥
वृकादीनां विहङ्गानां सर्वेषां जलवासिनाम् ।
चित्रन्यासविधानस्य ब्रूमः सम्प्रति लक्षणम् ॥

v2.c84.19

चित्रकर्म प्रवक्ष्यामि रूपालङ्कारसंयुतम् ।
कीर्तिवक्त्रोद्भवाकारं? कथये तव साम्प्रतम् ॥
भृकुटिकुटिलान्तर्नेत्रवाराहकर्णमेषशृङ्गोद्भवम्।
मृगकपोलसिंहवक्त्रं कीर्त्तिः स्यान्मुखोपमाख्याता॥

v2.c84.20

भृकुटिः स्याद् बद्धकर्णाऽश्वस्कन्धः केशरावृतः ।
क्रममध्ये परावृत्तो ह्रस्वपादः सिंहोत्तमः ॥
सिंहव्यालं गजव्यालमश्वव्यालं नरादिकम् ।
वृषव्यालं मेषव्यालं शुकव्यालं च सौकरम् ॥
माहिषं मूषकव्यालं कीटव्यालं च व्याकरम् ।
हंसकुक्कुटमायूरं त्रिपल्ली सर्पव्यालकम् ॥
इति षोडश व्यालानि उक्तानि मुखभेदतः ।
शरीरं हि महद्रूपं हस्तपादपुच्छादिकम् ॥
व्यालानन्तरतो रूपमनेकाकारतः स्मृतम् ।
त्रुटितं त्रिभङ्ग चैव ललितं कुञ्चितं तथा ॥
गमित्तालीढप्रत्यालीढावृत्तं परिवर्तकम् ।
उद्विग्नं भिन्नसूत्रं च व्यावत्तं च महोद्भवम् ॥
नानारूपं समाख्यातं शोकं च पद्मकेशरम् ।
द्विरष्टोक्तानि साकूतं रूपाणि विविधानि च ॥
वैयाघ्रं समपादं च आलीढं च प्रत्यादिकम् ।
पूर्वापरयाम्योत्तर रहोबोधव्या च ममापतिः ? ॥
नवषण्णोक्ताक्षा लक्षयेच्चित्रसूत्रधानेन ।
खैरसारख्याता शान्तादि सहतोद्भवा ? ॥
वृक्षगुल्मलतावल्ली रम्भास्तम्भा महोद्गताः ।
धवलोत्तुङ्गमाडानि वेश्मानि विविधानि च ॥
नगरग्रामपुरादिदेशानां च पुनः क्रमम् ।
द्वीपसागरोद्भव्वानि सर्वाणि मण्डलानि च ॥
सर्वजीवोद्भवं पूर्वं लक्षयेच्चित्रसूत्रकम् ।
चित्राभ्यासोद्भवाः सर्वे सुरासुरनरोत्तमाः ॥
मेघाश्चित्रवर्णरूपा आदित्याश्चैव चन्द्रमाः ।
ग्रहनक्षत्राद्याः सर्वे अर्चिर्वाहनसंयुताः ॥
दिक्पालादिका लक्ष्या इन्द्राद्याः सुप्रदक्षिणम् ।
गजाश्वरवरपादाद्या असङ्ख्यातास्तथैव च ॥
. . . . . ।
सभादौ च विन्तेदार्थं युक्तं नृत्यनाट्यादिकम् ॥
एवमादि समस्तं च चित्राभ्यासाच्च लक्षयेत् ।
तथा चित्राभ्यास रूप ! त्रैलोक्यं सचराचरम् ॥
जङ्गमा वा स्थावरा वा ये सन्ति भुवनत्रये ।
तत्तत्स्वभावतस्तेषां करणं चित्रमुच्यते ॥

v2.c84.21

वर्त्याकारास्तथायामे द्विथ्यम्मोध्यङ्गुलात्मकाः ।
देवान् वा मनुजान् वापि मृगान् नागान् विहङ्गमान् ॥

v2.c84.22

लतावॄक्षादिकान् वाथ नागान् वा सागरानपि ।
श्रोत्राभ्यां वाथ नेत्राभ्यां मनसा वाथ निश्चितान् ॥
आलिखेत किट्टिलेखिन्या सुमुहूर्ते सुलग्नके ।
स्वस्थचित्तः सुखासीनः स्मृत्वा स्मृत्वा पुनःपुनः ॥
चित्राभासं पुनस्तेषामेकमागं समाश्रयेत् ।
बहिरन्तश्च सर्वेषां यन्न युञ्जीत सर्वतः ॥
सुमङ्गलकथोपोतं मन्त्रमूर्त्यादिसंयुतम् ।
सङ्ग्रामं मरणं दुःखं देवासुरकथास्त्वपि ॥
नग्नं तपस्विलीलां च न कुर्यान्मानुषालये ।
भित्त्यादौ तत्र लेख्यं स्याच्चित्रं चित्रतराकृति ॥
स्वागमाखिलवेदादिपुराणोक्तकथान्वितम् ।
नानावर्णान्वितं रम्यं न न्यूनं नाधिकं क्वचित् ॥
तत्तत्तत्रोचिताकाररसभावक्रियान्वितम् ।
चित्रं विचित्रफलदं भर्तुः कर्तुश्च सर्वदा ॥
अतोऽन्यदशुभं चित्रं विपरीतफलप्रदम् ।
न लेखयेत् तन्न लिखेल्लोकद्वयसुखेच्छया ॥
तस्याङ्गान्यभिधीयन्ते तेन सर्वाणि विस्तरात् ।
वर्तिका प्रथमं तेषां द्वितीयं भूमिबन्धनम् ॥
लेख्यं तृतीयं स्याद् रेखाकर्माणि …………।
पञ्चमं वर्णकर्म स्यात् षष्ठं स्याद् वर्तनाक्रमः ॥
सप्तमं ………………… तथ्राष्टमम् ।
इदानीं वर्तिकालक्ष्म भूमिबन्धश्च कथ्यते ।
गुल्मान्तरे शुभे क्षेत्रे पद्मिन्यां सरितस्तटे ॥
पार्वतानां च कक्षेषु वापिकाकाननान्तरे ।
भौमा लवणपिण्डाः स्युर्मूलेषु च महीरुहाम् ॥
क्षेत्रेष्वेतेषु या जाताः स्थिराः श्लक्ष्णाश्च पाण्डराः ।
ग्राह्या (मृद्भावसास्वेषा?) विज्ञेया क (र?टु) शर्करा ॥
क्षेत्राणामानुपूव्येण मृत्तिका कथिता शुभा ।
पेषयेत् कुट्टयित्वा तां ततः कल्कं समाचरेत् ॥
शालिभक्तस्य दातव्यस्तत्र भागो यथोदितः ।
ग्रीष्मतौ सप्तमं भागं शीतकाले च पञ्चमम् ॥
षष्ठं शरदि वर्षासु चतुर्थं भागमानयेत् ।
वर्तिकाबन्धनाथाय दाढर्घमायान्ति तेन ताः ॥
(अग्रायाशालिवक्त्राभा यवं यव्यं सुखगृहम् ।
कुर्कुटाराग्रसदृशीं ?) कर्मभागविकल्पतः ॥
शिक्षाकालेऽङ्गुलद्वन्द्वं प्रमाणेन विधीयते ।
कुथरेखासु शस्यन्ते वर्तिकाः त्र्यङ्गुलोन्मिताः ॥
पट्टरेखासु कुर्वीत मानेन चतुरङ्गुलाः ।

v2.c84.23

इदानीमभिधास्यामो वसुधाबन्धनक्रियाम् ॥
पक्षिका चैव कूटाइच + + + + पट एव च ।
तस्य लस्य (किभान ?) भूमिबन्धो निगद्यते ॥
पुण्यनक्षत्रवारेषु माङ्गल्यदिवसेषु च ।
कृतोपवासो भक्त्या च कर्ता भर्ताथ शिक्षकः ॥
अनेकवर्णैः कुसुमर्गन्धैः (न कृपापाः ?) ।
नानाधूपैः सुरभिभिरर्चयित्वारभेत ताम् ॥
(नवसूत्रात्तुलमुद्धस्तितजलेन समं समम् ।
नवत्वामात्सद्दशं वृक्तन भविद्वात्यपराक्रिया ॥
लिङ्गसूत्रविनीक्षेतानिकटं सहतं नवः ।
अनुत्तममतिस्मं च कुर्याद् यावत् क्षितौ समम् ॥
सुस्थितं जलवक्षायं ? सम्यगालोक्य धीमता ।
कृत्वा भूमिक्रियामेतां पश्चाद् बन्धनमाचरेत् ॥
(लुचिमलांस्तिस्तव ?) व्रीहितण्डुलसन्निभाम् ।
संगृ (स्य? ह्य) तीर्धमथवा पिष्ट्वा कल्कं समाचरेत् ॥
तेन पिण्डं प्रकुर्वीत शोषयेच्च तमातपे ।
श्रपयेद् कल्कयेद् येन (व्यासाद्यषव्यस्तुया ? ॥
एवमेव (चतुष्कान्ता ?) सप्त वारान प्रघर्षयेत् ।
हस्तेन संमृशेत् पश्चाद् यथा लोनं च जायते ॥
अथवा शिक्षकाभूमौ खरबन्धनमाचरेत् ।
पूर्वोदितस्य कल्कस्य निर्यासे बन्धनं क्षिपेत् ॥
पञ्चभागप्रमाणे ग्रीष्मकालेषु शस्यते ।
शरद्यंशत्रयं सार्धं त्रीनंशा (समागमम् ?) ॥
वर्षाकाले हि भागेन प्रदद्यादिति निश्चयः ।
पञ्चभागप्रमाणे ग्रीष्मसं + + + + + + ॥
बन्धने च प्रकुर्वीत पूर्वोक्तविधिना क्षितौ ।
लेपयेद् रोमकूर्चेण शुष्कां शुष्कामनुक्रमात् ॥
तोयेन हस्त (क्तवचि ?) प्रदातव्यो विचक्षणैः ।
विधिनैवं कृतं श्रेष्ठं शिक्षिकाभूमि

v2.c84.24

चिक्क ( ण? णां?) मृदमादाय स्थूलपाषाणवर्जिताम् ।
(मानुषां?) स्याद्द्विगुणाम् (न्य) स्य क्षोदयेद् वालुकामृदां? दाम्॥
ककुभस्य रसं दद्यान्माषाणां शाल्मलेरपि ।
श्रीफलानां रसं तद्वद् दद्यात् कालानुरूपतः ॥
पूर्वकालानुसारेण यत् प्रोक्तं बन्धनं क्षितेः।
तत् सर्वं सिकतायुक्तं कृत्वैकत्र नवं बुधः ॥
कुडद्यमालेपयेत् पूर्वं हस्तिचर्मप्रमाणतः ।
(विशेषं) प्याथ प्रतिक्षिपेत् तोयं कुर्याद्दशसन्निभाम्) ॥
विशुद्धं विमलं स्निग्धं पाण्डुरं मृदुलं स्फुटम् ।
पूर्वोदितां समादाय विधिवत् कटशर्कराम् ॥
तां कुट्टयित्वा घृष्ट्वा च कल्कं कुर्याद् विचक्षणः ।
पूर्वोक्तभक्तभागं च निर्यासांश्च प्रदापयेत् ॥
(विष्वक्?) यदि वा दद्यात् कटशर्करया समम् ।
त्रीन् वारा (न्) लेपयेत् कुड्यबन्धनमुत्तमम्
हलेन हस्तमालिप्य प्रदद्यात् कटशर्कराम् ।
जायते विधिनानेन कुड्यबन्धनमुत्तमम् ॥
साम्प्रतं कथयिष्यामः पट्टभूमिनिबन्धनम् ।
बिम्बाबीजानि संगृह्य त्यक्त्वा तेषां मलं बुधः ॥
एवं विशोध्य निष्पावान् यदि वा शालितण्डुलान् ।
तेषामन्यतमं श्लक्ष्णं पिष्ट्वा पात्रे विपाचयेत् ॥
पट्टमालिप्य बन्धेन पूर्वोक्तविधिना चरेत् ।
पूर्वोक्तनिर्यासम्युतां विधाय कटशर्कराम् ॥
तोयेन तां द्रवीकृत्य पटमालेखयेत् तया ।
अनेन विधिना बन्धश्चित्रकर्मणि शस्यते ॥
विधिनान्येन वा कुर्यात् पट्टानां भूमिबन्धनम् ।
(प्रद्यद्यामिकतालपङ्कनिर्यांस?) समन्विताम् ॥
निर्याससंयुतां दद्यात् त्रिस्ततः कटशर्कराम् ।
पट्टानां भूमिबन्धोऽयं विक्षेप्तव्यः प्रयत्नतः ॥
(गोमयेन कंटपेने शंस्तदनन्तरम्? ) ।
कटशर्करया युक्तंवारांस्त्रीन् कूर्चकेन च ॥
यथा पट्टे तथैव स्याद् भूमिबन्धः पटेऽपि सः ।
सुधया निर्मितां भित्तिं श्लक्ष्णां क्षतविवर्जिताम् ।
लेपयेच्चित्रकर्मार्थं लेपद्रव्यं प्रचक्ष्यते ॥
माहिषं त्वचमादाय नवं तोयेन मेलयेत् ।
नवनीतमवायाति यावच्चिक्कणतां भृशम् ॥

