Pramāṇa · Search · About · API

History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v3.c54: Appendix

History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v3.c54

Language
English

Contents

Appendix

v3.c54.1

OF LONGER EXTRACTS IN SANSKRIT

v3.c54.2

PAGE 202, NOTE 470—अथ यस्य जायामार्तवं विन्देत् त्र्यहं कंसेन पिबेदहतवासा नैनां वृषलो न वृषल्युपहन्यात् त्रिरात्रान्त आप्लुत्य व्रीहीनवघातयेत्।... अथाभिप्रतरेव स्थालीपाकावृताज्यं चेष्टित्वा स्थालीपाकस्योपघातं जुहोत्यग्नये स्वाहा•नुमतये स्वाहा देवाय सवित्रे सत्यप्रसवाय स्वाहेति हुत्वोद्धृत्य प्राश्नाति प्राश्येतर•स्याः प्रयच्छति प्रक्षाल्य पाणी उदपात्रं पूरयित्वा तेनैनां त्रि can अभ्युक्षत्युत्तिष्ठातो विश्वा•वसोऽन्यामिच्छ प्रपूर्व्यां सं जायां पत्या सहेति । अथैनामभिपद्यतेऽमोहमस्मि सा त्वं सा त्वमस्यमोऽहं सामाहमस्मि ऋक्त्वं द्यौरहं पृथिवी त्वं तावेहि संरभावहै सह रेतो दधावहै पुंसे पुत्राय वित्तय इति । अथास्या ऊरू विहापयति विजिहीथां द्यावापृथिवी इति तस्यामर्थं निष्ठाय मुखेन मुखं संधाय त्रिरेनामनुलोमामनुमार्ष्टि । विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु । आसिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते ॥ गर्भं धेहि सिनीवालि गर्भं धेहि पृथुष्टुके । गर्भं ते अश्विनौ देवावाधत्तां पुष्करस्रजौ ॥ हिरण्मयी अरणी याभ्यां निर्मन्थतामश्विनौ । तं ते गर्भं हवामहे दशमे मासि सूतये ॥ यथाग्निगर्भा पृथिवी यथा द्यौरिन्द्रेण गर्भिणी । वायुर्दिशां यथा गर्भ एवं गर्भं दधामि तेऽसाविति । बृहदारण्यकोपनिषद् VI. 4. 13 and 19–22. विष्णुर्योनिं...सूतये are Ṛg. X. 184. 1–3 and विष्णुर्योनिं ... दधामि ते are आप. म. पा. I. 12. 1–3 and 5.

v3.c54.3

PAGE 207, NOTE 481—अथ खलु यत्र क्व च होष्यन्स्यादिषुमात्रावरं सर्वतः स्थण्डिलमुपलिप्योल्लिख्य षड्लेखा उदगायतां पश्चात्प्रागायते नानानन्त्योस्तिस्रो मध्ये तदभ्युक्ष्यग्निं प्रतिष्ठाप्यान्वाधाय परिसमूह्य परिस्तीर्य पुरस्ताद्दक्षिणतः पश्चादुत्तरत इत्युदक्संस्थं तूष्णीं पर्युक्षणम् । पवित्राभ्यामाज्यस्योत्पवनम् । अप्रच्छिन्नाग्रावनन्तर्गभौ प्रादेशमात्रौ कुशौ नानानन्तयोर्गृहीत्वाङ्गुष्ठोपकनिष्ठिकाभ्यामुत्तानाभ्यां पाणिभ्यां सवितुष्ट्वा प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण वसोः सूर्यस्य .रश्मिभिरिति प्रागुत्पुनाति सकृन्मन्त्रेण द्विस्तूष्णीम् । कृताकृतमाज्यहोमेषु परिस्तरणम् । तथाज्यभागौ पाकयज्ञेषु । मह्या च धन्वन्तरियज्ञशूलगववर्जम् । अमुष्मै स्वाहेति जुहुयात् । अग्निरिन्द्रः प्रजापतिर्विश्वे देवा ब्रह्मेत्यनादेशे । आश्व. गृ. I. 3. 1–8. The मन्त्र with which the offering to Agni Sviṣṭakṛt is made is यदस्य कर्मणोऽत्यरीरिचं यद्वा न्यूनमिहाकरम् । अग्निष्टत् स्विष्टकृद्विद्वान्सर्वं स्विष्टं सुहुतं करोतु मे । अग्नये स्विष्टकृते सुहुतहुते सर्वप्रायश्चित्ताहुतीनां कामानां समर्धयित्रे सर्वान्नः कामान्समर्धय स्वाहा इति । आश्व. गृ. I. 10. 22.

v3.c54.4

PAGE 218, NOTE 510—उपनिषदि गर्भलम्भनं पुंसवनमनवलोभनं च। यदि नाधीयात्तृतीये गर्भमासे तिष्येणोपोषितायाः सरूपवत्साया गोर्दधनि द्वौ द्वौ मापौ यवं च दधि प्रसृतेन प्राशयेत्। किं पिबसि किं पिबसीति पृष्ट्वा पुंसवनं पुंसवनमिति त्रिः प्रतिजानीयात्। एवं त्रीन्प्रसृतान्। अथास्यै मण्डलागारच्छायायां दक्षिणस्यां नासिकायामजीतामोषधिं नस्तः करोति। प्रजावज्जीवपुत्राभ्यां हैके। आ ते गर्भो...न रोदादिति। प्राजापत्यस्य स्थालीपाकस्य हुत्वा हृदयदेशमस्या आलभेत यत्ते सुसीमे हृदये हितमन्तः प्रजापतौ। मन्येऽहं मां तद्विद्वांसं माहं पौत्रमघं नियामिति। आश्व. गृ. I. 13. 1–7. For the text of the two verses आ ते रोदादिति, vide note 515.

v3.c54.5

PAGE 222, NOTE 518—चतुर्थे गर्भमासे सीमन्तोन्नयनम्। आपूर्यमाणपक्षे यदा पुंसा नक्षत्रेण चन्द्रमा युक्तः स्यात्। अथाग्निमुपसमाधाय पश्चादस्यानाडुहं चर्मास्तीर्य प्राग्ग्रीवमुत्तरलोम तस्मिन्नुपविष्टायां समन्वारब्धायां धाता ददातु दाशुष इति द्वाभ्यां राकामहमिति द्वाभ्यां नेजमेष इति तिसृभिः प्रजापते न त्वदेतान्य इति च। अथास्यै युग्मेन शलाटुगल्पसेन त्रेण्या च शलल्या त्रिभिश्च कुशपिञ्जुलैरूर्ध्वं सीमन्तं व्यूहति भूर्भुवः स्वरोमिति त्रिः। चतुर्वा। वीणागाथिनौ संशास्ति सोमं राजानं संगायेतामिति। सोमो नो राजावतु मानुषीः प्रजा निविष्टचक्रासाविति यां नदीमुपवसिता भवन्ति। ब्राह्मण्यश्च वृद्धा जीवपत्यो जीवप्रजा यद्यदुपदिशेयुस्तत्तत्कुर्युः। ऋषभॊ दक्षिणा। आश्व. गृ. I. 14. 1–9.

