Pramāṇa · Search · About · API

Studies in the Geography of Ancient and Medieval India c8.s1.48

Studies in the Geography of Ancient and Medieval India c8.s1.48

Language
English

c8.s1.48

मगधाक्षभागे¹ तु विन्ध्यात्पश्चिमतः शिवे । सौरसेनाभिधो² देशः सूर्य(यदु)वंशप्रकाशकः ॥४७ हस्तिनापुरमारभ्य कुरुक्षेत्राच्च दक्षिणे । पाञ्चालपूर्वभागे तु³ कुरुदेशः प्रकीर्तितः ॥४८ मरुदेशात्पूर्वभागे कामार्द्रदक्षिणे शिवे । सिंहलाख्यो महादेशः सर्वदेशोत्तमोत्तमः ॥४९ शिलहट्टात्⁴ पूर्वभागे कामरूपात्तथोत्तरे । पुलिन्ददेशो⁵ देवेशि नरनारायणपरः ॥५० गणेश्वरातपूर्वभागे समुद्रादुत्तरे शिवे । कच्छदेशः समाख्यातः सेवन⁵ᵃ शृणु सादरम् ॥५१ पुलिन्दादुत्तरे भागे कच्छाच्च पश्चिमे शिवे । मत्स्यदेशः समाख्यातः मत्स्यबाहुल्यकारकः ॥५२ वैराटपाण्डचयोर्मध्ये⁶ पूर्वदक्षमेण च । मद्रदेशः समाख्यातः माद्रीशास्त्र⁷ तिष्ठति ॥५३ शूरसेनात्⁸ पूर्वभागे कण्ठकात्⁹ पश्चिमे वरे । सौवीरदेशो देवेशि सर्वदेशाधमाधमः¹⁰ ॥५४ अवन्तीतः पश्चिमे तु वैदभर्दक्षिणोत्तरे¹¹ । लाटदेशः समाख्यातो वर्वरं शृणु पार्वति ॥५५ मायापुरं समारभ्य सप्तशृङ्गात्तथोत्तरे ।

Linked texts (4)