Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c84.99

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c84.99

Language
English

v2.c84.99

शुक्लाम्बरधरां देवीं शुक्लमाल्यविभूषिताम् ।
नमस्कृत्येष्टदेवीं तां तृतीयां बहु मन्महे ॥
महाकालीं महालक्ष्मीं तृतीयां तां सुमन्महे ।
तस्या एव प्रसादाद्वै कर्तुं किमपि पारये ॥
प्रज्ञापोतं विनैवाहं वास्तु-सागर-सुत्तरम् ।
कर्तुं वै यथाशक्तः तदपि तद्बहुमन्महे ॥
अथवा गुरुप्रसादै सर्वमेतत्कौशलम् ।
त्वदीयं वस्तु गोविन्द तुभ्यमेव समर्पये ॥
अथवा पूर्वजानां वै शुक्लोपाह्वसुतेजसाम् ।
प्रसादाद्वै महादेव-निरञ्जन-रुद्रधरस्य च ॥
कर्तुं किमपि पारोऽहं विज्ञानं वास्तु-शास्त्रकम् ।
प्रतिमालक्षणमेतद्वै नवीनं किमपि अस्ति वै ॥
तच्चैतत्समापितां नीतमाषाढस्य सितपक्षके ।
चतुर्दशाधिकसहस्रद्वयविक्रमेऽस्मिन् सुप्रवर्षके ॥
सर्वे पठन्ति साहित्यं दर्शनं धर्म-शास्त्रकम् ।
साम्प्रतं तु पठिष्यन्ति कला-विज्ञान-पारगम् ॥
वास्तु-शास्त्र-प्रबन्धेऽस्मिन् पुस्तकानि चतुर्दश ।
तेष्विदं पञ्चमं प्रोक्तं शेषमग्रे प्रवक्ष्यते ॥
शुभं भूयाच्छुभं भूयाच्छुभं भूयात्सनातनम् ।
शुभं शास्त्रं शुभं ज्ञानं शुभं विज्ञानवैभवम् ॥
शुभो मेऽस्तु वै भगवन् प्रयासोऽस्मिन् वास्तुशास्त्रके ।
तदधिकृत्य जीवनं सर्वं व्यतीतं वै भविष्यति ॥