Pramāṇa · Search · About · API

History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v2.c24.s1.70

History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v2.c24.s1.70

Language
English

v2.c24.s1.70

⁶⁸⁰ नित्यमुत्तरं वासः कार्यम्। अपि वा सूत्रमेवोपवीतार्थे। आप. ध. सू. II. 2. 4. 22-23; सोत्तराच्छादनश्चैव यज्ञोपवीती भुञ्जीत। आप. ध. सू. II. 8. 19. 12; हरदत्त explains "उत्तराच्छादनमुपर वासः। तेन यज्ञोपवीतेन यज्ञोपवीतं कृत्वा भुञ्जीत। नास्य भोजने 'अपि वा सूत्रमेवोपवीतार्थे' इत्ययं कल्पो भवतीत्येके। समुच्चय इत्यन्ये।"; यज्ञोपवीती द्विवस्त्रः। अधोनिवीतरत्वेकवस्त्रः। आप. ध. सू. I. 2. 6. 18-19; उपासने गुरूणां वृद्धानामतिथीनां होमे जप्यकर्मणि भोजन आचमने स्वाध्याये च यज्ञोपवीती स्यात्। आप. ध. सू. I 5. 15. 1, where हरदत्त says 'वासोविन्यासविशेषो यज्ञोपवीतम्। दक्षिणं बाहुमुद्धरत इति ब्राह्मणविहितम्। वाससोऽसंभवेऽनुकल्पं वक्ष्यति अपि वा सूत्रमेवोपवीतार्थ इति। एषु विधानात् कालान्तरे नावश्यंभावः।'; vide औशनसस्मृति (Jīvānanda, part I. p. 502) 'अग्न्यगारे गवां गोष्ठे होमे जप्ये तथैव च । स्वाध्याये भोजने नित्यं ब्राह्मणानां च संनिधौ। उपासने गुरूणां च संध्ययोरुभयोरपि। उपवीती भवेन्नित्यं विधिरेष सनातनः ॥'

Linked texts (1)