The Orion, or Researches into the Antiquity of the Vedas c7.37
The Orion, or Researches into the Antiquity of the Vedas c7.37
- Language
- English
c7.37
संवत्सरं दीक्षिप्यमाणाएकाष्टकायां दीक्षरन्नेषा वै संवत्सरस्य पत्नी यदेकाष्टकैतस्यां वाएषएतां रात्रिं वसति साक्षादेव संवत्सरमारभ्य दीक्षंतार्त वाएते संवत्सरस्याभिदीक्षंते यएकाष्टकायां दीक्षंतैतनामानावृतु भवतौव्यस्तं वाएते संवत्सरस्याभिदीक्षंते यएकाष्टकायां दीक्षंतैतनामानावृतु भवतः फल्गुनीपूर्णमासे दीक्षरन्मुखं वाएतत् संवत्सरस्य यत्फल्गुनीपूर्णमासो मुखतएव संवत्सरमारभ्य दीक्षंते तस्यैकैव निर्या यत्साम्मध्ये विपूर्वान्संपद्यते चित्रापूर्णमासे दीक्षरन्मुखं वाएतत् संवत्सरस्य यच्चित्रापूर्णमासो मुखतएव संवत्सरमारभ्य दीक्षंते तस्य न काचन निर्या भवति चतुरहे पुरस्तात्पौर्णमास्यै दीक्षरन्तेषाभेकाष्टकायां क्रयः संपद्यते तेनैकाष्टकां न छंबदकुर्वंति तेषां पूर्वपक्षे सुत्या संपद्यते पूर्वपक्षं मासाअभिसंपद्यते ते पूर्वपक्ष ऽतिष्ठंति तानुत्तिष्ठतओषधयो वनस्पतयोऽनुत्तिष्ठंति तान्कल्याणी कीर्तिरनूत्तिष्ठत्यरासुरिमे यजमानाहति तदनुसर्वं राप्नुवति ।