Studies in the Geography of Ancient and Medieval India c8.s1.31
Studies in the Geography of Ancient and Medieval India c8.s1.31
- Language
- English
c8.s1.31
वंगदेशं समारभ्य भुवनेशान्तगं (गः) शिवे¹ । गौडदेशः समाख्यातः सर्वविद्याविशारदः ॥३८ गोकर्णशात्पूर्वभागे² आर्यावर्त्तात्तु चोत्तरे । तैरभुक्तात्³ पश्चिमे तु महापुर्यश्च पूर्वतः⁴ । महाकोशलदेशश्च⁵ सूर्यवंशपरायणः ॥३९ कालेश्वरं⁶ समारभ्य तप्तकुडान्तकं शिवे । मगधाख्यो⁷ महादेशो यात्रायां नहि दुष्यति । दक्षोत्तरक्रमेणैव क्रमात्कीकटमा(म)गधौ ॥४० चरणाद्रि समारभ्य गृध्रकूतान्तकं⁸ शिवे । तावतकीकटदेशः स्यादुत्तरो⁹ मा(म)गधो मतः ॥४१ जगन्नाथप्रान्तदेश¹⁰इचोत्कलः¹¹ परिकीर्त्तितः ॥४२ कामगिरिं समारभ्य द्वारकान्तं महेश्वरि । श्रीकुन्तलाभिधो देशो हूणं शृणु महेश्वरि ॥४३ कामगिरेर्क्षभागे मरुदेशात्तथोत्तरे । हूणदेशः समाख्यातः शूरास्तत्र वसन्ति हि¹² ॥४४ अथ घट¹³ समारभ्य कोटीशस्य तु मध्यगः¹⁴ । समुद्रप्रान्तदेशो हि कोंकणः¹⁵ परिकीर्त्तितः ॥४५ ब्रह्मपुत्रात्कामरूपान्मध्यभागे¹⁶ तु कैकयः ॥४६