History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v2.c23.347
History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v2.c23.347
- Language
- English
v2.c23.347
⁶¹⁵ सरस्वतीपूजनादिप्रकारमाह पारिजाते गर्गः। स्नात्वा शुचौ समे देशे गोचर्ममात्रमुपलिप्य सैकतं स्थण्डिलं कृत्वा पलाशशाखया भुवं खनित्वा तत्र सरस्वतीमावाहयेत्। भुवनमातः सर्ववाङ्मयरूपे आगच्छागच्छेति। ततः प्रणवेनासनाद्यैर्पाद्याचमनीयस्नानवस्त्रगन्धपुष्पाक्षतधूपदीपपायसगुडौदननैवेद्यसमर्पणनमस्कारान्कृत्वा विघ्नेशं संपूज्याचार्यं शक्तितो वस्त्रालंकारादिभिः पूजयित्वा सरस्वतीविघ्नेशाचार्यांस्त्रिः प्रदक्षिणीकृत्य प्रणवपूर्वकमक्षरमारभेत। तत आचार्यादिवन्दनं कृत्वा सरस्वत्यादीनावाहनक्रमेणोद्वासयेद्विद्यावृद्धिर्भवति। संस्काररत्नमाला p. 906.
Linked texts (1)
- Vṛddhagārgīyajyotiṣa — Garga, Sanskrit