Pramāṇa · Search · About · API

History of Mediaeval Hindu India (being a History of India from 600 to 1200 A.D.) v1.c24.16

History of Mediaeval Hindu India (being a History of India from 600 to 1200 A.D.) v1.c24.16

Language
English

v1.c24.16

ॐ स्वस्ति कैलासकूटभवनान्निशि निशि चानेकशास्त्रार्थविमर्शविसादितसद्धर्शनतया धर्माधिकारस्थितिकारणमेवेत्थमतिशयं मन्यमानो भगवत्पशुपतिभट्टार-कपादानुगृहीतो वप्पदानुध्यातः श्रयंशवर्मा कुशली पश्चिमाधिकरणवृत्तिभुजो वर्तमानान् भविष्यतश्च यथार्हं कुशलमाभाष्य समाज्ञापयति विदितं भवतु भवतां पशुपतौ भगवच्छ्रीभोगेश्वरोऽस्मद्गागिन्या श्रीभोगमजनन्या भोगदेव्या स्वभर्तृ राजपुत्रशूर-सेनस्य पुण्योषचयाय प्रतिष्ठापितो यश्च तद्दुहित्राऽस्मद्गागिन्या भाग्यदेव्या प्रतिष्ठापितो लडितमहेश्वरो यश्चैतत्पूर्वजैः प्रतिष्ठापितो दक्षिणेश्वरस्तेषामधः शालापाञ्चालिकेभ्यः प्रतिपालनायातिसृष्टानामरुमाभिः पश्चिमाधिकरणस्याप्रवेशेन प्रसादः कृतो यदाच पाञ्चालिकानां यत्किञ्चन कार्यमेतदमुत्पद्यते यथाकालं वा नियामितं वस्तु परि-हापयिष्यन्ति तदा स्वयमेव राजभिरन्तरासनेन विचारः करणीयो यस्त्वेतामाज्ञामातिक्र-म्यायथा प्रवर्तिय्यते तं वयं न मर्षियष्यामो भावभिरपि भूपतिभिर्धर्मगुरुतया पूर्व-राजेरुतप्रसादानुवर्तिभिरेव भवितव्यमिति स्वयमाज्ञा दूतक्श्चात्र युवराजोदयदेवः संवत् ३९ वैशाख शुक्लदिवा दशम्याम् ॥