Pramāṇa · Search · About · API

History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v3.c54.12

History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v3.c54.12

Language
English

v3.c54.12

तत्र प्रादेशमात्रां दर्भमुष्टिं प्रसार्य तत्राज्यस्थालीं निदधाति । दक्षिणेन हस्तेन दर्वीमग्नौ प्रताप्य वामहस्तेन गृहीत्वा दक्षिणहस्तेन दर्भाग्रैः दर्वीबिलं संमार्ष्टि दर्भमूलैः दर्वीमूलं च । पुनर्निष्टप्य प्रोक्ष्य आज्यस्थाल्या उत्तरतो दर्भेषु निदधाति । संमार्गदर्भानग्नौ प्रहरेत् । इध्मबन्धनरज्जुं भूमौ निधाय वामेन हस्तेनेध्ममादाय दर्याज्येन त्रिरभिघार्य दक्षिणेन हस्तेन गृहीत्वा ओं अयं त इध्म आत्मा जातवेदस्तेनेध्यस्व वर्धस्व चेन्धि वर्धय चास्मा-न्प्रजया पशुभिर्ब्रह्मवर्चसेनान्नाद्येन समेधय स्वाहा इति मन्त्रेणाग्नावाधाय१ जातवेद-सेऽग्नय इदं न ममेति त्यजेत् । दर्व्याज्यमादाय स्थण्डिलस्य वायव्यकोणमारभ्य आग्ने-यीकोणपर्यन्तमखण्डधारया आज्याहुतिं ओं प्रजापतये स्वाहा इति जुहोति । प्रजापतय इदं न मम इति त्यागः । पुनः दर्व्याज्यमादाय नैर्ऋतकोणमारभ्य ऐशानकोणपर्यन्तं ओं प्रजापतये स्वाहा इति जुहोति । प्रजापतय इदं न मम इति त्यागः । दर्व्याज्येन ओं अग्नये स्वाहा इत्यग्नावुत्तरभागे जुहोति । अग्नय इदं न मम इति त्यागः । ओं सोमाय स्वाहा इत्यग्नौ दक्षिणभागे जुहोति । सोमायेदं न ममेति त्यागः । अस्मिन्काले कुमार आचार्यस्य दक्षिणतः कृताञ्जलिरार्याभिमुखस्तिष्ठन्नाचार्यं प्रार्थयते ब्रह्मचर्यमागां ब्रह्मचार्यसानि-इति । आचार्यः ओं तथास्त्वित्याह । तत आचार्यः कुमाराय यज्ञोपवीतं दद्यात् । कुमार आचार्यदत्तं यज्ञोपवीतं गृहीत्वा ओं यज्ञोपवीतं परमं पवित्रं प्रजापतेर्य-त्सहजं पुरस्तात् । आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः । इति मन्त्रेण२ धारयेत् । तत आचार्यः कुमारमाह । ओं सविताचार्यस्तव अमुकनामन् । इति । ओं मम हृदये३ हृदयं ते अस्तु । मम चित्तं चित्तेनान्वेहि । मम वाचमेकमना जुषस्व । बृहस्प-तिस्त्वा नियुनक्तु मह्यम् । इति च । अथैनं सूर्यमुदीक्षयति । ओं तच्चक्षुर्देवहितं४ पुरस्ताच्छु-क्रमुच्चरत् । पश्येम शरदः शतं जीवेम शरदः शतं नन्दाम शरदः शतं मोदाम शरदः शतं भवाम शरदः शतं शृणवाम शरदः शतं प्रब्रवाम शरदः शतमजीताः स्याम शरदः शतं ज्योक् च सूर्यं दृशे । इति । तत आचार्यः सवितारं प्रार्थयते । ओं सूर्य एष ते पुत्रस्तं ते परिददामि इति । अथ कुमारं देवताभ्यः परिददाति । ओं५ प्रजापतये त्वा परिददामि । देवाय सवित्रे त्वा परिददामि । अद्भ्यस्त्वौषधीभ्यः परिददामि । द्यावा-पृथिवीभ्यां त्वा परिददामि । विश्वेभ्यस्त्वा देवेभ्यः परिददामि । सर्वेभ्यस्त्वा भूतेभ्यः परिद-दाम्यरिष्ट्यै । इति । तत आचार्यः स्वासन उपविश्य स्वदक्षिणस्थकुमारेणान्वारब्ध आहुतिचतुष्टयं जुहोति । ओं भूः स्वाहा । अग्नय इदं न मम । ओं भुवः स्वाहा । वायव इदं न मम । ओं स्वः स्वाहा । सूर्यायेदं न मम । ओं प्रजापतये स्वाहा । प्रजापतय इदं न मम । इति । ततः कुमारोऽग्निं परिसमूह्य पर्युक्ष्यग्नौ समिधमादध्यात् । ओं अग्नये६ समिधमाहार्षं बृहते जातवेदसे । तया त्वमग्ने वर्धस्व समिधा ब्रह्मणा वयं स्वाहा । इति ।