History of Mediaeval Hindu India (being a History of India from 600 to 1200 A.D.) v3.c43.21
History of Mediaeval Hindu India (being a History of India from 600 to 1200 A.D.) v3.c43.21
- Language
- English
v3.c43.21
ॐ स्वस्ति जयोऽभ्युदयश्च । जयति व्योमकेशोसौ यः सर्गाय बिभर्ति तम् । ऐन्दवं शिरसा लेखं जगद्वीजाङ्कुरारुतिम् ॥ तन्वन्तु वः स्मरारातेः कल्याणमनिशं जटाः । कल्पान्तसमयोड्डामतडिद्वलयपिङ्गलाः ॥ परमभ० महारा० परमे० श्रीमद्यशोवर्मदेवपादानुध्यात प. भ. म. प० श्रीमज्जयवर्मदेवराज्ये व्यतीते निजकरुकरवालप्रसादावाप्तनिजाधिपत्यसमस्तप्रशस्तोपेतसमधिगतपञ्चमहाशब्दालंकार विराजमान महाकुमार श्रीमल्लक्ष्मीवर्मदेवपादानुध्यात समस्तप्रशस्तोपेत समधिगतपञ्चमहाशब्दालंकार विराजमान महाकुमार श्री हरिश्चंद्रदेवसुत श्रीमत् उदयवर्मदेवो विजयोदयी ॥ विन्ध्यमण्डले नर्मदापुर प्रतिजागरणक वोढशिरासक्तअष्टचत्वारिंशन्मध्ये गुणोराग्रामनिवासिनः प्रतिग्रामनिवासिनश्च समस्तराजपुरुष वैश्यिक पट्टकिल जनपदादीन् ब्राह्मणोत्तरान्बोधयत्यस्तु वः संविदितं यथा ॥ अस्माभिः श्रीविक्रमकालातीत षट्पञ्चाशदधिकद्वादशशत संत्सरान्तः पाति अङ्के १२५६ वैशाख शुदि १५ पौर्णमास्यां तिथौ विशाखा नक्षत्रे परिधोगे रविदिने महावैशाख्यां पर्बणि गुवाडा घट्टे रेवायां स्नात्वा सिनपवित्रवाससी परिधाय देवऋषिमनुष्यान्संतर्प्य चराचरगुरुं भगवन्तं भवानीपतिं समभ्यर्च्य समिकुशतिलाभाणाभूतिभिः हिरण्यरेतसं हुत्वा भानवे अर्घ विधाय कपिलां त्रिः प्रदक्षिणीकृत्य उपस्पृश्य च संसारस्यासारतां दृष्ट्वा नलिनीदलगत जललवतरलतरं यौवनं धनं जीवितं चावेक्ष्य ... गर्गगोत्राय गर्गशैन्याङ्गिरस इति त्रिपवराय वाजसनेयशासिने अग्निहोत्री यज्ञधरसुत द्विवेदी पुरोधास माल्हुशर्मणे ब्राह्मणाय उपरलिखित गुणोराग्रामो निधिनिक्षेप