v3.c54.6

PAGE 229, NOTE 526 (जातकर्म)—जातेऽग्निमुपसमाधायाङ्क आधाय कंसे पृषदाज्यं संनीय पृषदाज्यस्योपघातं जुहोत्यस्मिन्सहस्रं पुष्यासमेधमानः स्वे गृहे। अस्योपसन्त्यां मा छैत्सीत् प्रजया च पशुभिश्च स्वाहा। मयि प्राणांस्त्वयि मनसा जुहोमि स्वाहा। यत्कर्मणात्यरीरिचं यद्वा न्यूनमिहाकरम्। अग्निष्टत् स्विष्टकृद्विद्वान् स्विष्टं सुहुतं करोतु नः स्वाहेति। अथास्य दक्षिणं कर्णमभिनिधाय वाग्वागिति त्रिरथ दधिमधुघृतं संनीयानन्तर्हितेन जातरूपेण प्राशयति भूस्ते दधामि भुवस्ते दधामि स्वस्ते दधामि भूर्भुवः स्वः सर्वं त्वयि दधामीति। अथास्य नाम करोति वेदोऽसीति तदस्य तद्गुह्यमेव नाम भवति। अथैनं मात्रे प्रदाय स्तनं प्रयच्छति यस्ते स्तनः शशयो यो मयोभूर्यो रत्नधा वसुविद्यः सुदत्रः। येन विश्वा पुष्यसि वार्याणि सरस्वति तमिह धातवे करिति। अथास्य मातरमभिमन्त्रयते। इलासि मैत्रावरुणी वीरे वीरमजीजनत्। सा त्वं वीरवती भव यास्मान्वीरवतोऽकरदिति तं वा एतमाहुरतिपिता बताभूरतिपितामहो बताभूः परमां बत काष्ठां प्रापदच्छ्रिया यशसा ब्रह्मवर्चसेन य एवंविदो ब्राह्मणस्य पुत्रो जायते। इति। बृह. उ. VI. 4. 24–28.

v3.c54.7

PAGE 231, NOTE 531—कुमारं जातं पुरान्यैरालम्भात्सर्पिर्मधुनी हिरण्यनिकाषं हिरण्येन प्राशयेत्। प्र ते ददामि मधुनो घृतस्य वेदं सवित्रा प्रसूतं मघोनाम्। आयुष्मान्गुप्तो देवताभिः शतं जीव शरदो लोके अस्मिन्निति। कर्णयोरुपनिधाय मेधाजननं जपति। मेधां ते देवः सविता मेधां देवी सरस्वती। मेधां ते अश्विनौ देवावाधत्तां

v3.c54.8

पुष्करस्रजाविति । अंसावभिमृशति । अश्मा भव परशुर्भव हिरण्यमस्तृतं भव । वेदो वै पुत्रनामासि स जीव शरदः शतमिति । इन्द्र श्रेष्ठानि द्रविणानि धेह्यस्मे प्रयन्धि मघवन्नृजीषिन्निति च । नाम चास्मै दद्युः । आश्व. गृ. I. 15. 1-4.

v3.c54.9

PAGE 281, NOTE 653—(उपनयनप्रयोगः)—अलंकृतं कुमारं कुशलीकृतशिरसमहतेन वाससा संवीतमैणेयेन वाजिनेन ब्राह्मणं रौरवेण क्षत्रियमाजेन वैश्यं यदि वासांसि वसीरन् रक्तानि वसीरन् काषायं ब्राह्मणो माञ्जिष्ठं क्षत्रियो हारिद्रं वैश्यः । तेषां मेखलाः ।...तेषां दण्डाः । ... समन्वारब्धे हुत्वोत्तस्तोऽग्रेः प्राङ्मुख आचार्योवतिष्ठते । पुरस्तात्प्रत्यङ्मुख इतरः । अपामञ्जली पूरयित्वा तत्सवितुर्वृणीमह इति पूर्नेनास्य पूर्णमवक्षारयन्त्यासिञ्च्य देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां हस्तं गृह्णाम्यसाविति तस्य पाणिना पाणिं साङ्गुष्ठं गृह्णीयात् । सविता ते हस्तमग्रभीदसाविति द्वितीयम् । अग्निरार्यार्यस्तवासाविति तृतीयम् । आदित्यमीक्षयेत् । देव सवितरेष ते ब्रह्मचारी तं गोपाय स मा मृतेत्याचार्यः । कस्य ब्रह्मचार्यसि प्राणस्य ब्रह्मचार्यसि कस्त्वो कमुपिनयते काय त्वा परिददामीति । युवा सुवासाः परिवीत आगादित्यर्धेर्चेनैनं प्रदक्षिणमावर्तयेत् । तस्याध्यंसौ पाणी कृत्वा हृदयदेशमालभेतोत्तरेण । अग्निं परिसमुह्य ब्रह्मचारी तूष्णीं समिधमादध्यात् तूष्णीं वै प्राजापत्यं प्राजापत्यो ब्रह्मचारी भवतीति विज्ञायते । मन्त्रेण हैके अग्नये समिधमाहार्षं बृहते जातवेदसे । तया त्वमग्ने वर्धस्व समिधा ब्रह्मणा वयं स्वाहेति । स समिधमाधायाभिमृपस्पृश्य मुखं निमार्ष्टि त्रिः तेजसा मा समनज्मीति । तेजसा ह्येवात्मानं समनक्रीति विज्ञायते । मयि मेधां मयि प्रजां मय्यग्निस्तेजो दधातु । मयि मेधां...मय्यीन्द्र इन्द्रियं दधातु । मयि मेधां...मयि सूर्यो भ्राजो दधातु । यत्ते अग्ने तेजस्तेनाहं तेजस्वी भूयासम् । यत्ते अग्ने वर्चस्तेनाहं वर्चस्वी भूयासम् । यत्ते अग्ने हरस्तेनाहं हरस्वी भूयासम् । इत्युपस्थाय जान्वाच्योपसंगृह्य ब्रूयात् । अधीहि भोः सावित्रीं भो अनुब्रूहीति । तस्य वाससा पाणिभ्यां च पाणी संगृह्य सावित्री मन्वाह पच्छोऽर्धर्चशः सर्वाम् । यथाशक्ति वाचयति । हृदयदेशेऽस्योर्ध्वाङ्गुलिं पाणिमुपदधाति । मम व्रते हृदयं ते दधामि मम चित्तमनु चित्तं ते अस्तु । मम वाचमेकव्रतो जुषस्व बृहस्पतिष्ट्वा नियुनक्तु मह्यमिति । मेखलामाबध्य दण्डं प्रदाय ब्रह्मचर्यमादिशेत् । ब्रह्मचार्यस्यपोशान कर्म कुरु दिवा मा स्वाप्सीराचार्याधीनो वेदमधीष्वेति । द्वादशवर्षाणि वेदब्रह्मचर्यम् । ग्रहणान्तं वा । सायंप्रातर्भिक्षेत । सायंप्रातः समिधमादध्यात् । ... तदाचार्याय वेदयोत तिष्ठेदहःशेषम् । आश्व. गृ. 1. 19. 8–1. 22–10.

