Pramāṇa · Search · About · API

History of Mediaeval Hindu India (being a History of India from 600 to 1200 A.D.) v1.c24.11

History of Mediaeval Hindu India (being a History of India from 600 to 1200 A.D.) v1.c24.11

Language
English

v1.c24.11

चतुस्समुद्रातिक्रान्तकीर्तिः प्रतापानुरागोपनतन्नराजो वर्णाश्रमव्यवस्थापन- प्रवृत्तचक्रश्चक्रधर इव प्रजानामार्तिहरः श्रीमन्महाराजहरिवर्मा। तस्य पुत्रस्तत्पादानुध्यातो जयस्वामिनी-भट्टारिकाद्व्यामुत्पन्नः श्रीमहाराजादित्यवर्मा। तस्य पुत्रस्तत्पादानुध्यातो हर्षगुप्ताभट्टारिकादेव्यामुत्पन्नः श्रीमन्महाराज-ईश्वरवर्मा। तस्य पुत्रस्तत्पादानुध्यात उपगुप्ता- भट्टारिकादेव्यामुत्पन्नो महाराजाधिराज श्रीईशानवर्मा तस्य पुत्रस्तत्पादानुध्यातो लक्ष्मी- वतीभट्टारिकामहादेव्यामुत्पन्नः परममाहेश्वरो महाराजाधिराजश्री-शर्ववर्मा मौखरिः।