Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c84.62
Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c84.62
- Language
- English
v2.c84.62
यत्र लेखा गता वामं तत्र तान् न्ववाससा ।
संमार्ज्य सम्यगालिख्य तत्तदाकारमुन्नयेत् ॥
मन्दं किञ्चच्छिलापृष्ठे पेषयित्वा विलोड्य च ।
शुद्धतोयैर्महापात्रे मुहूर्त्तं प्रतिपालयेत् ॥
तदूर्ध्वांशं सारतोयमधः पङ्कविवर्जितम् ।
पात्रान्तरे विनिक्षिप्य पुनः कुर्यादिमं विधिम् ॥
एवं पुनः पुनः कृत्वा यावन्निर्मलता भवेत् ।
तत्सारं नवमृद्भाण्डे मन्दमालिप्य शोषयेत् ॥
ग्रीष्मातपेषु विधिवद् भूयो भूयो महामतिः ।
आलोड्य शुद्धतोयेषु शोषयेच्छिद्रमच्छिद्रकः (?)॥
एवमेव समानीय रक्ते धातूनपि क्रमात् ।
निर्मलत्वे समुत्पन्ने शोषयेदेवमेव हि ॥
अथ तैलं समासिच्य वर्धमानेऽच्छवर्तिकाम् ।
विन्यस्य प्रज्वलेद् दीपं घटमादाय मृन्मयम् ॥
शुष्कगोमयचूर्णेन संमृज्योदरमस्य वै।