Studies in the Geography of Ancient and Medieval India c8.s1.29
Studies in the Geography of Ancient and Medieval India c8.s1.29
- Language
- English
c8.s1.29
गंडकीतीरमारभ्य¹ चम्पारण्यान्तकं शिवे। विदेहभूः समाख्याता तैरभुक्त्यमिधः² स तु ॥२७ काम्बोजदेशमारभ्य म्हाम्लेच्छात्तु पूर्वके। बाल्हीकदेशो³ देवेशि अश्वोत्पत्तिपरायणः ॥२८ तप्तकुंड⁴ समारभ्य रामक्षेत्रान्तकं शिवे । किरातदेशो देवेशि विन्ध्यशैले च तिष्ठति ॥२९ करतोयां समारभ्य हिंगुलाजान्तकं शिवे । वक्रान्तदेशो⁵ देवेशि महाम्लेच्छपरायणः ॥३० हिंगुपीठं समारभ्य मल्कशान्तं⁶ महेश्वरि । खुराशनाभिधो⁷ देशो म्लेच्छमार्गपरायणः ॥३१ तन्मध्ये चोत्तरे देवि ऐराकः⁸ परिकीर्त्तितः ॥३२ काश्मीरन्तु समारभ्य कामरूपाच्च पश्चिमे । भोटान्तदेशो देवेशि मानसेशाच्च दक्षिणे ॥३३ मानशेषा(सेषा)इक्षुपूर्वं चीनदेशः प्रकीर्त्तितः ॥३४ कैलासगिरिमारभ्य⁹ सरयोनितः परे । आमागान्त¹¹ महेशानि महावीनाभिधो¹¹ भवेत् ॥३५ जटेश्वरं समारभ्य योगिन्यन्त¹² महेश्वरि । नेपालदेशो देवेशि शिलहट्टं शृणु प्रिये ॥३६ गणेश्वरं समारभ्य महोदध्यन्तगं (गः) शिवे । शिलाहट्टाभिधो देशो पर्यन्ते तिष्ठति प्रिये ॥३७¹³