Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c84.75

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c84.75

Language
English

v2.c84.75

मूलरङ्गाः स्मृताः पञ्च श्वेतः पीतो विलोमतः ।
कृष्णो नीलश्च राजेन्द्र शतशोऽन्तरतः स्मृताः ॥
पूर्णरङ्गविभागेन भावकल्पनया तथा ।
स्वबुद्ध्या कारयेद्रङ्गाञ्शतशोऽथ सहस्रशः ॥
नीलेष्वतिव्यतिकृतिः पालाश इति शस्यते ।
स शुद्धः श्वेतमिश्रश्च नीलाभ्यधिक एव च ॥
एकाधिकं च भवतिच्छवीनामनुरूपतः ।
श्वेताधिको वा न्यूनो वा समांशश्चेति स त्रिधा ॥
स एकस्तम्भनायुक्तो बहुधैवं विकल्पते ।
तेन दूर्वाङ्कुरा पीतः कपित्थहरितः शुभाः ॥
मुद्गश्यामप्रकृतयः कर्तव्याश्छवयो नृप ।
नीलः पाण्डुरसम्पृक्तो विरङ्गः सोऽप्यनेकधा ॥
अन्योन्याभ्यधिकं न्यूनं समांशवशकल्पना ।
तेन नीलोत्पलनिभा माषसच्छायसुप्रभा ॥
क्रियतेच्छवयो रम्या यथायोगविनिश्चयात् ।
लाक्षया श्वेतया युक्ता लाक्षारोध्रपिनद्धया ॥
रक्ता रक्तोत्पलश्यामाच्छविर्भवति शोभना ।
सापि नानाविधानन्यान्वर्णान्विकुरुते बहून ,