v2.c84.25

तत्कल्कं चिक्कणीभूतं शलाकाः परिकल्पयेत्‌
यत्नेन शोषयेत्पश्चाद्यावत्काठिन्यमाप्नुयुः ॥
वज्रलेपो मयाऽख्यातः चित्रे सर्वत्र शस्यते ।
तं कृत्वा मृत्तिकापात्रे तोयं क्षिप्त्वा प्रतापयेत्‌ ॥
स तप्तो द्रवतां याति सर्ववर्णेषु तद्द्रवः ।
मिश्रणीयप्रमाणेन यथा वर्णो न नश्यति ॥
आदाय मृत्तिकां श्वेतां वज्रलेपेन मिश्रयेत्‌ ।
तया लेपं प्रकुर्वीत शुष्कभित्तौ त्रिवारतः ॥
शङ्खचूर्णसितापिष्टं वज्रलेपसमन्वितम्‌ ।
आदाय भित्तिकां लिम्पेद्यावत्सा श्लक्ष्णतां व्रजेत्‌॥
धातुं नीलगिरौ जातं श्वेतं चन्द्रसमप्रभम्‌ ।
नगनाम्नैव विख्यातं शिलायां परिपेषितम्‌ ॥
मिश्रितं वज्रलेपेन समादाय च पाणिना ।
लिम्पयेन्मृदुलेपेन स्वच्छमच्छं शनैश्शनैः
लिपेत् कुड्यं ततश्चित्रं लेपयेदथवा पुनः ।
दग्ध्वा शङ्खादिकं काष्ठैश्चूर्णितं यत् सुधा हि सा॥
++ चूर्णं ++ चतुर्थांशमुद्गक्वाथलवैःसह ।
गुलतोयेन संसिञ्चेत् तच्चूर्णं बालुकान्वितम् ॥
++++ प्रमाणं हि सुधातुर्यांशमानतः ।
कालाग्निपक्वकदलीफलपिष्टं तु योजयेत् ॥
तत्पिष्टस्य प्रमाणं हि सुधावेदांशकं स्मृतम् ।
द्रोण्यां क्षिप्त्वाथसम्मद्य गते मासत्रये पुनः ॥
पेषयेद् दृषदि क्षिप्त्वा दृषदा गुलवारिणा ।
नवनीतमियायाति यावत् तावत् सुपेषयेत् ॥
अथ कुड्यादिकं सम्यग् संशोध्य समतां नयेत् ।
नालिकेरत्वचाग्रैः सुसूक्ष्मं शिथिलीकृतैः ॥
पुनस्तद्गुलतोयेन सिक्त्वा नीत्वा दिनाल्पकम् ।
पश्चात् तत्र सुधापिष्टं तत्र दर्व्या विलेपयेत् ॥
दर्व्याकारविशालादि सर्वमौचित्यभेदतः ।
लोही दारुमयी वाथ श्लक्ष्णपृष्ठा भवेदिह ॥
तद्दवीं पृष्ठभागेन निम्नोन्नतविवर्जितम् ।
लिप्त्वा पिष्टसुधां सम्यङ्मन्दं मन्दं पुनःक्रमात् ॥
नालिकेरत्वचालिप्य शुद्धतोयसमन्वितम् ।
शुष्के तस्मिन् वर्णलेपं कुर्यात् चित्रार्थमेव हि ॥
फलकादौ तक्षणेन स्निग्धे वर्णं विलेपयेत् ।
सुधालपो न कर्तव्यश्चित्रार्थं फलकादिषु ॥

v2.c84.26

त्रिप्रकारेष्टिकाचूर्णं त्र्यंशं क्षिप्त्वा मृदस्ततः ।
गुग्गुलं समधूच्छिष्टं मुरुक्कं गुडम् ॥
कुसुम्भं तैलसंयुक्तं कृत्वा दद्यात्समागंशकम् ।
त्रिभागमग्निदग्धांया सुधायास्तत्र चूर्णयेत् ॥
बिल्वजं द्वयंशमिश्रं तत्प्रक्षिप्य मषकं कषम् ।
बालुकांशं ततो दद्यात्स्वानुरूपेण बुद्धिमान् ॥
ततः शकलतोयेन प्लावयेत्पिच्छिलेन तम् ।
परिक्लिन्नं समग्रं तन्मासमाचं निधापयेत् ॥
मार्दवं मासमात्रेण गतमुद्धृत्य यत्नतः ।
दद्यात्प्रलेपं निपुणः शुष्कं कुड्ये विमृश्य तु ॥
श्लक्ष्णं समं स्ववष्टब्धं निम्नोन्नतविना कृतम् ।
न चातिघनतां यातं न चातितनुताङ्गतम् ॥
यदा शुष्कं भवेत्कुड्यं तत्प्रलिप्तमसत्कृतम् ।
तया मृदा सर्जरसा तैलभागावियुक्तया ॥
श्लक्ष्णीकुर्यात्प्रयत्नेन लेपनैः श्लक्षणमञ्जनैः ।
मुहुर्मुहुश्च क्षीरेण सिक्त्वा मार्जनयत्नतः ॥
सद्यः शोषमुपायातं कुड्यं तन्मनुजेश्वर ।
अपि वर्षशतस्यान्ते न प्रणश्येत् कर्हिचित् ॥
अनेनैव प्रकारेण द्विविधैवर्णकैर्युताः ।
कर्तव्याश्चित्रवपुषा विविधा मणिभूमयः ॥
कुड्ये शुष्के तिथौ शस्ते रूक्षे च गुणसंयुते ।
चित्रायोगे विशेषेण श्वेतवासा यतात्मवान् ॥
ब्राह्मणान्पूजयित्वा तु स्वस्ति वाच्य प्रणम्य च ।
तद्विद्वेश्च यथान्यासं गुरुंश्च गुरुवत्सलः ॥
प्राङ्मुखो देवताध्यायी चित्रकर्म समाचरेत् ।
श्वेतकाद्रवकृष्णाभिर्वर्तिकाभिर्यथाक्रमम् ॥
आलिख्य स्थापयेद्विद्वान्प्रमाणे स्थानके तथा ।
ततस्तु रञ्जयेद्रङ्गैर्यथास्थानानुरूपतः ॥
श्यामा गौरी तथा तस्यच्छविः स्यात्तां प्रदर्शयेत् ।
तस्याश्च लक्षणं प्रोक्तं प्राप्ताया नृप विस्तरे ॥

v2.c84.27

लेप्यकर्म समूलक्ष्म लेखालक्ष्म च कथ्यते ।
वापीकूपतटाकानि पद्मिन्यो दीर्घिकास्तथा ॥
वृक्षमूलं नदीतीरं गुल्ममध्यं तथैव च ।
मृत्तिकानामिति क्षेत्राण्युक्तान्येतानि तत्त्वतः ॥
तासां वर्णः सिता क्षौद्रसन्निभो गौर एव च ।
कपिलश्चेति ते स्निग्धाः शस्ता विप्रादिषु क्रमात् ॥

v2.c84.28

(इन्द्रांशी?)मृत्तिका ग्राह्या स्थूलपाषाणवर्जिता ।
शाल्मलीमाषककुभमधूकत्रिफलोद्भवम् ॥
रसं विनिक्षिपेत् तस्यां प्रक्षिप्य सिकतामपि ।
क्रमुकं (चनका?) विल्वे सटालोमानि वाजिनः ॥
गवां रोमाणि वा दद्यान्नालिकेरस्य (क? व)ल्कलम् ।
मृदा संयोज्य मृद्नीयाद् दद्याद वा द्विगुणांस्तुषान् ॥
बालुका यावती चापि तावतीं योजयेन्मृदम् ।
भागद्वयं मृत्तिका(यै? यां) कार्पासांशेन मिश्रयेत् ॥
तदेकीकृत्य मृद्भागं तृतीयमुपरि क्षिपेत् ।
पूर्वोदितां स (नि? न्नि) धाय ततश्च कटशर्कराम् ॥
क(ल्यं ? ल्कं) विधाय (:?)चीरेण रूपं तत्परिवेष्टितम्।
तेन निर्यासयुक्तेन कुर्यादाकारमादृतः ॥
कटशर्करया लिम्पेत् कूर्चकेन विचक्षणः ।
मृत्तिकाक्वाथसङ्घाताल्लेप (क) मं प्रशस्यते ॥

v2.c84.29

(रवयेल्लोहसङ्घातं लसंकार्यसुधामध्ये ।
युक्तं पक्षेत संयोज्य मोममान योजयेत ॥
अनेपर्क समायूक्तं ?) कर्तुः स्थानविनाशनम् ।
लेपकर्म प्रवक्ष्यामि यदुक्तं पूर्वमेव हि ।
श्वेतां रक्तां तथा पीतां मृत्तिकां च समाहरेत् ॥
कापिलं तु घृतं क्षीरमतसीमाथमेव च ॥
यवगोधूमचूर्णं तु वर्णं च वसुकघृतम् ॥
क्षीरवृक्षत्वचा मिश्रं बकुलं गुडसंयुक्तम् ।
सेन्द्रवृक्षं प्रेषणीयं मासं वा पक्षतोऽधिकम् ॥
पाषाणगर्भचूर्णं तु सूक्ष्मं कृत्वा समस्तकम् ।
पट्टत उद्धरेल्लेपं (कल्कं) मर्दयेत्तैलवारिभिः ॥
प्रक्षिप्तार्तासतैलेन सुपिष्ठं कज्जलोपमम् ।
पिण्डाङ्कृत्वा मुष्टिमात्रान्यातपैः शुष्कतापितान् ॥
आस्फोटिते वज्रसमाः आतयः सिद्धिकामदः ।
अंतस्तु स्फुटिते पिण्डे बन्धद्रव्यादिकं क्षिपेत् ॥
सुधायाश्च प्रवक्ष्यामि बन्धनं दलनं तथा ।
शैलजा बन्धका वापि श्वेताः पाषाणकोत्तमाः ॥
खण्डशश्चैव कर्त्तव्या प्रमाणं धात्रिकोपमाः ।
सुसंचिताः क्रमैर्युक्ता आनेया उपलान्तरे ॥
तथा वरेष्टिकांमध्ये आधारानि सुनि…क्षिपेत् ।
समस्तं ज्वालयेन्मध्ये यावद्दशनिशास्तकम् ॥
मल्लिकायावकं कृत्वा स्थूणिकाकारमस्तकम् ।
क्षिपेद्विल्वरसाद्यं च मासं वा पक्षतोऽधिकम् ॥