v3.c54.10

(धर्मनिर्णयमण्डलसंकलितः उपनयनप्रयोगः)

v3.c54.11

(गणपतिपूजनसंकल्पपुण्याहवाचनानन्तरं) आचार्यो गोमयादिलिप्ते शुद्धे स्थले शुद्धमृदा चतुर्विंशत्यङ्गुलमात्रं समचतुरस्रं चतुरङ्गुलोन्रतं स्थण्डिलं कृत्वा अभ्युक्ष्य तत्र ओं भूर्भुवः स्वः समुद्भवनामानमग्निं प्रतिष्ठापयामीत्युक्त्वाग्निं प्रतिष्ठापयेत् । प्रोक्षितेन्धनानि निक्षिप्य धमन्त्यादिना प्रज्वाल्य अग्ने वैश्वानर शाण्डिल्य मेषध्वज मम संमुखो वरदो भव इति प्रार्थयेत् । अग्निं परिसमूह्य परिस्तीर्य पर्युक्ष्य आत्मनोऽग्रतो भूमिं प्रोक्ष्य

v3.c54.12

तत्र प्रादेशमात्रां दर्भमुष्टिं प्रसार्य तत्राज्यस्थालीं निदधाति । दक्षिणेन हस्तेन दर्वीमग्नौ प्रताप्य वामहस्तेन गृहीत्वा दक्षिणहस्तेन दर्भाग्रैः दर्वीबिलं संमार्ष्टि दर्भमूलैः दर्वीमूलं च । पुनर्निष्टप्य प्रोक्ष्य आज्यस्थाल्या उत्तरतो दर्भेषु निदधाति । संमार्गदर्भानग्नौ प्रहरेत् । इध्मबन्धनरज्जुं भूमौ निधाय वामेन हस्तेनेध्ममादाय दर्याज्येन त्रिरभिघार्य दक्षिणेन हस्तेन गृहीत्वा ओं अयं त इध्म आत्मा जातवेदस्तेनेध्यस्व वर्धस्व चेन्धि वर्धय चास्मा-न्प्रजया पशुभिर्ब्रह्मवर्चसेनान्नाद्येन समेधय स्वाहा इति मन्त्रेणाग्नावाधाय१ जातवेद-सेऽग्नय इदं न ममेति त्यजेत् । दर्व्याज्यमादाय स्थण्डिलस्य वायव्यकोणमारभ्य आग्ने-यीकोणपर्यन्तमखण्डधारया आज्याहुतिं ओं प्रजापतये स्वाहा इति जुहोति । प्रजापतय इदं न मम इति त्यागः । पुनः दर्व्याज्यमादाय नैर्ऋतकोणमारभ्य ऐशानकोणपर्यन्तं ओं प्रजापतये स्वाहा इति जुहोति । प्रजापतय इदं न मम इति त्यागः । दर्व्याज्येन ओं अग्नये स्वाहा इत्यग्नावुत्तरभागे जुहोति । अग्नय इदं न मम इति त्यागः । ओं सोमाय स्वाहा इत्यग्नौ दक्षिणभागे जुहोति । सोमायेदं न ममेति त्यागः । अस्मिन्काले कुमार आचार्यस्य दक्षिणतः कृताञ्जलिरार्याभिमुखस्तिष्ठन्नाचार्यं प्रार्थयते ब्रह्मचर्यमागां ब्रह्मचार्यसानि-इति । आचार्यः ओं तथास्त्वित्याह । तत आचार्यः कुमाराय यज्ञोपवीतं दद्यात् । कुमार आचार्यदत्तं यज्ञोपवीतं गृहीत्वा ओं यज्ञोपवीतं परमं पवित्रं प्रजापतेर्य-त्सहजं पुरस्तात् । आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः । इति मन्त्रेण२ धारयेत् । तत आचार्यः कुमारमाह । ओं सविताचार्यस्तव अमुकनामन् । इति । ओं मम हृदये३ हृदयं ते अस्तु । मम चित्तं चित्तेनान्वेहि । मम वाचमेकमना जुषस्व । बृहस्प-तिस्त्वा नियुनक्तु मह्यम् । इति च । अथैनं सूर्यमुदीक्षयति । ओं तच्चक्षुर्देवहितं४ पुरस्ताच्छु-क्रमुच्चरत् । पश्येम शरदः शतं जीवेम शरदः शतं नन्दाम शरदः शतं मोदाम शरदः शतं भवाम शरदः शतं शृणवाम शरदः शतं प्रब्रवाम शरदः शतमजीताः स्याम शरदः शतं ज्योक् च सूर्यं दृशे । इति । तत आचार्यः सवितारं प्रार्थयते । ओं सूर्य एष ते पुत्रस्तं ते परिददामि इति । अथ कुमारं देवताभ्यः परिददाति । ओं५ प्रजापतये त्वा परिददामि । देवाय सवित्रे त्वा परिददामि । अद्भ्यस्त्वौषधीभ्यः परिददामि । द्यावा-पृथिवीभ्यां त्वा परिददामि । विश्वेभ्यस्त्वा देवेभ्यः परिददामि । सर्वेभ्यस्त्वा भूतेभ्यः परिद-दाम्यरिष्ट्यै । इति । तत आचार्यः स्वासन उपविश्य स्वदक्षिणस्थकुमारेणान्वारब्ध आहुतिचतुष्टयं जुहोति । ओं भूः स्वाहा । अग्नय इदं न मम । ओं भुवः स्वाहा । वायव इदं न मम । ओं स्वः स्वाहा । सूर्यायेदं न मम । ओं प्रजापतये स्वाहा । प्रजापतय इदं न मम । इति । ततः कुमारोऽग्निं परिसमूह्य पर्युक्ष्यग्नौ समिधमादध्यात् । ओं अग्नये६ समिधमाहार्षं बृहते जातवेदसे । तया त्वमग्ने वर्धस्व समिधा ब्रह्मणा वयं स्वाहा । इति ।

