Pramāṇa · Search · About · API

Studies in the Geography of Ancient and Medieval India c8.s1.25

Studies in the Geography of Ancient and Medieval India c8.s1.25

Language
English

c8.s1.25

मार्जारतीर्थं¹ राजेन्द्र² कोलापुरनिवासिनी ॥ तावद्देशो महाराष्ट्र: कर्णाटस्याभिगोचर:³ ॥ ११ जगन्नाथार्द्ध्वभागे⁴ अर्वाक् श्रीभ्रमराम्बिका । तावदंधाभिधो देश: सौराष्ट्रं शृणु साम्प्रतम्⁵ ॥ १२ कोंकणात्पश्चिमं⁶ तीर्त्वा समुद्रप्रान्तगोचर: । हिंगुलाजान्तको⁷ देवि शतयोजनमाश्रित:⁸ ॥ सौराष्ट्रो देशो देवेशि नाम्ना तु गुर्जरभिध:⁹ ॥ १३ श्रीशैलन्तु समारभ्य चोलेशान्मध्यभाग: । तैलंगदेशो देवेशि ध्यनाध्ययनतत्पर: ॥ १४ मूकां बिकां समारभ्य मलयाद्र्यन्तगं¹⁰ शिवे । मलयालाभिधो¹¹ देशो मन्त्रसिद्धिप्रवर्त्तक: ॥ १५ रामनाथं समारभ्य श्रीरंगान्तं वरेश्वर¹² । कर्णाटदेशो देवेशि साम्राज्यभोगदायक:¹³ ॥ १६ ताम्रपर्णी¹⁴ समारभ्य शैलाद्धेरुत्तरार्द्धत:¹⁵ । अवन्तीसंज्ञको¹⁶ देश: कालिका तत्र तिष्ठति ॥ १७ भद्रकाली महत्पूर्व¹⁷ रामदुर्गाच्च¹⁸ पश्चिमे । श्रीविदर्भाभिधो देशो वैदर्भी तत्र¹⁹ तिष्ठति ॥ १८