v2.c84.30

शिलोर्ध्वार्धकयुक्तं च मह्द्येत्सुधयोत्तमा ।
त्रिचारा उत्तमाख्याता रूपार्थेन चतुर्थिका ॥
अर्चारूपोद्भवा कार्या मानयुक्तिश्च शास्त्रतः ।
सञ्चित्य त्विष्टिकाबन्धं हस्तपादशीर्षादितः ॥
सूक्ष्मे द्वयङ्गुलॊ लेपः स्थूले त्वङ्गुलमात्रकः ।
दिनेऽर्धे च दिनान्ते वा दद्याल्लेपानुलेपनम् ॥
सर्वाङ्गे लिप्तमात्रं च सूक्ष्मतेजः समुद्भवॆत् ।
शीर्षे काचोलमखण्डटीकाभरणसंयुता ॥
वर्णे रसविशेषां च मसिरेखां समुद्धरेत् ।
अङ्गप्रत्यङ्गकोपाङ्गदृष्टिकाभिरनेकधा ।
विचित्रवस्त्रालङ्कारैर्भूषितां चित्रकोपमाम् ।
स्वभावजैरलंकारैर्नखकेशादिभिः क्रमात् ॥
शृङ्गहस्ता गजदन्ता बद्धपर्य्यङ्कसंस्थिता ।
योगमुद्रा करयुग्मे करोद्धतगजादिका ॥
हारकेयूरसम्मुक्ता कुण्डलाभ्यामलंङ्कृता ।
मालामुकुटशोभाढचा कर्त्तव्या शान्तिमिच्छता ।
भैरवी भैरवो देवः सर्वदेवादितः क्रमात् ।
शास्त्रप्रमाणयुक्ता च शुभ्रवर्णा च तेजसा ॥

v2.c84.31

अथ वक्ष्यामि संक्षेपात् सर्वेषां वर्णलेपनम् ।
संस्कृतिं च विशेषेणं तेषां योगं तथैव च ॥
सितवर्णं पीतवर्णं रक्तवर्णं च कज्जलम् ।
एतानि शुद्धवर्णानि श्यामवर्णं तथैव च ॥
सुधावलिप्तकुड्यादौ धवलं वर्णमालिपेत् ।
शङ्खशुक्त्यादिकं वाथ सितमृद्वाथ (?) चूर्णयेत् ॥
कपित्थनिम्बनिर्यासतोयैरालोड्य बुद्धिमान् ।
मन्दमालेपयेद भित्तौ फलके वा यथारुचि ॥
शाकोटकत्वचा वाथ केतकीहस्ततोऽपिवा ।
यदा सुस्निग्धतां याति तदावृत्त्या विलेपयेत् ।
अथवाोलूखले गर्ते सुधाचूर्णानि निक्षिपेत् ।
पिष्ट्वा पुनः पुनः सम्यङ्मुसलेन महामतिः ॥
केरबालफलोदेन सिक्त्वा तं पेषयेत् पुनः ।
तं पिष्टमुष्णतोयेन सम्यगालोड्य गालयेत् ॥
पुनः पूर्वोक्तमार्गेण सुधोपरि विलेपयेत् ।
इदं तु फलकादौ न शक्यं शक्यं मृदादिषु ॥
एवं धवलिते भित्तौ दर्पणोदरसन्निभे ।
फलकादौ पटादौ वा चित्रलेखनमारभेत् ॥

v2.c84.32

पटादौ फलकाद्युक्तमार्गमार्शित्य लेखयेत् ।
पुराणलोष्टचूर्णेन शुष्कगोमयचूर्णकान् ॥
तुल्यशीतजलेनापि योजयेत् पेषणीतले ।
पिष्ट्वा तेन विधायाशु शोषयेत् किट्टलेखनीम् ॥

v2.c84.33

अथात्र प्रकमायाता कथ्यतेऽण्डकवर्तना ।
कायप्रमाणमपि च जातिभावादिसंश्रयम् ॥
अथ (मधोतिरलिख्य तोरका सन्निवेशयेत् ।
तारका ?) त्रयमालेख्य तत्रान (न) समायति ॥
ताव(त्) प्रमाणमायामं गोल(क) स्योत्तमं विदुः ।
तेन गोलकत्वेन (?) मानोन्माने तु कारयेत् ॥
मुखाण्डकस्य विस्तारो (लेप?) षट्केन सम्मितः ।
द्विदैर्घ्यं तु (?) गोलकाः सप्त वापीसंस्थानमेव च ।
मुखाण्डकमिदं श्रेष्ठं कर्तव्यं चित्रकर्मणि ।
त्रिकोटि वृत्तमालेख्यं वृत्ताण्ड(क)मिति क्रमात् ॥
(भावाण्डकान्यथ ब्रूमः सोहस्याभिप्रस्तवेडकम् ?) ।
गोलार्धाभ्यधिकं कार्यं (पूर्वैस्तोत्तद्विचक्षणैः ?) ॥
अर्धगोलकमायामादलसाण्ड मुच्यते ।
नवगोलकदैर्घ्यं तदद्वहासमुखं (?) भवेत् ॥
पुंसां षडा (दात्तं? यत्तं) मानं विस्तारात् पञ्चगोलकम् ।
वनिताण्डकमालेख्यं नालिकेरफलोपमम् ॥
चतुर्गोलकविस्तीर्णमायतं पञ्चगोलकान् ।
शिशुनामण्डकं तावत् कर्तव्यं चित्रकर्मणि ॥
(हास्योभिःप्रस्रवेत् ?) तस्य गोलकार्धान् विशेषयेत्।
आलस्याण्डकमप्येवं रोदनं तद्वदेव तु ॥
षड्गोलक(प्र) विस्तारमायतं सप्तगोलकम् ।
राक्षसस्याण्डकं कुर्याच्चन्द्रमण्डलसन्निभम् ॥
(हास्योभिः प्रस्तेव?) तस्य गोलकार्धान्विशेषयेत्।
देवांण्डकं प्रमाणेन तदालस्येऽत्र कीर्तितः (?) ॥
षड्गोलक (प्र) विस्तारं गोलकाष्टकमायतम् ।
वृत्तायतं समालेख्यं दिव्याण्डकमिति स्मृतम् ॥
अथाभिधीयते दिव्यमानुषाण्डकवि ? लक्षणम् ।
गोलकार्धाधिकं (भे?त) च्च कार्यं मानुषमानतः ॥
पञ्चगोलकविस्तीर्णं षड्गोलकसमायतम् ।
मुखाण्डं मानुषं कृत्वा . . . . . विधीयते ।
शशुकाण्डकमानेन प्रमथानां मुखाण्डकम ॥
राक्षसाण्डकमानेन यातुधानाण्डकं भवेत् ॥

v2.c84.34

दानवस्याण्डकं कुर्याद् देवानां वदनौपमम् ।
गन्धर्वनगयक्षाणां तद्वद्देवाण्डकं भवेत् ॥
विद्याधराणां विज्ञेयं दिव्यमानुषमण्डकम् ।

v2.c84.35

अथमानसमुत्पत्तिर्यथावदभिधीयते ॥
देवानां त्रीणि रूपाणि सुरजो + + कुम्भको ।
स्याद् दिव्यमानुष्यैकं शरीरं दिव्यमानुषम् ॥
असुराणां त्रिधा रूपं चक्रमुत्तीर्णकं तथा ।
दुर्दरः शकटः कूर्म(त्रिदिवौ ? इतिद्वे) रक्षसां पुनः ॥
पुंसां रूपाणि पञ्च स्युस्तान्युच्यन्ते यथाक्रमम् ।
(हंसः सासाम्ररूचको भक्तामालाव्य एव च ॥
कुयस्वविद्विधौ ज्ञेयो मेषो वृत्तकरस्तथा ?) ।
वामनास्त्रिविधा ज्ञेयाः सपिण्डास्थानपद्मकाः ॥
(कूश्माण्डकर्वटस्तिर्यक + + + + प्रथमः?) ।
मयूरः कुर्वटः काशः किन्नरस्त्रिविधो भवेत् ॥
(वालकापौरुषीवृत्ता + + + दण्डका तथा ।
त्रयः(?)पञ्चधा प्रोक्ताःसमस्ताश्चित्रवेदिभिः ॥
भद्रो मन्दो मृगो मिश्र इति हस्ती चतुर्विधः ।
जन्मतस्त्रिविधं प्राहुर्गिरिनद्युषराश्रयम् ॥
द्विविधा वाजिनो रथ्याः पारसादुत्तरान्ततः ।
सिंहाश्चतुर्धा शिखरविलगुल्मतृणाश्रयाः ॥
व्यालाः षोडश निर्दिष्टा हरिणो गृध्रकः शुकः ॥
कुक्कुटः सिंहशार्दूलवृकाजागण्डकीगजाः ।
क्रोडाश्वमहिषश्वानो मर्कटः खर इत्यमी ॥
[एसामिन्दमासं यं याम्यनैर्ऋतवारुणै ।
वायव्यां सौम्यमित्युक्तं जझिपातमिहव्यधाहृ ॥
नतस्तमिहभामिः शिषद्या सूकरोऽपि च ॥
पशुगौः सुसुमारूश्च गजमेषश्चतुर्मुख?) ।
तुरङ्गसिंहशार्दूलमेषाश्चेत्यत्र षोडश ॥

v2.c84.36

हंसो भद्रोऽथ मालव्यो रूचकः शशकस्तथा ।
विज्ञेयाः पुरुषाः पञ्च तेषां वक्ष्यामि लक्षणम् ॥
उच्च्छायायामपुल्यास्ते सर्वे ज्ञेयाः प्रमाणतः ।
स्वेनेवाङ्गुलमानेन शतमष्टाधिकं भवेत् ॥
प्रमाणं नृप हंसस्य भद्रस्य तु षडुत्तरम् ।
चतुर्भिरधिकं ज्ञेयं मालव्यस्य तथा नृप ॥
शतं च रुचकस्योक्तं दशोनं शशकस्य च ।
द्वादशाङ्गुलविस्तारस्ताल इत्यभिधीयते ॥

v2.c84.37

अङ्गुलन्तच्चतुर्भागं पादोच्छ्रायः प्रकीर्तितः ।
द्वौ च तालौ तथा जङ्घे पादतुल्ये च जानुनी ॥
जङ्घातुल्यौ तथा चोरू नाभिस्तालं तु मेढ्रतः ।
तावच्च नाभिहृदयं हृद्यात्कण्ठ एव च ॥
कण्ठस्तालत्रिभागः स्यात्तालं च वदनं भवेत् ।
तालषड्भागमप्युक्तं ललाटोपरि मस्तकम् ॥
मध्ये मेढ्रं तु विज्ञेयमिति दैर्घ्यं प्रकीर्तितम् ।
तालः प्रोक्तः करो राजन्बाहू सप्तदशाङ्गुलौ ॥
प्रबाहू तावदेवोक्तौ वक्षसोधमथाष्टकम् ।
एतदायामतः प्रोक्तं मानं हंसस्य पार्थिव ॥
अनेनैवानुसारेण शेषाणामपि कल्पयेत् ।
आयामपरिणाहाभ्यां समाः सर्वे नराधिप ॥
सामान्यतस्ते नृपवर्य मानं प्रोक्तं मया हंसनराधिपस्य ।
प्रत्यङ्गमानं च मयोच्यमानं समासतरत्वं शृणु राजसिंह ॥