v3.c54.13

१ **आश्व. गृ. १. १०. १२; हिरण्य. गृ. १. २. ११**

v3.c54.14

२ **बौधायनगृह्य २. ५. ७.**

v3.c54.15

३ **आश्व. गृ. १. २१. ७; हिरण्य. गृ. १. ५. ११; पारस्करगृह्य २. २.**

v3.c54.16

४ **वाज. सं. ३६. २४; तै. आरण्यक ४. ४२. ५.**

v3.c54.17

५ **शतपथब्रा. ११. ५. ४. १-४; पारस्करगृह्य २. २.**

v3.c54.18

६ **आश्व. गृ. १. २१. १; हिरण्य. गृ. १. ७. २.**

v3.c54.19

पुनः परिसमूहनपर्युक्षणे कुर्यात् । ततो दक्षिणमार्द्रं पाणिमग्नौ निष्टप्य तेन स्वमुखं निमार्ष्टि । ओं तेजसा७ मा समनज्मीति । अथाग्निमुपतिष्ठते । ओं मयि८ मेधां मयि प्रजां मय्यग्निस्तेजो दधातु । मयि मेधां मयि प्रजां मयीन्द्र इन्द्रियं दधातु । मयि मेधां मयि प्रजां मयि सूर्यो भ्राजो दधातु । ओं यत्ते अग्ने तेजस्तेनाहं तेजस्वी भूयासम् । यत्ते अग्ने वर्चस्तेनाहं वर्चस्वी भूयासम् । यत्ते अग्ने हरस्तेनाहं हरस्वी भूयासमिति ।

v3.c54.20

७ आश्व. गृ. १. २१. २.

v3.c54.21

८ तै. सं. ३.१. १. २; ३. ५. ३. २.

v3.c54.22

अथाचार्यो दर्व्या आज्येन स्विष्टकृतं जुहोति । ओं यदस्य९ कर्मणोत्यरीरिचं यद्वा न्यूनमिहाकरम् । अग्निष्टत् स्विष्टकृद् विद्वान् सर्वं स्विष्टं सुहुतं करोतु मे । अग्नये१० स्विष्टकृते सुहुतहुते सर्वहुत आहुतीनां कामानां समर्धयित्रे स्वाहा । अग्नये स्विष्टकृते इदं न ममेति त्यागः । इध्मबन्धनरज्जुमग्नावभ्याधाय संस्रावं जुहोति । ओं विश्वेभ्यो देवेभ्यः स्वाहेति । विश्वेभ्यो देवेभ्य इदं न ममेति त्यागः । कुमारेण सह तिष्ठन्नुपतिष्ठते ओं११ च मे स्वरश्च मे यज्ञोप च ते नमश्च । यत्ते न्यूनं तस्मै त उप यत्तेऽतिरिक्तं तस्मै ते नमः । श्रद्धां मेधां यशः प्रज्ञां विद्यां बुद्धिं श्रियं बलम् । आयुष्यं तेज आरोग्यं देहि मे हव्यवाहन इति ।

v3.c54.23

९ आश्व. गृ. १. १०. २२; हिरण्य. गृ. १. ३. ७.

v3.c54.24

१० आपस्तम्बौयमन्त्रपाठ २. १८. ३१; आश्व. गृ. १. १०. २२.

v3.c54.25

११ आश्व. श्रौ. १. ११. १५.

v3.c54.26

ततः स्थण्डिलादुत्तरतः प्रशस्ते स्थल आचार्य उपविशति । कुमार आचार्यस्य पादयोः शिरसा प्रणम्य कृताञ्जलिस्तिष्ठन् प्रार्थयते । सावित्रीं भो अनुब्रूहीति । आचार्यः ओं तथा इत्युक्त्वा आत्मनः पुरस्तात्कुमारं स्वाभिमुखं कृतब्रह्माञ्जलिमुपवेश्य गायत्र्या गाथिनो विश्वामित्र ऋषिः सविता देवता गायत्री छन्दः । ओं भूर्भुवः स्वः । तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ॥ इति सावित्री-मन्त्रं१२ त्रिवारमुपदिशति ।

v3.c54.27

१२ ऋ. सं. ३. ६२. १०, तै. सं. १. ५. ६. ४, वाज. सं. ३. ३५.

v3.c54.28

अथ व्रतोपदेशं कुर्यात् । ब्रह्मचार्यसि१३ । अद्भिः शुष्यस्व कर्म कुरु । दिवा मा स्वाप्सीः । सत्यं वद१४ । धर्मं चर । स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम् । मातृदेवो भव । पितृदेवो भव । आचार्यदेवो भव । राष्ट्रदेवो भव । बलमुपास्स्वेति ।

v3.c54.29

१३ शतपथब्रा. ११. ४. ५.

v3.c54.30

१४ तै. उपनिषद् १. ११.

v3.c54.31

ततः कुमारः पूर्वाभिमुखस्तिष्ठन् मेधामन्त्रौ१५ पठति ।

v3.c54.32

१५ तै. आरण्यक १०. ३९. १.

v3.c54.33

मेधा देवी जुषमाणा न आगाद्विश्वाची भद्रा सुमनस्यमाना ।
त्वया जुष्टा जुषमाणा दुरुक्तान् बृहद्वदेम विदथे सुवीराः ॥
त्वया जुष्ट ऋषिर्भवति देवि त्वया ब्रह्म गतश्रीरुत त्वया ॥
त्वया जुष्टश्चित्रं विन्दते वसु सा नो जुषस्व द्रविणेन मेधे ॥

v3.c54.34

ततः पिता अग्नेः पश्चादुपविश्य स्वदक्षिणतः पत्नीं तद्दक्षिणतश्च ब्रह्मचारिणमुपवेश्य कर्मसमाप्तिं सोदकं ब्रूयात् । अनेनोपनयनाख्येन कर्मणा भगवान् परमेश्वरः प्रीयताम् । ओं तत् सत् । इति । द्विरामचामेत् ।

v3.c54.35

ततः कुमारो ब्राह्मणान्नमेत् । ब्राह्मणाश्च ओं ब्रह्मचर्येण१६ तपसा राजा राष्ट्रं हि रक्षति । आचार्यो ब्रह्मचर्येण ब्रह्मचारिणमिच्छते ॥ ब्रह्मचारी ब्रह्म भ्राजद् बिभर्ति तस्मिन्देवा अधि विश्वे समोताः । प्राणापानौ जनयन्नाद् व्यानं वाचं मनो हृदयं ब्रह्म मेधाम् । इति मन्त्रैराशिषं दत्त्वा मन्त्राक्षतान् दद्युः ।

v3.c54.36

१६ अथर्ववेद ११. ५. १७ and २४.
- 2 and 3. Āśv. says that Agastis have optionally these two प्रवरs, while Āp. and Sat. state that they have only one प्रवर viz. Āgastya or three, viz. No. 3.
8. Āśv. and Āp. agree but Āśv. reads पौरुकुत्स्य.
9. Āp. (24. 6) and Sat. agree. According to Āśv. this is the प्रवर of भरद्वाजs and अग्निवेश्यs.
10. Āśv., Āp. and Sat. say that this is the प्रवर of ऋक्षs, but Āp. and Sat. add that optionally they are त्रिमवर viz आङ्गिरसबान्दनमातवचसेति.

