Studies in the Geography of Ancient and Medieval India c8.s1.27
Studies in the Geography of Ancient and Medieval India c8.s1.27
- Language
- English
c8.s1.27
गुर्जरत्पूर्वभागे¹ तु द्वारकातो हि² दक्षिणे । मरुदेशो महेशानि उष्ट्रोत्पत्तिपरायणः ॥११९ श्रीकोंकणधषोभागे³ तापीतः पश्चिमोत्तरे⁴ । आभीरदेशो देवेशि विंध्यशैले व्यवस्थितः ॥१२० अवन्तीतः पूर्वभागे गोदावर्यास्तथोत्तरे । मालवाख्यो महादेशो धनधान्यपरायणः⁵ ॥१२१ द्राविडतैलंगयोर्मध्ये⁶ चोलदेशः प्रकीर्त्तितः । लम्बकर्णश्च ते प्रोक्ता भेदोह्वान्तरो⁷ भवेत् ॥१२२ कुरुक्षेत्रात्⁸ पश्चिमे तु तथा चोत्तरभागतः⁹ । इन्द्रप्रस्थान्महेशानि दशत्रियोजनोत्तरम्¹⁰ । पाञ्चालदेशो देवेशि सौन्दर्यगर्वभूषितः ॥१२३ पाञ्चालदेशमारभ्य म्लेच्छादक्षिणपूर्वतः । काम्बोजदेशो देवेशि वाजिराशिपरायणः¹¹ ॥१२४ वैदर्भदेशादूर्ध्वं च इन्द्रप्रस्थाच्च दक्षिणे । मरुदेशात्पूर्वभागे विराटः परिकीर्त्तितः¹² ॥१२५ काम्बोजादक्षभागे¹³ तु इन्द्रप्रस्थाच्च¹⁴ पश्चिमे । पाण्डुदेशो¹⁵ महेशानि महाशूरवकारकः ॥१२६