Studies in the Geography of Ancient and Medieval India c8.s1.9
Studies in the Geography of Ancient and Medieval India c8.s1.9
- Language
- English
c8.s1.9
वैद्यनाथं समारभ्य भुवनेशान्तगं (ग:) शिवे । तावदंगाभिधो¹ देशो यात्रायां नहि दुष्यति² ।। २ रत्नाकरं³ समारभ्य ब्रह्मपुत्रान्तगं (ग:) शिवे⁴ । वंगदेशो मया प्रोक्तः सर्वसिद्धिप्रदायकः⁵ ।। ३ जगन्नाथात् पूर्वभागात्⁶ कृष्णातीरान्तगं (ग:) शिवे । कलिंगदेशः संप्रोक्तो वाममार्गपरायणः⁷ ।। ४ कलिंगदेशमारभ्य पंचाष्टयोजनं शिवे । दक्षिणस्यां महेशानि कालिंगः परिकीर्त्तितः ।। ५ सुबह्माण्यं समारभ्य यावद्देवो जनार्दनः । तावत्केरलदेशः स्यात्तन्मध्ये सिद्धिकरलः⁸ ।। ६ रामेश्वरो वेंकटेशो⁹ हंसकेरलबोधकः ।। ७ अनन्तशैलमारभ्य यावत्स्यादुडुपं पुरम्¹⁰ । तावत्सर्वेशनामा तु¹¹ केरलः परिकीर्त्तितः ।। ८ शारदामठमारभ्य कुंकुमाद्रितटान्तकम्¹² । तावत्काश्मीरदेशः स्यात्पंचाशद्योजनान्तकः¹³ ।। ९ कालेश्वरश्वेतगिरिं¹⁴ त्रिपुरानीलपर्वतम् । कामरूपाभिधो देवि गणेशगिरिमूर्द्धनि ।। १० त्र्यंबकं¹⁵ समारभ्य मध्ये चोज्जयिनी शिवे ।
Linked texts (5)
- Aṃga — Sudharman, Ardhamāgadhī Prakrit
- Gurjara
- Kashmir
- Kāliṅga (Śrī Laṅkā)
- Malayāḷaṃ — Malayalam