v3.c54.37

PAGE 314, NOTE 746 (धर्मनिर्णयमण्डलसंकलिता संध्या )—आचमन-प्राणायामयोरनन्तरं श्रीपरमेश्वरप्रीत्यर्थं प्रातःसंध्योपास्ति ( सायंसंध्योपास्तिमिति वा यथाकालं ) करिष्य इति संकल्पं कुर्यात् । ( ततः अर्घ्यप्रदानम् ) ओं भूर्भुवः स्वः । तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् । श्रीसूर्यायेदमर्घ्यं दत्तं न मम । इत्युक्त्वा सूर्याभिमुखं जलमुत्क्षिपेत् त्रिवारम् । ( तदनन्तरं जपः ) ओं भूर्भुवः स्वः । तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् । इति दशकृत्वो जपेत् । ( ततः सूर्योपस्थानम् ) पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् समूह तेजः । यत्ते रूपं कल्याणतमं तत्ते पश्यामि । योसावसौ पुरुषः सोहमस्मि । ( अभिवादनम् ) । अमुकप्रवरान्वित-अमुकगोत्रोत्पन्नः अमुकवेदस्य अमुकशाखा-अमुकसूत्राध्यायी अमुकशर्माहंमभिवादये भोः । अनेन संध्योपासनाख्येन कर्मणा भगवान् श्रीपरमेश्वरः प्रीयताम् । ओं तत्सत् ।

v3.c54.38

Page 455, NOTE 1075—(सापिण्ड्य)—असपिण्डां समानः एकः पिण्डो देहो यस्याः सा सपिण्डा न सपिण्डा असपिण्डा ताम् । सपिण्डता च एकशरीरावयवान्वयेन भवति । तथाहि पुत्रस्य पितृशरीरावयवान्वयेन पित्रा सह । एवं पितामहादिभिरपि पितृद्वारेण तच्छरीरावयवान्वयात् । एवं मातृशरीरावयवान्वयेन मात्रा । तथा मातामहादिभिरपि मातृद्वारेण । तथा मातृष्वसृमातुलादिभिरप्येकशरीरावयवान्वयात् । तथा पितृव्यपितृष्वस्त्रादिभिरपि । तथा पत्या सह पत्न्या एकशरीरारम्भकतया । एवं भ्रातृभार्याणामपि परस्परमेकशरीरारब्धैः सहैकशरीरारम्भकत्वेन । एवं यत्र यत्र सपिण्डशब्दस्तत्र तत्र साक्षात्परंपरया वा एकशरीरावयवान्वयो बोद्धव्यः । ... अवश्यं चैकशरीरावयवान्वयेन सापिण्ड्यं वर्णनीयम् । 'आत्मा हि जज्ञ आत्मनः' इत्यादिश्रुतेः । तथा 'प्रजामनु प्रजायसे' इति च । 'स एवार्थं विरूढः प्रत्यक्षेणोपलभ्यते' इत्यापस्तम्बवचनाच्च । तथा गर्भोपनिषदि 'एतत् षाट्कौशिकं शरीरं त्रीणि पितृतस्त्रीणि मातृतोऽस्थिस्नायुमज्जानः पितृतस्त्वङ्मांसरुधिराणि मातृतः' इति तत्र तत्रावयवान्वयप्रतिपादनात् ।...असपिण्डामित्यत्रैकशरीरावयवान्वयद्वारेण साक्षात्परंपरया वा सापिण्ड्यमुक्तं तच्च सर्वत्र सर्वस्य यथाकथंचिदनादौ संसारे संभवतीत्यतिप्रसङ्ग इत्यत आह । पञ्चमात्सप्तमादूर्ध्वं मातृतः पितृतस्तथा । मातृतो मातुः संताने पञ्चमादूर्ध्वं पितृतः पितु

v3.c54.39

संताने सप्तमादूर्ध्वं सापिण्ड्यं निवर्तत इति शेषः। अतश्चायं सपिण्डशब्दोऽवयवशक्त्या सर्वत्र वर्तृमानोऽपि निर्मन्थ्यपङ्कजादिशब्दवन्नियतविषय एव । तथा च पित्रादयः षट्सपिण्डाः पुत्रादयश्च षट् आत्मा च सप्तमः । संतानभेदेपि यतः संतानभेदस्तमादाय गणयेद्यावत्सप्तम इति सर्वत्र योजनीयम् । तथा च मातरमारभ्य तत्पितृपितामहादिगणनार्या पञ्चमसंतानवर्तिनी मातुतः पञ्चमीत्युपचर्यते । एवं पितरमारभ्य तत्पित्रादिगणनार्या सप्तमपुरुषसंतानवर्तिनी पितुतः सप्तमीति । मिताक्षरा on या. I. 52-53.

v3.c54.40

PAGE 490 NOTE 1144—The 49 pravara groups among which the hundreds of gotras enumerated in the Baud. Śr. (pravarapraśna 1-54) are assigned are given below, being arranged alphabetically from the first name in the group. The sections of the pravarapraśna ( in Dr. Caland's edition ) have been indicated in each case. Brief foot-notes are added showing only the important divergences in the texts of Āśv. Śr. ( XII. 6. 10-15 ), Āp. Śr. ( 24. 5-10 ) and Satyāṣāḍha-śrauta ( 21. 3 ). It should not be forgotten that the Mss and printed editions present various forms of the same name.

