Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c84.89

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c84.89

Language
English

v2.c84.89

श्वेतं कृष्णं च पीतं च समभागविमिश्रितम् ।
शारूच्छवीति विख्यातं वर्णकारसुखप्रदम् ॥
श्वेतं कृष्णं समं मिश्रं गजवर्णमुदाहृतम् ।
रक्तं पीतं समं मिश्रं बकुलस्य फलाकृति ॥
ज्वलनाभमिदं ख्यातमग्निवर्णनिभं परम् ।
पीतस्य द्विगुणं रक्तं मिश्रितं त्वतिरक्तकम् ॥
श्वेतस्य द्विगुणं पीतं मिश्रं ख्यातं तु पिङ्गलम् ।
कृष्णस्य द्विगुणं पीतं मिश्रितं त्वम्बुसम्मितम् ॥
नृदेव नृणां वर्णः स्यात् कृष्णं पीतसमं तु वा ।
हरितालं श्यामयुतं शुकपक्षनिभं भवेत् ॥
लाक्षारसेन संयुक्तं हिङ्गुलं त्वतिरक्तकम् ।
लाक्षारसेन संमिश्रं कृष्णं जम्बुफलाकृति ॥
लाक्षारसं जातिलिङ्गं सितवर्णं यथा समम् ।
सम्मिश्रमुत्तमं वर्णं हिङ्गुलेनात्र वा युतम् ॥
कृष्णं नीलेन संमिश्रं केशवर्णमुदाहृतम् ।
एवं मिश्रकवर्णानि युक्त्या संयोज्य संलिखेत् ॥
सुधाधवलिते भित्तौ नैव कुर्यादिदं सुधीः ।