Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c84.65
Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c84.65
- Language
- English
v2.c84.65
अतः परं प्रवक्ष्यामि चित्रादिपट्टसाधनम् ।
शाकवृक्षोद्भवाकार्या चित्राभ्यासार्थपट्टिका ॥
अत्यग्निमालिता या च इष्टिका आयसाकृतिः ।
रन्ध्रकीर्णकुलाया च गृहीतव्या लूर्णीकृता ॥
अतिसूक्ष्मा च कर्तव्या दीपशिखाकज्जलोपमा ।
गोधूमैः खलचूर्णं तु तक्रमध्ये तु प्रक्षिपेत् ।
तदनन्तरोद्भवं च सूक्ष्मवस्त्रेषु गालयेत् ।
भाण्डे तु तादृशं क्षिप्तं मृद्वग्निना शनैः शनैः ॥
तथा दृढ़रसाकारं वज्रलेपसमं भवेत् ।
तेनाथ मर्दयेत्पट्टमिष्टिकासूक्ष्मचूर्णतः ॥
पक्षद्वये सुप्रलेपो ह्यन्तर्येन प्ररोहते ।
पट्टबन्धनमेवं तु कर्त्तव्यं चित्रहेतवे ॥
टि० पत्रवर्तनानिर्णयः लुप्तः ।