v3.c54.41

| प्रवर | गोत्र |
| 1 आगस्त्य-दार्ढच्युत-याज्ञवाहेति | यज्ञवाह ( अगस्ति )-बौ. 51. |
| 2 आगस्त्य-दार्ढच्युत-सौमवाहेति | सोमवाह ( अगस्ति )-बौ. 50. |
| 3 आगस्त्य-दार्ढच्युतैध्मवाहेति | अगस्ति-बौ. 49. |
| 4 आङ्गिरस-गौतम-कारेणुपालेति | कारेणुपालि गौतम (आङ्गिरस)-बौ. 15. |
| 5 आङ्गिरस-गौतम-वामदेवेति | वामदेव ( आङ्गिरस ) बौ. 16. |
| 6 आङ्गिरस-गौतम-शारद्वतेति | शारद्वत गौतम ( आङ्गिरस )-बौ. 11. |
| 7 आङ्गिरस-गौतमौशनसेति | औशनस गौतम ( आङ्गिरस )-बौ. 14. |
| 8 आङ्गिरस-पौरुकुत्स-त्रासदस्यवेति | विष्णुवृद्ध-बौ. 20. |
| 9 आङ्गिरस-बार्हस्पत्य-भारद्वाजेति | भरद्वाज ( आङ्गिरस )-बौ. 17. |
| 10 आङ्गिरस-बार्हस्पत्य-भारद्वाज-वान्दन-मातवचसेति | रौक्षायण ( भरद्वाज )-बौ. 18. |

v3.c54.42

| प्रवर | गोत्र |
| .11 & आङ्गिरस-बार्हस्पत्य-भारद्वाज-शैन्य-गार्ग्येति / & आङ्गिरस-शैन्य-गार्ग्येति | गर्ग (भरद्वाज)-बौ. 19. |
| 12 आङ्गिरस-भार्म्यश्व-मौद्गल्येति | मुद्गल-बौ. 25. |
| 13 आङ्गिरस-वैरूप-राथीतेरेति | रथीतर-बौ. 24. |
| 14 आङ्गिरस-साङ्कृत्य-गौरिवीतेति | संकृति-बौ. 23. |
| 15 आङ्गिरसाजमीढ-काण्वेति | कण्व-बौ. 21. |
| 16 आङ्गिरसामहय्यवौरुक्षयेति | कपि-बौ. 26. |
| 17 आङ्गिरसाम्बरीष-यौवनाश्वेति | हरित-बौ. 22. |
| 18 आङ्गिरसायास्य-गौतमेति | आयास्य गौतम (आङ्गिरस)-बौ. 10. |
| 19 आङ्गिरसौचथ्य-काक्षीवत-गौतम-कौमण्डेति | कौमण्ड गौतम (आङ्गिरस)-बौ. 12. |
| 20 आङ्गिरसौचथ्य-काक्षीवत-गौतम-दीर्घतमसेति | दीर्घतमस् गौतम (आङ्गिरस)-बौ. 13. |
| 21 आत्रेयार्चनानस-गाविष्ठिरेति | गविष्ठिर (अत्रि)-बौ. 29. |
| 22 आत्रेयार्चनानस-पौर्वातिथेति | मुद्गल (अत्रि)-बौ. 30. |

v3.c54.43

11. Āśv. agrees but has the order भारद्वाजगार्ग्यशैन्येति and allows optionally three pravaras viz. आङ्गिरसशैन्यगार्ग्येति, while Āp. gives the प्रवर as आङ्गिरसगार्ग्यशैन्येति and also, according to some, भरद्वाजगार्ग्यशैन्येति.

v3.c54.44

12. Āśv. and Āp. agree, but give another optional प्रवर according to some, viz तार्क्ष्यभार्म्याश्वमौद्गल्येति.

v3.c54.45

14. According to बौ. this is the प्रवर of संकृति and 16 others, while Āśv. reads it as आङ्गिरसगौरिवितसाङ्कृत्येति, states that optionally the प्रवर is शाक्त्यगौरिपीतसाङ्कृत्येति and mentions only सङ्कृति and four others as having this प्रवर.

v3.c54.46

15. Āśv. agrees, but states that according to some the प्रवर is ‘आङ्गिरसौरकाण्वेति’; Āp. states this as the प्रवर of अजमीढाः कण्वाः.

v3.c54.47

16. आप. reads ‘आङ्गिरसामहीयवौरुक्षयेति,’ आश्व० ‘आङ्गिरसामहीयवौरुक्षयसेति,’ सत्याषाढ ‘आङ्गिरसमाहय्यवौरुक्षयेति’

v3.c54.48

17. Āśv. agrees, but according to बौ. the Haritas have 19 subdivisions, while आश्व. mentions only हरित, कुत्स, पिङ्ग, शङ्ख, दर्भ, भौमगव as having this प्रवर group and adds that according to some the प्रवर is मान्धात्राम्बरीषयौवनाश्वेति. Āp. accepts this option of प्रवर.

v3.c54.49

18. This is the प्रवर of गौतम according to Āśv. and of आयास्य गौतमs (a subdivision of आङ्गिरसगण) according to Āp. and Sat.

v3.c54.50

20. According to Āśv. the प्रवर of दीर्घतमस् is आङ्गिरसौचथ्यदैर्घतमसेति.

v3.c54.51

21. Āp. and Sat. agree, but Āśv, reads ‘आत्रेय-गाविष्ठिरपौर्वातिथेति.’

v3.c54.52

| प्रवर | गोत्र |
| 23 आत्रेयार्चनानस-वाद्भूतकेति वाद्भुतक ( अत्रि )-बौ. 28. | |
| 24 आत्रेयार्चनानस-श्यावाश्वेति अत्रि-बौ. 27. | |
| 25 काश्यपावत्सार-नैध्रुवेति निध्रुवकश्यप-बौ. 41. | |
| 26 काश्यपावत्साररैभेति रेभकश्यप-बौ. 42. | |
| 27 काश्यपावत्सार-शाण्डिलेति काश्यपावत्सारासितेति काश्यपावत्सारदैवलेति शाण्डिलासितदैवलेति | } शण्डिल-बौ. 43. |
| 28 काश्यपावत्सार-वासिष्ठेति काश्यपावत्सारासितेति | } लौकाक्षि ( कश्यप )-बौ. 44. |
| 29 गार्त्समदेति (or शौनकेति) शुनकगार्त्समद (भृगु)-बौ. 9. | |
| 30 भार्गव-च्यावन-आप्नवान-और्व-जामदग्न्येति वत्स (भृगु)-बौ. 3. | |
| 31 भार्गवच्यावनाप्नवानौर्वे-वैदेति विद (भृगु)-बौ. 4. | |
| 32 भार्गवच्यावनाप्नवान-आर्ष्टिषेण-अनूपेति आर्ष्टिषेण ( भृगु )-बौ. 5. | |
| 33 भार्गव-वाध्र्यश्व-दैवोदासेति मित्रयु ( भृगु )-बौ. 7. | |
| 34 भार्गव-वैतहव्य-सावेतसेति यस्क ( भृगु )-बौ. 6. | |

v3.c54.53

²⁴ Āśv., Āp., Sat. agree.

v3.c54.54

²⁵ Āśv. agrees, but आप. and Sat. give this as the प्रवर of कश्यपs ( without qualification ).

