Pramāṇa · Search · About · API

War in Ancient India c10.14

War in Ancient India c10.14

Language
English

c10.14

इष्टकालेऽर्थदर्शित्वं पुनः सम्यक्त्वसंवृतिः । अनुलवणत्वं ताद्रूप्यं दाढ्यैमसृणता तथा ॥ चिरकालसहत्वं च यन्त्रस्यैते गुणाः स्मृताः । एकं बहूनि चलयेद् बहुभिश्चालयेदपरम् ॥ सुश्लिष्टमलक्षत्वं यन्त्राणां परमोगुणः । अथ कर्माणि यन्त्राणां विचित्राणि यथाविधि ॥ नविस्तरात्प्रक्षेपात् साम्प्रतं संप्रचक्ष्महे । कस्यचित् सा क्रिया साध्या कालः कस्यापि कस्यचित् ॥ शब्दः कस्यापि चोच्च्रायो रूपस्पर्शौ च कस्यचित् । क्रियास्तु कार्यस्य वशादनन्ताः परिकीर्तिताः ॥ तिर्यगूर्ध्वमधः पृष्ठे पुरतः पार्श्वयोरपि । गमनं सरणं पात इति भेदाः क्रियोद्भवाः ॥ कालो मुहूर्ताष्टाद्यैर्भिन्नो भेदैरनेकधा । शब्दो विचित्रः सुखदो रतिकृत्मीषणस्तथा ॥ उच्च्रायस्तु जलस्य स्यात् क्वचिद्भुजेऽपि शस्यते । गीतं नृत्यं च वाद्यं च पटहो वंश एव च ॥ वीणा च कांस्यतालश्च तुमिला करटापि च । यत्किञ्चिदन्यदप्यत्र वादित्रादि विभाव्यते ॥ समस्तमपि तद् यन्त्राज्जायते कल्पना वशात् । नृत्ये तु नाटकं चोक्षस्ताण्डवं लास्यमेव च ॥ राजमार्गश्च देशी च यन्त्रात् सर्वं प्रसिध्यति ॥ तथा जात्यनुगाश्चेष्टा विरुद्धा यास्तु जातिकः । ताः सर्वा अपि सिध्यन्ति सम्यकयन्त्रसाधनात् । भूचराणां गतियौन्नि भूमौ व्योमचरागमः ॥ चेष्टान्यपि मर्त्यानां तथा भूमिसृशामिव ।