Pramāṇa · Search · About · API

Social and Political Life in the Vijayanagara Empire (A.D. 1346 – A.D. 1646) v1.c9.s5.63

Social and Political Life in the Vijayanagara Empire (A.D. 1346 – A.D. 1646) v1.c9.s5.63

Language
English

v1.c9.s5.63

सुरलोकान्तसंक्रान्तस्वर्णदोमत्सरादिव ।
परिखाकारतां यान्या परीता तुङ्गभद्रया ॥
लक्ष्मोल्तालवालने क्षमावधूनामिशोभिना ।
चक्राचलप्रकारेण प्राकारेण परिष्कृता ॥
स्फुरन्मणि प्रभाहूत पुरुहूत शरासनैः ।
सुमेरुशृङ्गकाशैः गोपुरैः उपशोभिता ॥
उत्फुल्लचम्पकाशोकनागकेसरकेसरैः ।
बसन्तवासभवनैः आरामैः अमितो वृता ॥
कस्तूरीहरिणाक्रान्तकर्पूरकदलीतलैः ।
मनोभवमहादुर्गैः महिता केलिपर्वतैः ॥
कमलामोदमधुरैः कलहसकुलाकुलैः ।
क्रीडासरोभिः सहिता मणिसोपानमङ्गलैः ॥
यशस्तोमरिवाशेषनगरोविजयार्जितैः ।
सौधैः प्रकाशितोत्सेधा शरदम्भोदपाण्डरैः ॥
विकसदनितावल्लीविलासवनवाटिका ।
दक्षिणाशासरोक्षाक्षीफाललीलाललाटिका ॥
द्विजराजसमुल्लासनियराकानिशोधिनी ।
गन्धर्वगणसान्निध्यनव्यदिव्यवरूथिनी ॥
भुजङ्गसङ्घसंवासभूतेशमुकुटस्थली ।
सुमनस्तोम संचारसुवर्णगिरिमेखला ॥
लीलेव दिष्टवृद्धानां शालेव सकलश्रियाम् ।
मालेव सर्व रत्नानां वेलेव सुकृताम्बुधेः ॥
यस्यां प्रासादशृङ्गेषु लग्नं मार्तण्डमण्डलम् ।
संधत्ते वोक्षमाणानां सौवर्ण कलशभ्रमम् ॥