Early Chauhan Dynasties c44.14
Early Chauhān Dynasties c44.14
- Language
- English
c44.14
श्रुत्वा प्रत्ययिनी सदा ऋजुतया स्वालोकविस्रम्भिणी
दाक्षिण्यैकविधानकेवलमियं दृष्टिः समुत्कण्ठते ॥ १ ॥
लक्ष्मीं नन्दयता रतिं कलयता विश्वं वशीकुर्वता
त्र्यक्षं तोषयता मुनीन्मृदयता चित्ते सतां जाग्रता ।
संख्येऽसंख्यशरावलिं विकिरता रूपश्रियं पुष्णता
नैकट्यं मकरध्वजस्य विहितो येनेह दर्पव्ययः ॥ २ ॥
हंसैर्लब्धप्रशंसैस्तरलिकमलप्रत्तरङ्गैस्तरङ्गै -
र्नीरेरन्तर्गभीरैर्र्वकचटुलकुलग्रास [लीनै] श्च मीनैः।
पालीरूढद्रुमालितलशयितस्त्रीप्रणीतैश्च गीतै-
र्भाति प्रक्रीडदातिस्तव सचिव! चलच्चक्रवाकस्तटाकः ॥