Social and Political Life in the Vijayanagara Empire (A.D. 1346 – A.D. 1646) v2.c21.s2.t2.19
Social and Political Life in the Vijayanagara Empire (A.D. 1346 – A.D. 1646) v2.c21.s2.t2.19
- Language
- English
v2.c21.s2.t2.19
कलिङ्गभूमेः कमिता कलाचिकां मणीनिबद्धां मगधोऽस्य पादुकाम् ।
शकाधिपः चामरमञ्जरीम् अधात् स्वयं कृपाणीमपि सिंहलेश्वरः ॥
क्षमाभुजः काञ्चनपुष्पम् अग्रतः प्रकीर्य भक्त्या प्रतिपादितोपदाः ।
व्यनंसिषुर्वंशमणिं विधोस्त्वराविघट्टितान्योन्यकिरीटकोटयः ॥
महत्तरे मानवलोकशासितुः मनोऽनुकूला महिषीपदे तदा ।
कृताभिषेका सलगक्षितिशितुः वरात्मजा आसीत् वरदाम्बिकावधूः ॥
चकार यत् मेरुम् अनादिमः पुमान् सुवर्णरूपं सुरसंसदां वशे ।
सुवर्णमेरुं स्वयम् अस्य सेवको महीसुरेभ्योऽदित मानवेश्वरः ॥
अनेन राजा चिनवेङ्कटादिरपि अयोजि लक्ष्मीं युवराजपूर्विकां ।
क्षमापतौ राज्यरमा सयौवनक्रमा च कौमारम् असौ असूचयत् ॥¹