v3.c54.55

²⁶ Sat., Āp. and Āśv. agree, but Sat. reads ॰रैभ्येति.

v3.c54.56

²⁷ According to Āśv. काश्यपावत्सारासितेति is the प्रवर of कश्यपs in general and the प्रवर of शण्डिलs is either शाण्डिलासितदैवलेति or काश्यपासितदैवलेति. Āp. and Sat. state that Śāṇḍilas have either two pravara sages viz. दैवलासितेति or three viz. काश्यपदेवलासितेति.

v3.c54.57

²⁹ According to Āśv. the Śunakas have either one pravara viz. Gṛtsamada or three pravaras भार्गव-शौनहोत्रगार्त्समदेति. Āp. and Sat. state that the Gārtsamada Śunakas have only one pravara 'Gārtsamada' (and there is no option).

v3.c54.58

³⁰ Āśv., Āp. and Sat. say that this is the प्रवर of जामदग्न्यवत्स (under भृगुगण), Āśv. states that अजामदग्न्यवत्सs are त्रिप्रवर viz. भार्गवच्यावनाप्नवानेति and Āp. Sat. also give an optional प्रवर of three sages according to some, viz. भार्गवौर्वजामदग्न्येति.

v3.c54.59

³¹ Āśv. reads वैद and विद.

v3.c54.60

³² Āśv., Āp., Sat. agree, but Āp. and Sat. state that according to some आर्ष्टिषेणs are त्रिप्रवर, viz. भार्गवार्ष्टिषेणानूपेति.

v3.c54.61

³⁴ Āp., Sat. say this is the प्रवर of वीतहव्यs that have यास्क, वाधूल, मौन, मौक as subdivisions according to Āp. and read सावेदस. Āśv. states this is the प्रवर of यस्क-वाधूल-मौन-मौक-शार्कराक्षि-साष्ठि-सावर्ण-शालङ्कायन-जैमिनि-देवल्यायनानां &c.

v3.c54.62

| प्रवर | गोत्रं |
| 35 भार्गव-वैन्य-पार्थेति वैन्यपार्थबाष्कल ( भृगु. )–बौ. 8. | |
| 36 वासिष्ठेति वसिष्ठ—बौ. 45. | |
| 37 वसिष्ठमैत्रावरुणकौण्डिन्येति कुण्डिन ( वसिष्ठ ) बौ. 46. | |
| 38 वासिष्ठ-शाक्त्य-पाराशर्येति पराशर ( वसिष्ठ )–बौ. 48. | |
| 39 वासिष्ठ-ऐन्द्रप्रमद-आभरद्वसवति उपमन्यु ( वसिष्ठ )–बौ. 47. | |
| 40 वैश्वामित्रकात्यात्कीलेति कत ( विश्वामित्र )–बौ. 35. | |
| 41 वैश्वामित्र-दैवरातौदलेति कुशिक ( विश्वामित्र )–बौ. 31. | |
| 42 वैश्वामित्र-दैवश्रवस-दैवतरसेति श्रौमतकामक़ायन (विश्वामित्र)–बौ. 33. | |
| 43 वैश्वामित्र-पौरणेति पूरण and वारिधापयन्त (विश्वामित्र)-बौ. 40. | |
| 44 वैश्वामित्र-माधुच्छन्दस-धानंजयेति धनञ्जय ( विश्वामित्र )–बौ. 36. | |
| 45 वैश्वामित्र-माधुच्छन्दस-आजेति अज ( विश्वामित्र )–बौ. 37. | |
| 46 वैश्वामित्र-रौक्षक-रेणवेति रौक्षक and रैणव ( विश्वामित्र )–बौ. 34. | |
| 47 वैश्वामित्राघमर्षण-कौशिकेति अघमर्षण कुशिक (विश्वामित्र)–बौ. 38. | |
| 48 वैश्वामित्राष्टक-लौहितेति लोहित ( विश्वामित्र ) बौ. 32. | |
| 49 वैश्वामित्रैन्द्र-कौशिकेति इन्द्रकौशिक ( विश्वामित्र )–बौ. 39. | |
| शाण्डिलासित-दैवलेति शण्डिल कश्यप—बौ. 43. Vide No. 27 above. | |
| शौनकेति शौनकगात्समद ( भृगु )–बौ. 9. Vide No. 29 above. | |

v3.c54.63

35. According to Āśv. this is the प्रवर of Saitas ( शैतानां ) and of वैन्य पार्थs ( no subdivisions named ) according to Āp. and Sat.

v3.c54.64

36-38. Āśv., Āp. and Sat. agree, but they say that the Parāśaras ( among Vasiṣṭhas ) have the प्रवर stated in 38, while Āp. and Sat. further state that according to some Vāsiṣṭhas have three प्रवरs viz. वासिष्ठैन्द्र-प्रमदाभरद्वसू (No. 39). Āśv. and Āp. state that Kuṇḍinas have the same प्रवर as No. 37. Āśv. says that the प्रवर of उपमन्यु is वासिष्ठभरद्वस्विव्द्रप्रमद.

v3.c54.65

39. Sat. agrees but reads प्रमदाभरद्वसो इति

v3.c54.66

40. Āśv., Āp., Sat. agree, but Sat. reads ॰कात्याकिलेति.

v3.c54.67

41. Āśv., Āp., Sat. agree.

v3.c54.68

42. Āś.v, Āp. agree.

v3.c54.69

43. Āp. and Sat. agree, but Āśv. states that their प्रवर is वैश्वामित्रदैव-रात-पौरणेति.

v3.c54.70

44. Āśv., Āp., Sat. agree, but Āp. remarks that the Mādhuochand-asas are Dhānañjayas.

v3.c54.71

45. Āśv., Āp. agree,, but both read ॰ माधुच्छन्दसाज्येति.

v3.c54.72

47. Āśv., Āp., Sat. agree.

