Pramāṇa · Search · About · API

Hindu Administrative Institutions c9.s1.28

Hindu Administrative Institutions c9.s1.28

Language
English

c9.s1.28

क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः ॥
अर्थेन हि विमुक्तस्य पुरुषस्याल्पतेजसः ।
व्युच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा ॥
सोयमर्थं परित्यज्य सुखकामः सुखैधितः ।
पापमारभते कर्तुं ततो दोषः प्रवर्तते ॥
यस्यार्थास्तस्य मित्राणि यस्यार्थाः तस्य बान्धवाः ।
यस्यार्थाः स पुमान् लोके यस्यार्थाः स च पण्डितः ॥
यस्यार्थाः स च विक्रान्तो यस्यार्थाः स च बुद्धिमान् ।
यस्यार्थाः स महाभागो यस्यार्थाः स महागुणः ॥
अर्थस्यैते परित्यागे दोषाः प्रख्याहता मया ।
राज्यमुत्सृजता वीर येन बुद्धिस्त्वया कृता ॥
यस्यार्था धर्मकामार्थास्तस्य सर्वं प्रदक्षिणम् ।
अधनेनार्थकामेन नार्थः शक्यो विचिन्वता ॥