v2.c84.38

स. चित्रकर्मणि मूर्त्यवयवप्रमाणं तदनुसारेण मधक्षहंसमालव्यादिवर्णनम्—वि० ध०

v2.c84.39

अथ प्रत्यङ्गविभागो भवति तत्र द्वादशाङ्गुलपरीणाहो मूर्धा । चतुरङ्गुलोच्छ्रायमष्टाङ्गुलं ललाटम् । शङ्खौ चतुरङ्गुलौ द्व्यङ्गुलोच्छ्रायौ पञ्चाङ्गुलौ गण्डौ चतुरङ्गुलो हनुः । द्व्यङ्गुलौ कर्णौ चतुरङ्गुलोच्छ्रायौ । कर्णमध्याङ्गुलं तद्रन्ध्रमुदकम् । पालिरनियमेन । (कर्णस्य लुटिकापालिः) नासा चतुरङ्गुला अग्रे द्व्यङ्गुलोच्छ्राया त्रिकायामा च नासा-पुटावंगुलीविस्तारौ द्विगुणद्विगुणायामौ । नासौष्ठमध्यमर्धाङ्गुलम् । ओष्ठश्चाङ्गुलः । चतुरङ्गुलायाममास्यम् । अधरोङ्गुलं द्व्यङ्गुलं चिबुकम् । चत्वारिंशद्दन्ताः । नेष्वष्टौ दंष्ट्राः । अर्धाङ्गुलोच्छ्रिता दन्ताः । अङ्गुलद्वादशभागिका दंष्ट्रा । अङ्गुलविस्तृते त्र्यङ्गुलायामे नेत्रे । नेत्रत्रिभागं कृष्णमण्डलम् । पञ्चभागास्तारा । अर्धाङ्गुलिविस्तृते त्र्यङ्गुलायामे ध्रुवौ । तयोर्द्वचङ्गलमन्तरम् । चतुरङ्गुलं नेत्रान्तकर्णविवरम् । दशाङ्गुल-विस्तृता ग्रीवा । एकविंशत्यङ्गुलपरिणाहा षोडशाङ्गुलं स्तनान्तरम् । षडङ्गुलं स्तन-जत्र्वन्तरम् । षोडशबाहुमूलपरिणाहः । द्वादशाग्रे सप्ताङ्गुलं करतलम् । पञ्चाङ्गुलं विस्तृतं पञ्चाङ्गुलप्रमाणा मध्यमिका । तत्पूर्वदलहीना प्रदेशिनी । तत्तुल्या चानामिका । तत्परिहीना कनिष्ठिका सर्वाः समत्रिभागपर्वाः । पर्वाधी नखाः । त्र्यङ्गलमङ्गुष्ठं द्विपर्वः । जठरपरिणाहो द्वाचत्वारिशांगुलः । वेद्यप्रमाणाभ्य मङ्गुलं नाभिः । कटिरष्टादशां-गुला विपुला । तत्परिधिश्चत्वारिंशत् । चतुरङ्गुलविस्तृतौ वृषणौ । षडङ्गुलं तावत्परिणाहं मेढ्रम् । तन्मध्यत ऊरू चतुरङ्गुलौ । तद्विगुणपरिणाहाङ्गुलत्रिपुले जानुनी । तत्त्रिगुणपरिणाहं जङ्घाग्रम् । पञ्चाङ्गुलं चतुर्दशपरिणाहं द्वादशदीर्घौ षडङ्गुलविस्तृतौ पदौ त्रिकायताङ्गुष्ठौ । अङ्गुष्ठतुल्या प्रदेशिनी । तदष्टांशोनाः शेषाः । अङ्गुलचतुर्भाग-होनोऽङ्गुष्ठनखः । तदर्धप्रमाणं प्रदेशिन्याः । तदष्टभागः शेषाणाम् । सर्वपादमङ्गुल-मष्टाङ्गुलोत्सेधः । त्र्यङ्गुले पाष्णी, चतुरङ्गुलोच्छ्रायौ इति हंसप्रमाणं भवति । भवन्ति चात्र । शेषाणां पार्थिवेन्द्राणां मानं युक्त्या प्रकल्पयेत् अनेनैवानुसारेण स्वमानस्यास्रारतः ।

v2.c84.40

मध्वक्षश्चन्द्रगौरस्तु नागराजभुजो बली ।
हंसगामी सुमध्यश्च हंसश्च सुमुखो भवेत् ॥
रोमरुद्धकपोलस्तु गजगामी महामतिः ।
वृत्तोपचितबाहुस्तु भद्रः पद्मनिभो भवेत् ॥
मुद्गश्यामस्तु मालव्यः कृशमध्यस्तनुच्छविः ।
आजानबाहुः पीनांसो दन्तघोणो महाहनुः ॥
शरदगौरस्तु रुचकः कम्बुग्रीवो महामतिः ।
सत्यस्तु सिकतश्चैव बलवांश्च प्रकीर्तितः ॥
रक्तश्यामस्तु शशकः किञ्चित्कर्बुरकस्तथा ।
पूर्णगण्डश्च चतुरो मध्वक्षश्च प्रकीर्तितः ॥
अङ्गप्रत्यङ्गमानेन यथा पञ्च नराः स्मृताः ।
स्त्रियः पञ्च तथा ज्ञेयास्ता एव मनुजोत्तम ॥
पुरुषस्य समीपस्था कर्तव्या योषिदीश्वर ।
नरस्कन्धप्रमाणेण कार्यैका सा यथामिति ॥
अङ्गुली द्वौ नरात्क्षामं स्त्रियो मध्यं विधीयते ।
अधिका च कटिः कार्या तथैव चतुरङ्गुलम् ॥
उरःप्रमाणतः कार्यौ स्तनौ नृप मनोहरौ ।
नृपाश्च सर्वे कर्तव्या महापुरुषलक्षणाः ॥
जालपादकराः कार्यास्तथा वै चक्रवर्तिनः ।
ऊर्णेयं च ध्रुवोर्मध्ये तेषां कार्यं तथा शुभम् ॥
रेखाश्च करयोः कार्यस्तिस्रो राज्ञां मनोहराः ।
शशक्षतजसङ्काशाः शस्त्रा वै क्षामकोट‌काः ।
तदङ्गमङ्गिनः सूक्ष्मा निजस्नेहाभ्यलङ्कृताः ।
घनेन्द्रनीलसदृशाः केशाः कार्यास्तथा शुभाः ॥
कुन्तला दक्षिणावर्तस्तिरङ्गा सिंहकेसराः ।
वर्धरा जूटटसरा इत्येताः केशजातयः ॥
चापाकारं भवेन्नेत्रं मत्स्योदरमथापि वा ।
नेत्रमुत्पलपत्राभं पद्मपत्रनिभं तथा ॥
शानाकृतिर्महाराज पञ्चमं परिकीर्तितम् ।
चापाकारं भवेन्नेत्रं प्रमाणेन यथा स्त्रियः ॥
मत्स्योदराख्यं कथितं तथा यवचतुष्टयम् ।
नेत्रमुत्पलपत्राख्यं प्रमाणात्सप्तयवं स्मृतम् ॥
पद्मपत्रनिभं नेत्रं प्रमाणेन यवा नव ।
शशाकृतिं च विज्ञेयं तथैव च यवा दश ॥
स्वमानाङ्गुलमानस्य यवमानं प्रकल्पयेत् ।
चापाकारं भवेन्नेत्रं योगभूमिनिरीक्षणात् ॥

v2.c84.41

मत्स्योदराकृति कार्यं नारीणां कामिनां तथा ।
नेत्रमुत्पलपत्राभं निर्विकारस्य शस्यते ॥
त्रस्तस्य रुदतश्चैव पद्मपत्रनिभं भवेत् ।
क्रुद्धस्य वेदनान्तस्य नेत्रं शराकृतिर्भवेत् ॥
ऋषयः पितरश्चैव देवताश्च नराधिप ।
स्वप्रभाभरणाः कार्या द्युतिमन्तस्तथैव च ॥
मुष्णन्तस्तेजसां तेजः परेषां नृपसत्तम ।
सम्यग्विचार्य नृपतिः स्वधिया यथोक्तं ह्येतत्प्रमाणमनुरूपमनिन्दितं च ।
स्थानैरनेककरणैः स्थिरभूमिलम्भैः कार्यं तदेव सुकुमारमजिह्मरेखम् ॥

v2.c84.42

नेत्रमुत्पलपत्राभं रक्तान्तं कृष्णतारकम् ।
प्रसन्नं दीर्घपक्ष्मान्तं मनोज्ञं नृपसत्तम ॥
देवतानां करं राजन् प्रजाहितकरं भवेत् ।
समे गोक्षीरवर्णाभे स्निग्धे जिह्वाग्रपक्ष्मले ॥
प्रसन्ने पद्मनेत्रान्ते मनोज्ञे प्रियदर्शने ।
कृष्णतारे विशाले च नयने श्रीसुखप्रदे ॥
चतुरस्रं सुसम्पूर्णं प्रसन्नं शुभलक्षणम् ।
अत्रिकोणमवक्रं च अधिकारमुखं भवेत् ॥
दीर्घमण्डलचक्राणि त्रिकोणादीनि यानि च ।
वर्ज्यानि तानि देवानां प्रजासु शिवमिव्छता ॥
कार्या हंसप्रमाणेन देवा यदुकुलोद्वह ।
तेषां च लोमकत्तंव्यमक्षिपक्ष्मसु च भ्रुवोः ॥
अतः शेषेषु गात्रेषु देवाः स्युर्लोमवर्जिताः ।
द्विरष्टवर्षाकाराश्च तथा कार्या दिवौकसः ॥
प्रसन्नवदना नित्यं तथा च स्मितदृष्टयः ।
मुकुटैः कुण्डलैर्हारैः केयूरैरङ्गदैस्तथा ॥
भूषितास्तेऽथ कर्तव्याः शुभस्रग्दामधारिणः ।
श्रोणीसूत्रेण महता पादाभरणचारिणा ॥
यज्ञोपवीतवन्तश्च सावतंसास्तथैव च ।
जान्वधोलम्बिना कार्याः शोभिना कटिवाससा ॥
वामे मनुजशार्दूल दक्षिणं जानु दर्शयेत् ।
अंशुकं च तथा कार्यं देवतानां मनोहरम् ॥
प्रभा च तेषां कर्तव्या मूर्ध्नि मूर्ध्नः प्रमाणतः ।
मण्डलाभा महाराज देवतातोज्नुकारिणी ॥
ऊर्ध्वा दृष्टिरधोदृष्टिस्तिर्यक् तेषां विवर्जयेत् ।
हीनाधिका वा दीना वा क्रुद्धा रूक्षा तथैव च ॥
ऊर्ध्वा तु मरणायोक्ता शोकायाधः प्रकीर्तिता ।

v2.c84.43

तिर्यग्ध्नविनाशाय हीना भवति मृत्यवे ॥
अधिका शोकजननी दीना च नृपसत्तम ।
रूक्षा धनक्षयाय स्यात्क्रुद्धा भयविवर्धिनी ॥
शातोदरी न कर्तव्या न कार्या चाधिकोदरी ।
सुक्षता च न कर्तव्या तथा यदुकुलोद्वह ॥
हीनाधिकप्रमाणा च रूक्षवर्णा तथैव च ।
विवृतेन च वक्त्रेण नता च यदुनन्दन ॥
प्रमाणहीनैस्त्वङ्गैश्च त्वधिकैरपि पार्थिव ।
शातोदरी क्षुद्भयदा मरणायाधिकोदरी ॥
सक्षता मरणायोक्ता हीना धनविनाशिनी ।
अधिका शोकजननी रूक्षवर्णा भयप्रदा ॥
विवृत्तेन च वक्त्रेण कुलनाशकरी भवेत् ।
प्राच्याभा धननाशाय दक्षिणेन च मृत्यवै ॥
पश्चिमेन सुतघ्नी च चोद्ग्भयविवृद्धये ।
प्रमाणहीना नाशाय अधिका देशनाशिनी ॥
अलक्षणा मरणायोक्ता क्रुद्धा रूपविनाशिनी ।
प्रमाणहीनां प्रतिमां तथा लक्षणवर्जिताम् ॥
आवाहिताञ्च विप्रेन्द्रैर्नाविशन्ति दिवौकसः ।
आविशन्ति तु तां नित्यं पिशाचा दैत्यमानवाः ॥
तस्मात्सर्वप्रयत्नेन मानहीनां विवर्जयेत् ।
चित्रलक्षणसंयुक्तं प्रशस्तं सर्वमुच्यते ॥
आयुष्यं च यशस्यं च धनधान्यविवर्धनम् ।
तदेव लक्षणापेतं धनधान्यविनाशनम् ॥
देवा नरेन्द्र कर्तव्याः शोभाश्वन्तः सदैव तु ।
मृगेन्द्रवृषनागानां हंसानां गतिभिः समाः ॥
सलक्षणं चित्रमुशन्ति धन्यं देशस्य कर्तुर्वसुधाधिपस्य ।
तस्मात्प्रयत्नेन सलक्षणं तत्कार्यं नरैर्यत्नपरैर्यथावत् ॥

