Social and Political Life in the Vijayanagara Empire (A.D. 1346 – A.D. 1646) v2.c21.s2.t2.18
Social and Political Life in the Vijayanagara Empire (A.D. 1346 – A.D. 1646) v2.c21.s2.t2.18
- Language
- English
v2.c21.s2.t2.18
समश्चितं कञ्चुकिनां जयारवैः सहाप्तराजन्यजनेन केनचित् ।
अलंकृतं साङ्ग इवाङ्गज्ञः शनैरसावयासीत् अभिषेक मण्डपम् ॥
अनादि नान्दीभिः अनर्दि मदलैः अराणि वीणाभिः अभाणि वेणुभिः ।
अरेभि भेरीभिः अगर्जि जर्झरैः अगारि शृङ्गैः समकालि काहलैः ॥
अपाङ्कितप्रेङ्खदभीशुवीचिकाकृतावलम्बैरिव गन्धवारिभिः ।
करान्जसौवर्णघटापवर्जितैः तम् अभ्यषिञ्चत् तरलेक्षणाजनः ॥
कृताभिषेकः तुलुवक्षितिक्षितीं कुलामणीः कुङ्कुमवारिधारया ।
करीव सिक्को गिरिधातुनिर्झरैः शशी इव सायन्तनसन्ध्यया अरुचत् ॥
अलोकिक लोकैः हरिचन्दनोदकं विजृम्भितं मण्डपवेदिकाङ्गणे ।
निरीक्ष्य कान्तं नृपम् आशयात् अमन् भुवोऽनुरागो बहिरुधतो यथा ॥
अधारयत् पाण्डरम् अम्बरं क्षितेः अधीश्वरः स्नानविधेः अनन्तरम् ।
समाप्तवर्षझपनो यथा गिरिः शरन्मुखे छन्नितम्बम् अम्बुदम् ॥
समाप्य सर्वां समनन्तरक्रियां नृपासनस्थो नृपतिः निरैक्षयत ।
सुमेरुसङ्गी इव सुरेन्द्रपादपः श्रियः सखेव श्रितभानुमण्डलः ॥
प्रचालितोऽग्रे परिचारिकाजनैः नृपस्य नीराजनदीपिकोत्करः ।
दिगन्तरभ्रान्तिमिवात् नटिष्यतो दधौ प्रतापस्य स पूर्व रङ्गताम् ॥
अरालकेशीभिः अनाटि मेदिनीस्वयं वरप्रेयसि शोभिते श्रिया ।
बलाहके दर्शितवार्षिकोदये न किं शिखिन्यो नटनं विवृतते ॥
विनीतसामन्तविधूतचामरद्वयान्वितोऽलक्ष्यत धूर्वहः क्षितेः ।
तुषारशैले दृपदाहतिद्विधापनीपतत् नाकधुनीपया इव ॥
अनुक्रमो रक्षति तत्कुलक्षमापतीन् इतीव अनुजिघृक्षया गतौ ।
तमीशसूर्यौ इव धारिते किमपि अराजताम् आतपवारणे विभोः ॥