Pramāṇa · Search · About · API

History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v2.c34.105

History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v2.c34.105

Language
English

v2.c34.105

¹⁵⁷¹ अथातो नित्यस्नानं नद्यादौ। मृद्गोमयकुशतिलसुमनस आहृत्योदकान्तं गत्वा शुचौ देशे स्थाप्य प्रक्षाल्य पाणिपादं कुशोपाग्रहो बद्धशिखी यज्ञोपवीत्याचम्योरुं हीति तोयममन्त्रायावर्तयेद्ये ते शतमिति। सुमित्रिया न इत्यपोऽञ्जलिनादाय दुर्मित्रिया इति द्वेष्यं प्रति निषिञ्चेत्। कटिं बस्त्यूरूजङ्घे चरणौ करौ मृदा त्रिभिः प्रक्षाल्याचम्य नमस्योदकमालभेदङ्गानि मृदेवं विष्णुरिति सूर्याभिमुखो निमज्जेदापो अस्मानिति स्नात्वोदिद्भाभ्य इत्युन्मज्य निमज्योन्मज्याचम्य गोमयेन विलिम्पेन्मा नस्तोक इति। ततोभिषिञ्चेदिमं मे वरुणेति चतसृभिर्ऋप उद्धत्तमं मुञ्चन्त्ववभृथेत्यन्ते चैतान्निमज्योन्मज्याचम्य दर्भैः पावयेदापो हिष्ठेति तिसृभिरिदमापो हविष्मतीर्देवीराप इति द्वाभ्यामपो देवा द्रपदादिव शन्नो देवीरपां रसमपो देवीः पुनन्तु मेति नवभिश्चस्पतिर्मेत्योंकारेण व्याहृतिभिर्गायत्र्या चाद्यावन्ते चान्तर्जलेऽघमर्षगं त्रिरावर्तयेद् द्रुपदादिवायं गौरिति वा तृचं प्राणायामं वा सशिरसोमिति वा विष्णोर्वा स्मरणम्। कात्यायनीयस्नानसूत्र. गृह. र. (pp. 208-211) quotes this and explains some portion and differs from a Bhāṣya thereon.