Pramāṇa · Search · About · API

History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v1.c6.s64.13

History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v1.c6.s64.13

Language
English

v1.c6.s64.13

⁷⁶⁸ अत्र केचिद् व्याचक्षते-विताने वेदे भवाः वैतानाः तथा उपासने गृहे भवा औपासनाः। वैतानाश्चौपासनाश्च वैतानोपासनाः क्रिया इति। तदेतदूष्याख्यानमनुपपन्नम्। वैतानोपासन्म इति हि तदा शब्दः स्यान्न पुनर्वेतानोपासना इति।... यच्च तैः श्रुतिचोदनाविति पाठं रुत्वा हेतुपरत्वेन व्याख्यातं तदपि न युक्तम्। एवं हि ते मन्यन्ते। यस्माच्छुत्या यावज्जीवमग्निहोत्रं जुहुयात्, यावज्जीवं दर्शपूर्णमासाभ्यां यजेत, इत्यादिकयावश्यकायतया विहितत्वान्न स्मृत्या शक्यमाशौचेपि तन्निवर्तनं विधातुमिति। अपरार्क p. 891: compare the मिताक्षरा ‘वितानोऽग्नीनां विस्तारस्तत्र भवा वैतानाः त्रेताग्निसोध्या अग्निहोत्रदर्शपूर्णमासाद्याः क्रिया उच्यन्ते। ... उपासनो गृह्याग्निस्तत्र भवा औपासनाः सायंमातर्होमक्रिया। उच्यन्ते ता वैतानोपासना वैदिक्यः क्रियाः कार्याः। कथं वैदिकत्वमिति चेत्। श्रुतिचोदनात्। तथााहि यावज्जीवमग्निहोत्रं जुहुयादित्यादिश्रुतिभिरग्निहोत्रादीनां चोदना स्पृष्टैव॥’.

Linked texts (1)