Social and Political Life in the Vijayanagara Empire (A.D. 1346 – A.D. 1646) v1.c9.s5.64
Social and Political Life in the Vijayanagara Empire (A.D. 1346 – A.D. 1646) v1.c9.s5.64
- Language
- English
v1.c9.s5.64
यस्योधचन्द्रशालासु विहरन्यो मृगेक्षणाः ।
शशाङ्कमवलम्बन्ते मुक्ताकन्दुकशङ्कया ॥
यत्र सौधेषु सङ्गीतमृदङ्गप्रतिनादिषु ।
अकाण्डे ताण्डवारम्भं वितन्वन्ति शिखण्डिनः ॥
पद्मरागोपलोत्कीर्णप्रासादप्रान्तवर्तिनः ।
सततं यत्र दृश्यन्ते सान्ध्या इव बलाहकाः ॥
सन्ध्यासु यत्र निर्यान्ति जालेभ्यो धूपराजयः ।
अन्तः प्रदोपिकालोकचकितध्वान्तसन्निभाः ॥
यदीर्घिकासु माणिक्यनयसोपानचारिभिः ।
क्षदास्वपि चक्राह्वैः विरहो नानुभूयते ॥
यदङ्गनामुखाम्भोजलावण्यालाभलज्जितः ।
कलङ्कच्छलना चन्द्रो व्यनक्ति हृदयव्यथाम् ॥
यत्र स्त्रीणां कटाक्षेषु यूनां हृदयहारिषु ।
पुष्पास्त्रसंचये वाञ्छां मुञ्चते पञ्चसायकः ॥
मरालैः मञ्जुमञ्जीरशिञ्जिताकृष्टमानसैः ।
लोलागतिमिब प्राप्तुं सेव्यन्ते यत्र योषितः ॥
यत्रावलग्न सादृश्यवाञ्छाविमतमम्बरम् ।
प्रायः पयोधरोत्सेधैः निरुन्धन्ति पुरन्ध्रयः ॥
यत्र वामभुवामेव काटिन्यं स्तनमण्डले ।
कोटिल्यं कबरीभारे कार्श्यं मध्ये च दृश्यते ॥