Early History of the Dekkan down to the Mahomedan Conquest c25.s1.4
Early History of the Dekkan down to the Mahomedan Conquest c25.s1.4
- Language
- English
c25.s1.4
अस्ति प्रशस्तं पुरुषोत्तमस्य शय्यागृहं क्षीरमय पयोधिः ।
यदीयपीयूषरसायनेन स्वर्लोकभानामजरामरत्वम् ॥ २ ॥
संतानचिन्तामणिकामधेनुकल्पद्रु मस्रौतममेकहेतोः ।
सिन्धोरसुम्भादुदभूदमन्दमिन्दानमामृतविन्दुरिन्दुः ॥ ३ ॥१
ततस्तनुजं विश्रुतप्रधानं२ बुधं सुधादीधितिरप्यसूत ।
बभूव तस्मादय चक्रवर्ती पुरुरवा पुण्यपथा३नुवर्ती ॥ ४ ॥
अभजत नमिमन्नादायरायुः प्रजानां४
नहुषपदमिश्रानं ज्योतिरासौत्ततोपि ।
नृपतिरथ ययाति ख्यातिमानप्यमुष्या
दयमपि यदुमूर्तिं५ कीर्तिमाविश्चकार ॥ ५ ॥
यदीरदोषविशदैर्यशोभिरभिशोभित
मन्ववायः स एवायमवाप यदुवंशताम् ॥ ६ ॥
तत क्रोष्टा तस्मादजनि हरिनौवानपि नृप-
स्ततो जज्ञे राज्ञः क्षितिपत्तिरिह स्वाह्वित६ इति ।
नृभ्रंश्रुस्तत्पुत्र समभवदयो विच्यरथ इ-
त्यतो जातः ख्यात स किल शशविन्दुर्नरपतिः ॥ ७ ॥
ततः पृथुश्रवा वौरस्तदनन्तरमन्तरः ।
तत सुयज्ञ उशना सितेयुरिति च क्रमात् ॥ ८ ॥
सूनुस्तस्य मरुत्त इत्यनुपम प्रौद्दामदोर्विक्रम-
स्सञ्चारक्रमलङ्घितोञ्जयशय७ प्रक्षालितक्षातरु ।
एतस्मादुदियाय रुक्मकवचस्तस्मात्पराजिन्नृप-
स्तस्माद्दूरिसुर८गमेधसुकृती राजाजनि ज्यामघः ॥ ९ ॥
ततो विदर्भ क्रथकुन्तिवृष्णिन्हिसिसंज्ञाः परतो दशार्हः ।
व्योमा९ च जीमूत इति क्रमेण जाता नरेन्द्र विहृतिश्च वीरः ॥ १० ॥
सदतु भौमरथ पृथिवीपतिर्नवरथश्च ततो रथिनां वरः ।
दशरथ शकुनिश्च करंभिरित्युपदिशन्ति पुराणपरायणाः ॥ ११ ॥