v2.c84.44

१२. नानावर्णानुगताः शुभाकारविहारा ऋज्वागतसाचीकृतदेहाद्यनेकोपभेद-सहिताश्चित्रकर्मणो नव भेदाः-

v2.c84.45

शुभाकारविहाराणि नानावर्णधराणि च ।
नव स्थानानि रूपाणां शृणु तान्यनुपूर्वशः ॥
ऋज्वागतं भवेत्पूर्वमनृजु तदनन्तरम् ।
साचीकृतशरीरं च भवत्यर्धंविलोचनम् ॥
ततः पार्श्वगतं नाम पुरावृत्तमनन्तरम् ।
पृष्ठागतमधः कार्यं पुरावृत्तं समानतम् ॥

v2.c84.46

एतान्यनेकभेदानि नव स्थानानि भूषिते ।
एकैकस्येह भवतः शृणु मे नृप लक्षणम् ॥
तत्राभिमुखमेवादौ स्पष्टमानगुणान्वितम् ।
सुसम्पूर्णं सुचार्वङ्गं सुलक्षणमलवर्तकम् ॥
सुशुद्धं मधुरं स्पष्टरेखासंस्कारभूषितम् ।
यद्भवत्स्थानमक्षीणगात्रं पृष्ठगतं तु तत् ॥
मुखस्याद्यावतोऽक्षीणं वक्षस उदरं तथा ।
कट्या च स्कन्धदेशाच्च ऊरुतश्च क्षयं गता ॥
नासापुटाधरोष्ठानां चतुर्थांशं च बुद्धिमत् ।
क्षयं नीतं त्रिभागं च यस्य गात्रेभ्य एव च ॥
कान्तरूपं परं स्थानं स्थानलम्भोपपादितम् ।
एतदेवर्जुनामोक्तमनेककरणान्वितम् ॥
यत्तिर्यग्भूमि लम्भेन नेत्रहारि सुवर्तनम् ।
सुकुमारं चतुर्भागं क्षीणं सर्वाङ्गशोभनम् ॥
अध्यर्धभ्रूललाटे चाप्यध्यर्धं घ्राणमुत्कटम् ।
भागक्षयावशेषार्धं कलापक्षीणलोचनम् ॥
कलावलुप्तभ्रूलेखं लिखितं स्निग्धलेखया ।
न च छायागतं कालं न चावऋजुकल्पनम् ॥
स्रेकारिकत्वाच्च नृप साचीकृतमिहोच्यते ।
अर्धं नेत्रं मुखे यस्य लुप्तमवध्रुवे तथा ॥
भङ्गे ललाटमात्रश्च दृश्यानां सारमेव तु ।
मात्रार्धा चैकतो गण्डं दृश्यमर्धकृतक्षयम् ॥
मात्रार्धं कण्डरेखाया यवमाविष्कृतं हनोः ।
उरसोऽर्धं मुखं लिप्तं नाभ्यास्याच्छिष्टमङ्गुलम् ॥
अध्यर्धशेषा च कटी अन्यच्च दर्शनीकृतम् ॥
अध्यर्धाक्षं परिज्ञेयमाकारेणैवमादिना ॥
च्छायागतमिति प्रोक्तं पर्यायेणैतदेव तु ।
यस्यावलोक्यते पार्श्वं दक्षिणं सव्यमेव वा ॥
कृत्स्नमन्यत्क्षयात्तं तदङ्गमङ्गगतस्तथा ।
एकाक्षमभ्रलेक्षमरण नामा ललाटवत् ॥
एकं श्रोत्रं यदर्धं स्याच्चिचुकार्धं शिरोरुहम् ।
गृहीतमानलावण्यमाधुर्यादिगुणान्वितम् ॥
पार्श्वगतमिति प्रोक्तं तत्स्याद्विर्तिकसंज्ञितम् ।
अपाकृद्धे कलक्षीणे कण्ठदेशे तथैव च ॥
बाहुगण्डललाटेषु कालाख्यं क्षयमागतम् ।
बाहुवक्षः कटितटस्थितिगु... ... ... ॥
द्विकलं द्विकलं ज्ञात्वा यथाभागं कृषीकृतम् ।
अनुरूपप्रमाणेन नातितीक्ष्णाङ्गमेव च ॥

v2.c84.47

एतद्गण्डपरावृत्तं स्थानं च परिकीर्तितम् ।
पृष्ठतो यदपि व्यक्तं देहबन्धं मनोहरम् ॥
वक्रभ्रुकुटिसर्वज्ञसन्धिबन्धनमेव च ।
ईषच्च दर्शितापाङ्गकपोलजठरे पुनः ॥
प्रकाशितैकपार्श्वेन सुस्थिरं दृष्टिकारि च ।
स्वहीनमानलावण्यमाधुर्यादिगुणान्वितम् ॥
लेखेषु पुस्तदेशेषु पृष्ठागतमिति स्मृतम् ।
यस्योर्धमङ्गलपत्येन भागेन समवस्थितम् ॥
स्थितेर्ष्याभिमुखेर्धाङ्गे परिवृत्तिवशाद्भवेत् ।
किञ्चिच्छायागतौ कार्यवुपारिष्टादधः पुरः ॥
अर्धार्धगतसारूप्यं चिरसग्राम्यसंस्थितम् ।
मध्येन नेवरम्येन यथायोगविलोपिना ॥
विज्ञेयं दधतः कार्यं परिवृत्तं नरेश्वर ।
समग्रदृष्टिस्फिग्देशं दृष्टपादतलं तु यत् ॥
ऊर्ध्वतः क्षीणदृष्टार्धं दृश्या शेषं कटिस्थलम् ।
लुप्तपादाङ्गुलितलं दृश्याशेषतलद्वयम् ॥
चतुरस्रं सुसम्पूर्णमभयानकदर्शनम् ।
प्रकाशीकृतबाहुञ्च सुदृष्टमुखकन्धरम् ॥
लुप्तं जङ्घकतो ज्ञेयं नाम्ना स्थानं समानतः ।
नीचान्येतानि सर्वाणि तथोक्तैरभिरोजितम् ॥
लक्षितैर्लक्षितव्यानि त्वयानुक्रमशो नव ।
एषां प्रज्ञावशेषेण विकाराणि बहून्यपि ॥
एकैकशश्च भूभागैः कर्तव्यानि यथावधि ।
त्वया सन्तः समासाद्य सम्यङ् मानं तु भूतले ॥
स्थानानीमानि मानाद्यैर्गुणैर्लेखानि यत्नतः ।
नवैवैतानि दृष्टानि सर्वभावेष्वनिन्दित ॥
स्थानानि नाधिकमतः परमस्ति हि किंचन ।
जीवलोकं परिक्रम्य सततं स्थाणुजङ्गमम् ॥
उत्तमाधममध्येषु प्रमाणगुणतः सदा ।
चित्रं विचित्रं त्रिविधं प्रमाणं त्रयमेव च ॥
क्षयवृद्धी च कार्त्स्न्येन मया तेऽभिहितेऽनघ ।

v2.c84.48

अतः परं प्रवक्ष्यामि क्षयवृद्धिविधिं क्रमात् ॥
चित्रविद्भिरसंज्ञेयं समासेननेत्तरेण च ।
त्रयोदश विधैवात्र क्षयवृद्धिप्रदाहृता ॥
स्थानानां बहुसंस्थत्वादङ्गावयवसम्भवा ।
स्थानं पृष्ठगतं पूर्वमवर्जुगतमेव च ॥
मध्यार्धं तथार्धार्धं साचीकृतमुखं तथा ।

v2.c84.49

नतं गण्डपरावृत्तं पृष्ठोपागतमथापि च ॥
पार्श्वार्गतं च विज्ञेयमुल्लेपं चलितं तथा ।
उत्तानं वलितं चेति स्थानानि तु त्रयोदश ॥
कार्याण्येतानि सर्वाणि नामसंस्थानतो नृप ।
मण्डलानीह वैशाखप्रत्यालीढक्रियाक्रमैः ॥
समाश्चार्द्धसमाः पादाः सुस्थितानि चलानि च ।
समासम्पदस्थं च द्विविधं स्थानकं भवेत् ॥
तद्गत्वा पदभूयिष्ठं स्थानं सम्पदं स्मृतम् ।
मण्डलञ्च द्वितीयं स्यात्स्थानान्यन्यानि यानि च ॥
तान्येकसमपादानि विचित्राणि चलानि च ।
तत्र वैशाखमालीढं प्रत्यालीढं च धन्विनाम् ॥
चित्रगोमूत्रकगतं विषमं खड्गचर्मिणाम् ।
चलितं स्खलितायस्तमालीढंकपदक्रमम् ॥
शक्तितोमरपाषाणभिन्दिपालादिधारिणाम् ।
सवल्गितं चक्रशूलगदाकुणपधारिणाम् ॥
एकपादसमस्थानं द्वितीयेन तु विद्गलम् ।
शरीरं च सलीलं स्यात्सावष्टंभैः क्वचिद्द्रुतम् ॥
लीलाविलासविभ्रान्तं विशालजघनस्थलम् ।
स्थिरैकपादविन्यासं स्त्रीरूपं विलिखेद्बुधः ॥
प्रमाणहीनस्तु जनोऽनुभूयात्कालस्य भावस्यवलात्पृथिव्याम् ।
इति प्रचिन्त्यात्मधिया बुधेन कार्यं प्रमाणक्षयवृद्धियोगे ॥

v2.c84.50

१३—चित्रे देवन् ऋर्षिगन्धर्वदैत्यदानवादीनां सायुधानां सपरिच्छदानां निर्माणदेशविशेषा-नुरूपासनशयनयानवेशसरित्सागरवाहनशैलशिखरसद्वीपभूमण्डलशङ्खपद्मादिनिधिसचन्द्र-मक्षत्रेरात्रिसन्ध्यादिनिर्माणम्—वि०ध०—

v2.c84.51

यथा देवस्तथा चित्रे कर्तव्यः पृथिवीश्वर ।
एकैकं रूपके लोम कर्तव्यं पृथिवीक्षिताम् ॥
ऋषयश्च सगन्धर्वा दैत्याश्च सहदानवाः ।
मन्त्रिणश्च महाराज सांवत्सरपुरोहितौ ॥
कार्या भद्रप्रमाणेने ब्राह्मणाश्च नरेश्वर ।
ऋषयस्तत्र कर्तव्या जटाजूटोपशोभिताः ॥
कृष्णाजिनोत्तरासङ्गा दुर्बलास्तेजसा युताः ।
देवताश्चापि गन्धर्वा मुकुटेन विवर्जिताः ॥
कर्तव्यास्ते महाराज शिखरैरुपशोभिताः।
ब्रह्मवर्चस्विनो विप्राः शुक्लाम्बरधरास्तथा ॥
मन्त्रिणश्च महाराज सांवत्सरपुरोहितौ ।
सर्वालङ्कारसंयुक्तानेवोल्बणविभूषणान् ॥
मुकुटेन विहीनांस्तु सोष्णीषान्कारयेच्च तान् ।
दैत्याश्च दानवाश्चैव कर्तव्या भ्रुकुटीमुखाः ॥

