Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c84.37

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c84.37

Language
English

v2.c84.37

अङ्गुलन्तच्चतुर्भागं पादोच्छ्रायः प्रकीर्तितः ।
द्वौ च तालौ तथा जङ्घे पादतुल्ये च जानुनी ॥
जङ्घातुल्यौ तथा चोरू नाभिस्तालं तु मेढ्रतः ।
तावच्च नाभिहृदयं हृद्यात्कण्ठ एव च ॥
कण्ठस्तालत्रिभागः स्यात्तालं च वदनं भवेत् ।
तालषड्भागमप्युक्तं ललाटोपरि मस्तकम् ॥
मध्ये मेढ्रं तु विज्ञेयमिति दैर्घ्यं प्रकीर्तितम् ।
तालः प्रोक्तः करो राजन्बाहू सप्तदशाङ्गुलौ ॥
प्रबाहू तावदेवोक्तौ वक्षसोधमथाष्टकम् ।
एतदायामतः प्रोक्तं मानं हंसस्य पार्थिव ॥
अनेनैवानुसारेण शेषाणामपि कल्पयेत् ।
आयामपरिणाहाभ्यां समाः सर्वे नराधिप ॥
सामान्यतस्ते नृपवर्य मानं प्रोक्तं मया हंसनराधिपस्य ।
प्रत्यङ्गमानं च मयोच्यमानं समासतरत्वं शृणु राजसिंह ॥