Pramāṇa · Search · About · API

History of Mediaeval Hindu India (being a History of India from 600 to 1200 A.D.) v3.c43.19

History of Mediaeval Hindu India (being a History of India from 600 to 1200 A.D.) v3.c43.19

Language
English

v3.c43.19

ओम् । स्वस्ति । जयत्याल्हादयन् विश्वं विश्वेश्वरशिरोधृतः । चन्द्रात्रेय नरेन्द्राणां वंशश्चन्द्र इवोज्वलः । तत्र प्रवर्तमाने विरोधिविजयभाजिष्णुजयशक्तिविजयशक्तिवीराविर्भाभास्वरे परम. म. प. पृथ्वीदेवपादानुध्यात ...मदनवर्म...पर०परममाहेश्वरकालंजरधिपति श्रीमत्परमर्दिदेवो विजयी ।।...विकौरविषये सट्टौडा द्वादशक तथा राष्ट्रसक्त टांद- द्वादशक...ग्रामाणामुपगतान ब्राह्मणानन्यांश्च मान्यानधिकृतान् कुटुम्बिकायस्थदूत-वैद्यमहत्तरान् मेदचण्डालपर्यन्तान् सर्वान् संबोधयति समाज्ञापयति अस्तु वः संविदितं यथोपलिखिताः ग्रामाः सजलस्थलाः सस्थावरजङ्‌गमाः स्वसीमावच्छिन्नाः साधूर्ध्वाः भूतभविष्यद्वर्तमाननिःशेषादायसहिताः प्रतिषिद्धचाटादिप्रवेशाः ... अजयसागरसंबद्धलटीआर्नां हलचतुष्टयावच्छिन्ना मदनपुरे भूमिः संवत् १२२३ वैशाखसुदि ७ गुरुवासरे... विधिवत्स्नात्वा देवमनुष्यपितॄन् संतर्प्य भास्करपूजापुरःसरचराचरगुरुं भगवन्तं भवानीपतिमभ्यर्च्य हुतभुजि हुत्वा कुशलतापूतेन हस्तोदकेन नानागोत्रेभ्यो नानाप्रवरभ्यो नानाशाखाध्यायिभ्यो नानानामभ्यो ब्राह्मणेभ्यो प्रदत्ताः...पराशरगोत्रजयशर्मपुत्रहरिशर्मा एषां पदमेकं...इति मत्वा भवद्भिः भागभोगादिकं सर्वमेभ्यः समुपनेतव्यम्। अमीषां समन्दिराकारान् सनिर्गमप्रवेशान्सर्वान्शनेष्कपिसणाध्मधूकादिभूरुहान सवनश्वभ्रनिधानान् सलोहायाकरान् सगोकुलान् अपरैरपि सीमान्तर्गतवस्तुभिः सहितान् सबाह्याभ्यन्तरदायान् भुंजानानां कर्षातां कर्षयतां दानाधानविक्रयं वा कुर्वतां न केनचित् काचिद्बाधा कर्तव्या स्वहस्तोयं राजश्रीपरमर्दिदेवस्य मतं मम ॥ लिखितं वास्तववंशेन पृथ्वीधरेण । उत्कीर्णं च पित्तलहारपाल्हणेन । मंगल महाश्रीः ॥