Pramāṇa · Search · About · API

History of Mediaeval Hindu India (being a History of India from 600 to 1200 A.D.) v3.c43.5

History of Mediaeval Hindu India (being a History of India from 600 to 1200 A.D.) v3.c43.5

Language
English

v3.c43.5

शेष: सुसी यस्यं भुजे निधाय ॥ प्रध्वस्ते सोमसूर्योद्भवविदितमहाक्षत्रवंशद्वयोस्मिन् । उत्सन्नप्रायवेदध्वनिजगदसिलं मन्यमान: स्वयंभू: ॥ रुत्वा देहमहाय प्रवणामिह मन: शुद्धबुद्धिर्हरिष्याम् उद्धर्तुं धर्ममार्गान् प्राथितमिह तथा क्षत्रवंशद्वयं च ॥ वंशे तत्र तत: स एष समभूत् भूपालचूडामणि: प्रध्वस्तोड्भतवैरिविरातिमिर: श्रीचंद्रदेवो नृप: ॥ येनोदारतरप्रतापशमिताशेषप्रजोपद्रवं श्रीमद्गाधिपुराधिराज्यमसमं दोर्विक्रमेणाजितम् ॥ तीर्थानि काशिकुशिकौत्तरकोशलेस्थानियकानि परिपालयिताभिगम्य ॥ हेमामतुल्यमनिश्ं ददता द्विजेभ्यो येनांकिता वसुमती शतशस्तुलभि: ॥ तस्यात्मजो मदनपाल इति क्षितींद्रश्वडामणिविजयते निजगोत्रचंद्र: । यस्याभिषेककलशोलिसितै: पयोभि: प्रक्षालित: कलिरज: पटलं पृथिव्याम् ॥ ख्यातस्ततो रजनिर्जनिरिवाशुराशे: गोविंदचंद्र इति क्रांतिभराम: । राजात्मजेन भवता समुपार्जितानि रामेण दाशरथिनेव यशांसि येन ॥ दुर्वार्स्कारगौडद्विरदवरघटाकुंभनिर्भेदभीमो हम्मीरं न्यस्तवैरं मुहुरस मरणक्रीडया यो विधत्ते ॥ शश्वत् संचारिवल्गतुरगखुरपटोल्लेखमुद्रासनाध क्षोणीस्वीकारदक्ष: स इह विजयते प्रार्थनाकल्पवृक्ष: ॥ ...