Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c84.49
Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c84.49
- Language
- English
v2.c84.49
नतं गण्डपरावृत्तं पृष्ठोपागतमथापि च ॥
पार्श्वार्गतं च विज्ञेयमुल्लेपं चलितं तथा ।
उत्तानं वलितं चेति स्थानानि तु त्रयोदश ॥
कार्याण्येतानि सर्वाणि नामसंस्थानतो नृप ।
मण्डलानीह वैशाखप्रत्यालीढक्रियाक्रमैः ॥
समाश्चार्द्धसमाः पादाः सुस्थितानि चलानि च ।
समासम्पदस्थं च द्विविधं स्थानकं भवेत् ॥
तद्गत्वा पदभूयिष्ठं स्थानं सम्पदं स्मृतम् ।
मण्डलञ्च द्वितीयं स्यात्स्थानान्यन्यानि यानि च ॥
तान्येकसमपादानि विचित्राणि चलानि च ।
तत्र वैशाखमालीढं प्रत्यालीढं च धन्विनाम् ॥
चित्रगोमूत्रकगतं विषमं खड्गचर्मिणाम् ।
चलितं स्खलितायस्तमालीढंकपदक्रमम् ॥
शक्तितोमरपाषाणभिन्दिपालादिधारिणाम् ।
सवल्गितं चक्रशूलगदाकुणपधारिणाम् ॥
एकपादसमस्थानं द्वितीयेन तु विद्गलम् ।
शरीरं च सलीलं स्यात्सावष्टंभैः क्वचिद्द्रुतम् ॥
लीलाविलासविभ्रान्तं विशालजघनस्थलम् ।
स्थिरैकपादविन्यासं स्त्रीरूपं विलिखेद्बुधः ॥
प्रमाणहीनस्तु जनोऽनुभूयात्कालस्य भावस्यवलात्पृथिव्याम् ।
इति प्रचिन्त्यात्मधिया बुधेन कार्यं प्रमाणक्षयवृद्धियोगे ॥