v2.c84.52

वर्तुलाक्षास्तथा कार्या भीमवक्त्रस्तथैव च ।
तेषामभ्युद्धतो वेषः कर्तव्यः पृथिवीपते ॥
रुद्रप्रमाणाः कर्तव्यास्तथा विद्याधरा नृप ।
सपत्नीकाश्च ते कार्या माल्यालङ्कारधारिणः ॥
खड्गहस्ताश्च ते कार्या गगने वाथ वा भुवि ।
मालव्यपरिमाणेन किन्नरोरगराक्षसाः ।
रुचकस्य प्रमाणेन यक्षाः कार्या नराधिप ।
शशकस्य प्रमाणेन प्रधानं मानवं लिखेत् ॥
पिशाचा वामनाः कुब्जाः प्रमथाश्च महीभुजः ।
मानन्नियमतः कार्यं रूपन्नियमतस्तथा ।
स्वानुरूपप्रमाणाश्च सर्वेषां योषितः स्मृताः ।
किन्नरा द्विविधाः प्रोक्ता नृवक्त्रा हयविग्रहाः ॥
नृदेहाश्चाश्ववक्त्राश्च तथान्ये परिकीर्तिताः ।
अश्ववक्त्रास्तु कर्तव्याः सर्वालङ्कारधारिणः ॥
गीतवाद्यसमायुक्ता द्युतिमन्तस्तथैव च ।
उत्कचा राक्षसाः कार्या विकलाक्षा विभीषणाः ॥
देवाकाराश्च कर्तव्या नागाः फणविराजिताः ।
सालङ्काराः स्मृताः सर्वे यक्षास्तेऽभिहिता मया ॥
सुराणां प्रमथाः कार्याः प्रमाणेन विवर्जिताः ।
पिशाचाश्च तथा कार्या प्रमाणेन विवर्जिताः ॥
नानासत्त्वमुखाः कार्या देवतानां तथा गणाः ।
नानावेशा महाराज नानायुधधरास्तथा ॥
नाना क्रीडाप्रसक्ताश्च नाना कर्मकरास्तथा ।
एकरूपास्तु कर्तव्या वैष्णवामान्तथा गणाः ॥
तत्रापि तेषां कर्तव्या भेदाश्चत्वार एव च ।
वासुदेवसमाः कार्या वासुदेवगणाः शुभाः ॥
संकर्षणेन सदृशास्तद्गणाश्च तथा स्मृताः ।
प्रद्युम्नेनानिरुद्धेन तद्गणाः सदृशास्तथा ॥
तत्प्रभावाः स्मृताः सर्वे तदायुधधरास्तथा ।
नीलोत्पलदलश्यामाश्चन्द्रशुभ्रास्तथैव च ॥
तथा मरकताकाराः सिन्दूरसदृशप्रभाः ।
रुचकस्य तु मानेन वेश्याः कार्यास्तथा स्त्रियः ॥
वेश्यानामुद्धतं वेशं कार्यं शृङ्गारसम्मतम् ।
मालव्यमानतः कार्या लज्जावत्यः कुलस्त्रियः ॥
नात्युन्नतेन वेशेन सालङ्कारास्तथैव च ।
दैत्यदानवयक्षाणां राक्षसानां तथैव च ॥
रूपवत्यस्तथा कार्या पत्न्यो मनुजसत्तम ।
मातरः स्वेन रूपेण तथा कार्या नराधिप ॥

v2.c84.53

पिशाचानां च पत्न्योऽपि कार्यास्तद्रूपसंयुताः ।
विभर्तृकास्तु कर्तव्या स्त्रियः पलितसंयुताः ॥
शुक्लवस्त्रपरीधानाः सर्वालङ्कारवर्जिताः ।
कुब्जा वामनिका वृद्धा तथा रूपवती भवेत् ॥
राजस्त्रीणां परीवारे वृद्धः स्यात्कञ्चुकी पुनः ।
रुचकस्य तु मानेन वैश्यमानं विधीयते ॥
शशकस्य तु मानेन शूद्रमानं तथैव च ।
यथा जात्यनुरूपेण वेषेण मनुजेश्वर ॥
दैत्यादियोषितां कार्याः परिचारस्त्रियः सदा ।
महाशिरा महोरेस्को महानासो महाहनुः ॥
पीनस्कन्धभुजग्रीवः परिमाणेन चोच्छ्रितः ।
त्रितरङ्गललाटश्च व्योमदृष्टिर्महाकटिः ॥
दृप्तश्चित्रविदा कार्यः सेनायाः पतिरूर्जितः ।
योधा कार्या महाराज प्रायशो भ्रुकुटीमुखाः ॥
किञ्चिदुद्धतवेषाश्च कार्याश्चोद्धतदर्शनाः ।
अभ्युद्गताश्च कर्तव्या आयुधीयाः पदातयः ॥
खड्गचर्मधराः कार्याः कर्णाटकवपुर्धराः ।
वरबाणधराः कार्या नग्नजङ्घाश्च धन्विनः ॥
नात्युद्धतेन वेषेण सोपानत्कास्तथैव ते ।
यथोक्तलक्षणाः कार्याः कुञ्जरास्तुरगादयः ॥
हस्त्यारोहास्तु कर्तव्या मुहुः श्यामास्तु वर्णतः ।
कैश्चैश्च जूटभरैः सालङ्कारास्तथैव च ॥
उदीच्यवेषाः कर्तव्यास्तुरगाणां तु सादिनः ।
उद्धतेन तु वेषेण कर्तव्या बन्दिनस्तथा ॥
सिरादर्शितकण्ठाश्च तथैवोन्मुखदृष्टयः ।
आह्वानकास्तु कर्तव्याः कपिलाः केकरेक्षणाः ॥
किञ्चिद्वानवसदृशाः प्रायशो दण्डपाणयः ।
न केकरान्न कपिलान्युद्धे द्वंद्वान्तमालिखेत् ॥
नात्युन्नतेन वेषेण न च शान्तेन शस्यते ।
पार्श्वबद्धेन खड्गेन प्रतीहारस्तु दण्डवान् ॥
संवेष्टितशिरस्काश्च कर्तव्या वणिजस्तथा ।
गायना नर्तका ये वा वाद्यवादविशुद्धये ॥
उद्धतेन तु वेषेण कार्यास्ते मनुजोत्तम ।
आसन्नपलिताः कार्याः स्वभूषणविभूषिताः ॥
पौरजानपदाः श्रेष्ठाः शुभ्रवस्त्रविभूषणाः ।
प्रसृतप्रवणाः प्रह्लाः स्वभावप्रियदर्शनः ॥

v2.c84.54

स्वकर्मोपस्करव्यग्रः कार्यः कर्मकरो जनः ।
प्रांशवः पीनगात्राश्च पीनग्रीवशिरोधराः ॥
उग्राश्च नीचकेशाश्च मल्लाः कार्यास्तथोद्धताः ।
वृषाः केसरिणश्चैव याश्चान्याः सत्त्वजातयः ॥
यथाभूमिनिवेशास्ते लोकं दृष्ट्वा नराधिप ।
एतद्रूपसमुद्देशमदृष्टानां तवेरितम् ॥
दृष्टं सुसदृशं कार्यं सर्वेषामविशेषतः ।
चित्रे सादृश्यकरणं प्रधानं परिकीर्तितम् ॥
बुद्ध्या रूपं यथावेशं वर्णं च मनुजोत्तम ।
देशे देशे नराः कार्या यथावृत्तसमुद्भवाः ॥
देशं नियोगं स्थानं च कर्म बुध्वा च यत्नतः ।
आसनं शयनं यानं वेशं कार्यं नराधिप ॥
सरितां सशरीराणां वाहनानि प्रदर्शयेत् ।
पूर्णकुम्भकराः कार्यास्तथा नामितजानवः ॥
शैलानां शिखरं मूर्ध्नि दर्शयेन्मनुजोत्तम ।
द्वीपानां च करैः कार्यं तथा भूमण्डलं शुभम् ॥
. . . . . राजंस्तथाशिखरपाणयः ।
रत्नपात्रकराः कार्याः सागरा मनुजोत्तम ॥
समुद्राणां प्रभास्थाने सलिलं तु प्रदर्शयेत् ।
आयुधानां च तच्चिह्नं किञ्चिन्मूर्धनि दर्शयेत् ॥
निधीनां दर्शयेत्कुम्भं शङ्खं शङ्खस्य दर्शयेत् ।
पद्मं पद्मस्य राजेन्द्र शेषाणामनुरूपतः ॥
कार्यस्यावयवाः कार्याः स्वदेहसदृशाः पृथक् ।
दिव्यानां दर्शयेच्चिह्नमक्षमालां च पुस्तकम् ॥
अतः परं प्रवक्ष्यामि रूपं यद्यस्य दृश्यते ।
आकाशं दर्शयेद्विद्वान्विवर्णं खगमाकुलम् ॥
तथैव दर्शयेद्राजंस्तारकामण्डितं दिवम् ।
भूमिं च जाङ्गलानूपमिश्रां स्वैः स्वैस्तथा गुणैः ॥
पर्वतं तु शिलाजालैः शिखरैर्धातुभिर्द्रुमैः ।
निर्झरैर्भुजगैश्चैव दर्शयेन्नृपसत्तम ॥
वनं नानाविधैर्वृक्षैर्विहङ्गैः श्वापदैस्तथा ।
तोयं च दर्शयेद्विद्वाननन्तैर्मत्स्यकच्छपैः ॥
पद्माद्यैश्च महाराज तथाऽन्यैर्जलजैर्गुणैः ।
देवतावेश्मभिश्चित्रैः प्रासादापणवेश्मभिः ॥
नगरं दर्शयेद्विद्वान् राजमार्गैश्च शोभनैः ।
वमत्या दर्शयेद्ग्रामं किञ्चिदुद्यामभूषितम् ॥

v2.c84.55

सर्वेषामथ दुर्गाणां कर्तव्यं दर्शनं तथा ।
स्वभूमिविनिवेशेन वप्राट्टालकपर्वतैः ॥
पण्ययुक्तास्तु कर्तव्यास्तथैवापणभूमयः ।
आधानभूमिः कर्तव्या पानयुक्ता नराकुला ॥
उत्तरीयविहीनांश्च द्यूतसक्तान्प्रदर्शयेत् ।
जिताञ्छोकसमायुक्तान्हृष्टांल्लब्धजयांस्तथा ॥
चतुरङ्गबलोपेतां प्रहरद्भिर्नर्नैर्युताम् ।
मृतावयवरक्ताढ्यां रणभूमिं प्रदर्शयेत् ॥
चिताकुणपसंयुक्तं श्मशानं च तथा नृप ।
युक्तं सभारैरुष्ट्राद्यैर्मार्गं सार्थं प्रदर्शयेत् ॥
सचन्द्रग्रहनक्षत्रां तथा दर्शितलौकिकाम् ।
आसन्नस्करां रात्रिं दर्शयेत्सुप्तमानवाम् ॥
प्राग्रात्रे दर्शयेत्तत्र तथा चैवाभिसारिकाम् ।
सारुणो म्लानदीपश्च प्रत्यूषो रुतकुक्कुटः ॥
कर्मव्यग्रजनप्रायः कर्तव्यो वानरस्तथा ।
द्विजैनियमभिर्युक्तां रक्तां सन्ध्यां प्रदर्शयेत् ॥
तमसो दर्शनं कार्यं वासे संसर्पकैर्नरैः ।
कुमुदानां विकाशे च ज्योत्स्नां चन्द्रे प्रदर्शयेत् ॥
दर्शयेत्सरजस्यं च शय्यां कर्णोत्करावृताम् ।
सद्वृत्तमानवप्रायां वृष्टिं दृष्ट्वाम्प्रदर्शयेत् ॥
प्राणिनां क्लेशसप्तानामादित्येन निदर्शनम् ।
वृक्षैर्वसन्तजैः फुल्लैः कोकिलामधुपोत्कटैः ॥
प्रहृष्टनरनारीकं वसन्तं च प्रदर्शयेत् ।
क्लान्तैः कार्यं नरैर्ग्रीष्मं मृगैश्छायागतैस्तथा ॥
महिषैः पङ्कमलिनैस्तथा शुष्कजलाशयम् ।
विहङ्गैर्द्रुमसंलीनैः सिंहव्याघ्रैर्गुहागतैः ॥
तोयनम्रघनैर्युक्त्तं सेन्द्रचापविभूषणैः ।
विद्युद्द्योतनैर्युक्तां प्रावृषं दर्शयेत्तथा ॥
सफलद्रुमसंयुक्तां पक्वसस्यां वसुन्धराम् ।
सहंसपद्मसलिलां शरदं तु तथा लिखेत् ॥
सवाष्पसलिलस्थानं तथा लूनवसुन्धरम् ।
सनीहारदिगन्तं च हेमन्तं दर्शयेद्बुधः ॥
हृष्टवायसमातङ्गं शीतार्तजनसङ्कुलम् ।
शिशिरं तु लिखेद्विद्वान्हिमच्छन्नदिगन्तरम् ॥
वृक्षाणां पुष्पफलतः प्राणिनां मदत्तस्तथा ।
ऋतूनां दर्शनं कार्यं लोकान्दृष्ट्वा नराधिप ॥

