Pramāṇa · Search · About · API

History of Mediaeval Hindu India (being a History of India from 600 to 1200 A.D.) v3.c43.26

History of Mediaeval Hindu India (being a History of India from 600 to 1200 A.D.) v3.c43.26

Language
English

v3.c43.26

...स तु श्रीपृथ्वीवल्लभमहाराजाधिराजपरमेश्वरपरमभट्टारकसत्याश्रयकुलतिलक-समस्तभुवनाश्रयचालुक्याभरणश्रीमज्जगदेकमल्लदेवः श्रीमद्दुभनरेद्रदेवः कुशली। सर्वानिव यथासंबध्यमानकान् राष्ट्रविषयपतियामकूटकआयुक्तकनियुक्तकाधिकारिकमहत्तरादीन् समादिशत्यस्तु वः संविदितम् यथा अस्माभिः शकनृपकालातीतसंवत्सरशतेषु नवसु षट्त्वारिंशदधिकेषु अंकतः संवत९४६लक्ष्मी संवत्सरान्तर्गतवैशाखपौर्णमास्यामादित्यवारे यं च द्रमिलाधिपतिं बलवन्तं चोलं निर्धात्य सप्तकोंणाधीश्वराणां सर्वस्वं गृहीत्वा उत्तरादिग्विजयार्थं कोल्हापुरसमीपसमावासितनिजविजयस्कन्धावारात्...विषयान्तःपाति मुहुनीग्रामजाताय कौशिकगोत्राय बहुचशाखिने ब्रह्मचारिणे श्रीधरभट्टपौत्राय रेवणार्थभट्टपुत्राय वासुदेवार्थशर्मणे यजनयाजनादिष्टकर्मनिरताय वेदवेदांगपारगाय पडोरेद्वि सहस्रान्तःपातिकरटिकन्नचिशतमध्ये मडभूरुग्रामः सधान्यहिरण्यादेयः निधिनिधान- समेतः राजकीयानामनङ्गुलिमक्षेेपणीयः सशुल्कः सर्वकरबाधापहतः सर्वंनमस्योऽ- प्रहारो दत्तः...शासनाधिकारिमहाप्रचण्डदण्डनायकश्रीमत्प्रणायर्यप्रतिबद्धलेखक माइय्येण लिखितम् । मंगलं महाश्रीः श्रीः श्रीः ॥