v2.c84.56

रसभावाश्च कर्तव्या यथापूर्वमुदाहृताः ।
यथायोगं तु युञ्जीत नृत्ताभिहितमत्र च ॥
शुष्कं वर्तनया वस्तु चित्रं तन्मध्यमं स्मृतम् ।
शुष्कार्द्रमधमं प्रोक्तं चार्द्रमेव तथोत्तमम् ॥
यथादेयं यथाकालं यथादेशं यथावयः ।
क्रियमाणं भवेद्धन्यं विपरीतमतोऽन्यथा ॥
इति विचक्षणबुद्धिविकल्पितैः करणकान्तिविलासरसादिभिः
लिखितमीक्षणलोचनमादराद्भवति चित्रमभीप्सितकामदम् ॥

v2.c84.57

विलेखालक्षणं सम्यगिदानीमभिधीयते ।
कूर्चनं कूर्चकेनाथ द्वितीयं हस्तकूर्चकम् ॥
तृतीयं भासकूर्चाख्यं चतुर्थं चल्लकूर्चनम् ।
(वर्तनंपञ्चमंवर्त्तन्यकूर्चमान्यकूर्चनमिष्यते ॥
लेप्यकर्मणि तच्छ्रस्तमनामणवः ।
जलचूर्णकमानीतमिह सत्सन्तिप्तो) ? … ॥
कूर्चकं धारयेद् धीमान् वृषश्रवणरोमभिः ।
... ... ... तत्कृतकूर्चकैः ।
वल्कलैर्वा विधातव्यः खरकैशरैथापि वा ॥
कूर्चको (येमतिर्यापि ?) विहितोऽत्र प्रशस्यते ।
तन्तूतः कूर्चकः श्रेष्ठो विलेखाकर्मणि स्वतः ।
आद्यो वटाङ्कुराकारस्ततोऽश्वत्थाङ्कुराकृतिः ॥
प्लक्षसूचीनिभश्चान्यस्तृतीयः कूर्चको भवेत् ।
उदुम्बराङ्कुराकारश्चतुर्थः परिकीर्तितः ॥
स्थूला लेखा न कुर्वीत वटाङ्कुरनिभादितः ।
न्यूनलेखा न कुर्वीत प्लक्षाङ्कुरसमेन च ।
अश्वत्थाङ्कुरूपेण यत्र विद्वत्सहीकरात् ? ।
उदुम्बराङ्कुकारो लेप्यकर्मणि शस्यते ।
ज्येष्ठः स्यादायतो दण्डो वैणवो++ + ङ्‌गुलः ।

v2.c84.58

वत्सकर्णसमुद्भू तरोमाण्यादाय यत्नतः ।
तूलिकाग्रे न्यसेत्तानि लाक्षाबन्धनयोगतः ॥
लेखनी नाम सा प्रोक्ता सा चैवं त्रिविधा भवेत् ।
स्थूला मध्या तथा सूक्ष्मा तया चित्रं विरच्यते ॥
स्थूलया लेपनं कार्यं तिर्यग्गाहितया तथा ।
अङ्कनं मध्यया कुर्यादग्रपार्श्वविनिष्टया ॥
सूक्ष्मया च तथा सूक्ष्मां लेखां कुर्वीत कोविदः ।

v2.c84.59

लेखनी त्रिविधा ज्ञेया स्थूला सूक्ष्मा च मध्यमा ।
तद्दण्डमृतुमात्रं वा विष्कम्भं षड्यवं स्मृतम् ॥

v2.c84.60

मुखे पुच्छे तदष्टांशमष्टाश्रं वाथ वर्तुलम् ।
कृत्वाग्रे विन्यसेच्छङ्कुं शौडमर्धाङ्गुलोन्नतम् ॥
यवाकारं च सुदृढं तत्र संयोजयेत् पुनः ।
स्थूलायां वत्सकर्णोत्थमजोदरभवं परे ॥
चिक्रोडपुच्छजं सूक्ष्मायामरोमं तृणाग्रकम् ।
तन्तुना लाक्षया वाथ दण्डाग्रकृतशङ्कुकुषु ॥
बध्नातु लेखनीः सम्यक् प्रतिवर्णं त्रिधा त्रिकाः ।
आकृत्या च त्रिधा स्थूला सूक्ष्मा मध्येति सा पुनः ॥
प्रत्येकं नवधा चैवं प्रतिवर्णं तु लेखनी ।
अथ मध्यमलेखन्या पीतवर्णरसेन तु ॥
किट्टलेखाबहिर्भागे लिखित्वाव्यक्तमम्बरैः ।
मार्जयेत् किट्टलेखां तां पुनः सुव्यक्तमालिखेत् ॥
रक्तवर्णरसेनाय सर्वं सम्यक् समालिखेत् ।

v2.c84.61

पश्चाच्चित्रं विचित्रं च तस्यां भित्तौ लिखेद्बुधः ।
नानाभावरसैर्युक्तं सुरेखं वर्णकोचितम् ॥
कनिष्ठिकापरीणाहां भागद्वयसमायताम् ।
घनवेणुसमुद्भूतां नलिकां परिकल्पयेत् ॥
तदग्रे ताम्रजं शङ्कं यवमात्रं विनिक्षिपेत् ।
तावन्मात्रं बहिः कुर्यात्तिन्दुनामेरितं बुधैः ॥
कज्जलं भक्तसिक्येन मृदित्वा कर्णिकाकृतिम् ।
वर्तिं कृत्वा तया लेख्यं वर्तिका नाम सा भवेत् ॥

v2.c84.62

यत्र लेखा गता वामं तत्र तान् न्ववाससा ।
संमार्ज्य सम्यगालिख्य तत्तदाकारमुन्नयेत् ॥
मन्दं किञ्चच्छिलापृष्ठे पेषयित्वा विलोड्य च ।
शुद्धतोयैर्महापात्रे मुहूर्त्तं प्रतिपालयेत् ॥
तदूर्ध्वांशं सारतोयमधः पङ्कविवर्जितम् ।
पात्रान्तरे विनिक्षिप्य पुनः कुर्यादिमं विधिम् ॥
एवं पुनः पुनः कृत्वा यावन्निर्मलता भवेत् ।
तत्सारं नवमृद्भाण्डे मन्दमालिप्य शोषयेत् ॥
ग्रीष्मातपेषु विधिवद् भूयो भूयो महामतिः ।
आलोड्य शुद्धतोयेषु शोषयेच्छिद्रमच्छिद्रकः (?)॥
एवमेव समानीय रक्ते धातूनपि क्रमात् ।
निर्मलत्वे समुत्पन्ने शोषयेदेवमेव हि ॥
अथ तैलं समासिच्य वर्धमानेऽच्छवर्तिकाम् ।
विन्यस्य प्रज्वलेद् दीपं घटमादाय मृन्मयम् ॥
शुष्कगोमयचूर्णेन संमृज्योदरमस्य वै।

v2.c84.63

तद्दीपोपरि दीपस्य संमुखं विन्यसेत् पुनः ॥
तत्र दीपशिखोद्भूतं कज्जलं तद्धटोदरे ।
आलग्नं सम्यगादाय मृद्घटादौ विलेपयेत् ॥
मर्दयेत् स्वस्य हस्तेन भूयोद्वर्त्य पुनस्तथा ।
शुद्धाम्बुमिश्रं संमर्घ बहुशः शोषयेत्पुनः ॥
एतत्तत्रयं पुनर्युक्त्या निम्बनिर्यासवारिणा ।
संम्मर्द्य शोषयेत् पश्चादथान्यानपि पेषयेत् ॥
श्यामधातून् यवमात्रं शुद्धतोयेन पेषयेत् ।
पुनः कपित्थनिर्यासतोयैःसंमर्द्य शोषयेत् ॥

v2.c84.64

तिस्रश्च वर्तनाः प्रोक्ताः पत्राद्वैरिकबिन्दुजाः ।
पत्राकृतिभी रेखाभिः कथितात्र च वर्तना ।
अतीव कथिता सूक्ष्मा तथाद्वैरिकवर्तना ।
तथा च स्तम्भनायुक्ता कथिता बिन्दुवर्तना ॥

v2.c84.65

अतः परं प्रवक्ष्यामि चित्रादिपट्टसाधनम् ।
शाकवृक्षोद्भवाकार्या चित्राभ्यासार्थपट्टिका ॥
अत्यग्निमालिता या च इष्टिका आयसाकृतिः ।
रन्ध्रकीर्णकुलाया च गृहीतव्या लूर्णीकृता ॥
अतिसूक्ष्मा च कर्तव्या दीपशिखाकज्जलोपमा ।
गोधूमैः खलचूर्णं तु तक्रमध्ये तु प्रक्षिपेत् ।
तदनन्तरोद्भवं च सूक्ष्मवस्त्रेषु गालयेत् ।
भाण्डे तु तादृशं क्षिप्तं मृद्वग्निना शनैः शनैः ॥
तथा दृढ़रसाकारं वज्रलेपसमं भवेत् ।
तेनाथ मर्दयेत्पट्टमिष्टिकासूक्ष्मचूर्णतः ॥
पक्षद्वये सुप्रलेपो ह्यन्तर्येन प्ररोहते ।
पट्टबन्धनमेवं तु कर्त्तव्यं चित्रहेतवे ॥
टि० पत्रवर्तनानिर्णयः लुप्तः ।

v2.c84.66

चित्ररूपसमुद्भावाः सुरासुरनरोरगाः ।
त्वयैव कथितं पूर्वमुत्पत्तिप्रलयादिकम् ॥
पत्रोत्पत्तिः कथं देव चित्रमूलसमुद्भवा ।
कथयस्व प्रसादेन पत्रं चित्रं च कीदृशम् ॥
दिनपत्रं कथं प्रोक्तमृतुपत्रं च कीदृशम् ॥
चन्द्रकलोद्भवं पत्रं षोडशात्मकमेव च ॥
जलपत्रं स्थलपत्रं नरपत्रं गजोद्भवम् ।
मेघपत्रोद्भवं चैव कथयस्व परेश्वर ॥
नागरं द्राविडं पत्रं व्यन्तरं वेसरं तथा ।
कालिङ्गं यामुनं पत्रं कीदृक् चैतत् सुलक्षणम् ॥
शिशुपत्रं च सकलं स्वस्तिकं वर्धमानकम् ।

v2.c84.67

सर्वतोभद्रकाकारं कथयस्व परेश्वर ॥
पञ्चपत्राणि चान्यच्च षोडशात्मकमेव च ।
तत्तद्रूपोद्भवं चैव लक्षकोट्यादिसंख्यकम् ॥
पत्रस्थानानि वै सार्धं सुरसन्त्यादिकोद्भवम् ।
कथयस्व प्रसादेन पत्रस्थानादिसाधनम् ॥
शृणु वत्स महाभाग त्वमेवं प्रकटीकृतम् ।
पत्रोत्पत्तिं च वक्ष्येऽहं शृणु चैकाग्रमानसः ॥
क्षीरोदार्णवके पूर्वं मथ्यमाने सुरासुरैः ।
तत्रोत्पन्नो महावृक्षो नाम्ना सुरतरुस्तदा ॥
नानापत्रसमाकीर्णो नानापुष्पसमाकुलः ।
नानाफलकसम्पृक्तो ललिताङ्गो मनोहरः ॥
सुगन्धामोदबहुलः सुगन्ध्रागन्धितोत्पलः ।
तद्गन्धमोहिताः सर्वे देवदैत्यादिकास्तदा ॥
परस्परं देवदैत्या वृक्षार्थे लुब्धचेतसः ।
अमृतोद्भवं मन्यन्ते दैत्याश्च त्रिदशा अपि ॥
शाखापत्रोद्भवश्चतुर्दिक्षु मध्यत ऊर्ध्वतः ।
मानतः पत्रसंकीर्णो दिशाभेदैः परात्परम् ॥
नागरं पूर्वशाखायां द्राविडं दक्षिणोद्भवम् ।
अपरे व्यन्तरं चैव वेशरं वा तथोत्तरे ॥
कालिङ्गमूर्ध्वतश्चैव शाखान्तर्जं च यामुनम् ।
षड्जात्युत्पत्तिभेदैश्च पत्रमेवं समुद्गतस् ॥
नन्दादिक्रमयोगेन तथा चन्द्रकलाक्रमः ।
दिनपत्रोद्भवस्त्वेवं सङ्ख्यातो दशपञ्चभिः ॥
नन्दा भद्रा जया रिक्ता पूर्णा स्यात् पञ्चमी तथा ।
पञ्च पञ्च तथा पञ्च मासार्धं तु यथा यथा ॥
नन्दायाः शिशुपत्रं च भद्रायाः सकलं तथा ।
स्वस्तिकं तु जयायाश्च रिक्ताया वर्धमानकम् ॥
पूर्णायाः सर्वतोभद्रं पञ्चमं परिकीर्तितम् ।
षष्ठिकादि दशम्यन्तमन्यपञ्चसमुद्भवः ॥
जयं च विजयं चैव उद्गतं पत्रमक्षयम् ।
सर्वमङ्गलं भवाख्यं पञ्चान्ये च प्रकीर्तिताः ॥
षष्ठद्याद्यं च दशम्यन्तं पत्राणां पञ्चकं तथा ।
पुनरन्यानि पञ्चैकादशाद्यं पूर्णान्तं तथा ॥
श्रियं श्रियोद्भवश्चैव रत्नगर्भं तेजोभवम् ।
सर्वानन्दं महोत्साहं पत्राणां दशपञ्चकम् ॥
वसन्ते नागरं पत्रं द्राविडं ग्रीष्मके तथा ।

v2.c84.68

वर्षासु व्यन्तरंभवं वेसर च शरदतौ ॥
हेमन्ते चैव कालिङ्गं यामुनं शिशिरोद्गतम् ।
षड्ऋतूद्भवपत्राणि सर्वाणि शुभदानि च ।
तथा शाखोद्भवं पत्रमुक्तं दशविधं क्रमात् ॥
शाखोद्भवानि षट्‌चैव कन्दजानि तु षोडश ॥
तथा चाकारपत्राणि लक्षकोट्यादिकानि च ।
पुनरन्यानि वक्ष्येऽहं प्रकारैः पञ्च तानि च ॥
हंसपत्रं नक्रपत्रं मत्स्यपत्रं च कूर्मकम् ।
पद्मनपत्रं तथा चैव पञ्चकं जलजं भवेत् ॥
स्थलजं छन्दजाकारं प्रासादगृहकादिकम् ।
नरनार्यादिकं पत्रं नरपत्रं च पञ्चमम् ॥
गजपत्रमश्वपत्रं जानुगं पद्मजं तथा ।
सिंहासनादिपत्रं च गजपत्रं तु पञ्चकम् ॥
अनेकाकारपत्रं च मेघपत्रं तथैव च ।
पत्राकारास्तथा चैते कथितास्त्वपराजित ॥
पुनः स्थानेषु सर्वेषु तत्र पत्राणि योजयेत् ।
स्तम्भेषु द्वारपक्षेषु प्रासादेषु च सर्वतः ॥
षोडशाभरणैश्चैव तत्र पत्रं तु दापयेत् ।
हारकेयूरकङ्कणकटिसूत्रादिभिः समैः ॥
यत्र स्थाने भवेत्पत्रं लक्ष्मीस्तत्र हितेक्षणा ।
नाऽपत्रतो भवेल्लक्ष्मीः शुभस्थानं च पत्रतः ॥

v2.c84.69

अथातः संप्रवक्ष्यामि कण्टकानं तु लक्षणम् ।
अष्टौ जातिक्रमच्छन्दात् कण्टका अभिधानतः ॥
कलिश्च कलिकश्चैव व्यामिश्रश्चित्रकौशलः ।
व्यावर्तंश्चैव व्यावृतः सुभङ्गो भङ्गचित्रकः ॥
अगस्तिपुष्पकाकारः संभवेत् कलिकण्टकः ।
वराहदंष्ट्राकृतिकः कलिकश्चेति संज्ञितः ॥
बद्धपुष्पोद्भवश्चैव व्यामिश्रो मध्यकेशरः ।
उकाराकारसदृशः स भवेच्चित्रकौशलः ॥
व्यावृतो व्याघ्रनखवद् व्यावृतः कलशाकृतिः ।
भङ्गचित्रोबदरवत् सुभङ्गः कृतिकाकृतिः ॥
नागरो व्याघ्रनखवद् द्राविडस्तदनन्तरम् ।
बदरीकेतकीनां च द्राविडः कण्टकैः समः ॥
व्यन्तरो वराहदंष्ट्रो वेसरो मुनिपुष्पवत् ।
उकाराकारः कालिङ्गो यामुनः पुष्पगर्भकः ॥
उक्ता अष्टविधाकारा षड्जातीयाश्च कण्टकाः ।

v2.c84.70

कण्टकानां तथाकाराः कथिताः पूर्वमेव च ॥

v2.c84.71

वेदाक्षरं पदं कृत्वा कण्टकावर्तनोगतम् । ब्रह्मस्थाने भवेद् बिन्दुर्मावर्तेन वर्तितः ॥ तद्ध्र्तिताग्रसंस्थाने बिन्दुः स्यादक्षरोद्भवः । तदूर्ध्वं भ्रमगर्भं च वृत्तमर्धं चन्द्राकृति ॥ ब्रह्मस्थानोर्ध्वगतं च दक्षिणोद्गवाकारकम् । कलिकोद्गवाक्षं वाराहकर्णसम्भवम् ॥ तस्योर्ध्वंऽपरोद्गम्यं त तदान्यताग्रं कंटकोपमम् । अग्रस्याग्रपदवर्णेपु पपरानतः कर्णिकाकृतिः ॥ तस्या यावत्याग्रेन मवधी पदपादो …… …। पृथुग्रीवा त्रिपादे ……पादोदर कण्टका ……? . . . . . ।

v2.c84.72

…त्र स्थानात्समुद्गव्य श्रे निम्नाग्र धान्यांतकम् ?

v2.c84.73

चक्रग्रीवोद्गतां कारिकं कलिकोद्भवं वाराहकर्णिकोद्गतम् । अग्नाधारः पुनः पृष्ठे कलिका मुनिपुष्पवत् ॥ कण्टकोदरमध्ये तु कलिका जीवसूत्रकम् । तदास्पहम् …… … … … … … … … … ॥ रोमऽस्थिमांसत्वचाश्च एवं क्षितिगुणोद्भवाः । … … … … …चक्ष्ये जीवसूत्रेण कथ्यते ॥ रेखास्थिवर्णमांसानि चतुश्छायाः प्रकीर्तिताः । पादाद्यङ्गानि सर्वाणि नाडीरोसं च विदुर्वर्तया ॥ मज्जा च क्षितिराख्याता राजेन्द्रन्यदय बीजकम्? … … … … … … …अद्भूयो रससमुद्भवः ॥ … … … … … … …तेजो द्रव्यस्य बीजकम् । … … … … … … …वायुश्च वर्तनाकृतिः ॥ आकाशं …… … … …पञ्चतत्वोद्भवं तथा । जीवसूत्रमिदं ज्ञेयं पत्राकारं प्रकथ्यते ॥ घनघण्टाकुलाकीर्णमग्रे चलितकुञ्चितकम् । अङ्गे भङ्गोद्भवं भङ्गमनेकाकाररूपकम् ॥ शुकचञ्चुसमाकारं बदरीकण्टकाकृति । पलालधूमसंकाशं द्राविडं पत्रमुच्यते ॥ क्वचिद् भिन्नं क्वचिच्छिन्नं क्वचिदन्योन्यवेष्टितम् । मुनिपुष्पसमाकीर्णं वेशरं पत्रमुच्यते ॥ उच्यते व्यन्तरं पत्रमूर्ध्वं भङ्गोद्गवाकृति । उकारकण्टकाकीर्णं कालिङ्गं पत्रमुच्यते ॥ सुदीर्घं विरलभङ्गै रग्रे व्यावृतकैस्तथा ।

v2.c84.74

पुष्पगर्भोद्गवाकीर्णं यामुनं पत्रमुच्यते ॥
ललितं कोमलं भङ्गीविषमे गर्भसम्भवम् ।
सुकुमारगर्भोद्भवं व्यावर्तस्याकुलोद्भवम् ॥
तरलं नागरं चैव बलितं व्यन्तरं तथा।
आकुञ्चितं वेसरं च ऊर्ध्वं कालिङ्गकं भवेत् ॥
पुनिस्त्रिपञ्चसप्ताचं याव . . . . . वधि ।
अतिवक्रकुलाकीर्णं द्राविडं कण्टकोद्भवम् ।।
उदितं यामुनं वक्रैः कण्टकानां तु निर्णयः ।
देशजातिकुलस्थानं वर्णभेदास्तथापरः ।
पत्राकारो वर्णभेदो जीवसूत्रादि चोदितम्

v2.c84.75

मूलरङ्गाः स्मृताः पञ्च श्वेतः पीतो विलोमतः ।
कृष्णो नीलश्च राजेन्द्र शतशोऽन्तरतः स्मृताः ॥
पूर्णरङ्गविभागेन भावकल्पनया तथा ।
स्वबुद्ध्या कारयेद्रङ्गाञ्शतशोऽथ सहस्रशः ॥
नीलेष्वतिव्यतिकृतिः पालाश इति शस्यते ।
स शुद्धः श्वेतमिश्रश्च नीलाभ्यधिक एव च ॥
एकाधिकं च भवतिच्छवीनामनुरूपतः ।
श्वेताधिको वा न्यूनो वा समांशश्चेति स त्रिधा ॥
स एकस्तम्भनायुक्तो बहुधैवं विकल्पते ।
तेन दूर्वाङ्कुरा पीतः कपित्थहरितः शुभाः ॥
मुद्गश्यामप्रकृतयः कर्तव्याश्छवयो नृप ।
नीलः पाण्डुरसम्पृक्तो विरङ्गः सोऽप्यनेकधा ॥
अन्योन्याभ्यधिकं न्यूनं समांशवशकल्पना ।
तेन नीलोत्पलनिभा माषसच्छायसुप्रभा ॥
क्रियतेच्छवयो रम्या यथायोगविनिश्चयात् ।
लाक्षया श्वेतया युक्ता लाक्षारोध्रपिनद्धया ॥
रक्ता रक्तोत्पलश्यामाच्छविर्भवति शोभना ।
सापि नानाविधानन्यान्वर्णान्विकुरुते बहून ,

First 75 of 102 passages. Read on

Linked texts (3)