v3.c54.73

PAGE 527 NOTE 1230 (विवाहविधि)-आश्व. गृ. I. 7. 3-22—पश्चादग्नेर्दृषदश्मानं प्रतिष्ठाप्योत्तरपुरस्तादुदकुम्भं समन्वारब्धायां हुत्वा तिष्ठन्प्रत्यङ्मुखः प्राङ्मुख्या आसीनाया गृभ्णामि ते सौभगत्वाय हस्तमित्यङ्गुष्ठमेव गृह्णीयाद्यदि कामयीत पुमांस एव मे पुत्रा जायेरन्निति । अङ्गुलीरेव स्त्रीकामः । रोमान्ते हस्तं साङ्गुष्ठमुभयकामः । प्रदक्षिणमग्निमुदकुम्भं च त्रिः परिणयञ्जपति । अमोहमस्मि सा त्वं सा त्वमस्यमोऽहं द्यौरहं पृथिवी त्वं सामाहमृक्त्वं तावेह विवहावहै । प्रजां प्रजनयावहै संप्रियौ रोचिष्णू सुमनस्यमानौ जीवेव शरदः शतमिति । परिणीय परिणीयाश्मानमारोहयति । इममश्मानमारोहाश्मेव त्वं स्थिरा भव । सहस्व पृतनायतोऽभितिष्ठ पृतन्यत इति । वध्वञ्जलावुपस्तीर्य भ्राता भ्रातृस्थानो वा द्विर्लाजानावपति । त्रिर्जा मदन्त्यानाम् । प्रत्यभिघार्य हविः । अवत्तं च । एषोऽवदानधर्मः । अर्यमणं नु देवं कन्या अग्निमयक्षत । स इमां देवो अर्यमा प्रेतो मुञ्चातु नामुतः स्वाहा । वरुणं नु देवं कन्या अग्निमयक्षत । स इमां देवो वरुणः प्रेतो मुञ्चातु नामुतः स्वाहा । पूषणं नु देवं कन्या अग्निमयक्षत । स इमां देवः पूषा प्रेतो मुञ्चातु नामुतः स्वाहेत्यविच्छिन्दत्यञ्जलिं सुचेव जुहुयात् । अपरणीय शूर्पपुटेनाभ्यात्मं तूष्णीं चतुर्थम् । ओप्योप्य हैके लाजान् परिणयन्ति तथोत्तमे आहुती न संनिपततः । अथास्यै शिखे विमुञ्चति यदि कृते भवतः । ऊर्णास्तुके के शपक्षयोर्बद्धे भवतः । प्र त्वा मुञ्चामि वरुणस्य पाशादिति । उत्तरामुत्तरया । अथैनामपराजितायां दिशि सप्त पदान्यभ्युत्क्रामयतीष एकपद्यूर्जे द्विपदी रायस्पोषाय त्रिपदी मायोभव्याय चतुष्पदी प्रजाभ्यः पञ्चपद्यृतुभ्यः षट्पदी सखा सप्तपदी भव सा मामनुव्रता भव । पुत्रांन्विन्दावहै बहूंस्ते सन्तु जरदष्टय इति । उभयोः संनिधाय शिरसी उदकुम्भेनावसिच्य । ब्राह्मण्यश्च वृद्धाया जीवपत्न्य जीवप्रजाया अगार एतां रात्रिं नयन्ति । ध्रुवमरुन्धतीं सप्तऋषीनीति दृष्ट्वा । वाचं विसृजेत जीवपत्नीं प्रजां विन्देयेति ।

v3.c54.74

PAGE 543 NOTE 1258 (मधुपर्क). आश्व. गृ. I. 24. 5-26--दधानि मध्वानीय । सर्पिर्वा मध्वलाभे । विष्टरः पाद्यमर्घ्यमाचमनीयं मधुपर्को गौरित्येतेषां त्रिखिरेकैकं वेदयन्ते । अहं वर्ष्म सजातानां विद्युतामिव सूर्यः । इदं तमधितिष्ठामि यो मा कश्चाभिदासतीत्युदग्रये विष्टर उपविशेत् । आक्रम्य वा । पादौ प्रक्षालापयीत दक्षिणमग्रे ब्राह्मणाय प्रयच्छेत् । सव्यं शूद्राय । प्रक्षालितपादोऽर्घ्यमञ्जलिना प्रतिगृह्य । अथाचमनीयेनान्वाचामति अमृतोपस्तरणमसीति । मधुपर्कमाह्रियमाणमीक्षेत मित्रस्य त्वा चक्षुषा प्रतीक्ष इति । देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामीति तदञ्जलिना प्रतिगृह्य मधु वाता ऋतायत इति तृचेनावेक्ष्यानामिकया चाङ्गुष्ठेन च त्रिः प्रदक्षिणमालोड्य वसवस्त्वा गायत्रेण छन्दसा भक्षयन्विति पुरस्तान्निमार्टि । रुद्रास्त्वा त्रैष्टुभेन छन्दसा भक्षयन्विति दक्षिणतः आदित्यास्त्वा जागतेन छन्दसा भक्षयन्विति पश्चात् विश्वे त्वा देवा आनुष्टुभेन छन्दसा भक्षयन्वित्युत्तरतः भूतेभ्यस्त्वेति मध्यात्त्रिुरुद्गृह्य । विराजो दोहोऽसीति प्रथमं प्राश्नीयात् । विराजो दोहमशीयेति द्वितीयं मयि दोहः पद्यायै विराज इति तृतीयम् । न सर्वम् । न तृप्तिं गच्छेत् । ब्राह्मणायाोदङ्मुङ्खोच्छिष्टं प्रयच्छेद्दलाभेऽप्सु । सर्वं वा । अथाचमनीयेनान्वाचामति अमृतापिधानमसीति । सत्यं यशः श्रीर्मयि श्रीः श्रयतामिति द्वितीयम् । आचान्तोदकाय गां वेदयन्ते । हतो मे पाप्मा पाप्मा मे हत इति जपित्वो

v3.c54.75

कुरुतेति कारयिष्यन् । माता रुद्राणां दुहिता वसूनामिति जपित्वोत्सृजतेत्युत्स्रक्ष्यन् । नामांसो मधुपर्को भवति ।

v3.c54.76

<PAGE 633 NOTE 1484>—‘अद्य अमुके मासि अमुके पक्षेऽमुकतिथौ अमुकगोत्रा श्रीमती अमुकी देवी अरुन्धतीसमाचारत्वपूर्वक-स्वर्गलोकमहीयमानत्वमानवाधिकरणकलोमसमासंख्यय्याब्दावच्छिन्नस्वर्गवासभर्तृसहितमोदमानत्व-मातृपितृश्वशुरकुलत्रयपूतत्व-चतुर्दशेन्द्रावच्छिन्नकालाधिकरणकाप्सरोगणस्तूयमानत्व-पतिसहितक्रीडमानत्वब्रह्मघ्घ्रकृतघ्घ्रमित्रघ्घ्रपतिपूतत्वकामा भर्तृज्वलितचितारोहणमहं करिष्ये इति संकल्प्य अष्टौ लोकपाला आदित्यचन्द्राानिलाग्नयाकाशभूमिजलहृदयावस्थितान्तर्यामिपुरुषयमदिनरात्रिसंध्याधर्मा यूयं साक्षिणो भवत ज्वलितचितारोहणेन भर्तृशरीरानुगमनमहं करोमि इत्युच्चार्य ज्वलिताग्निं त्रिः प्रदक्षिणीकृत्य ओमिमा नारी ... अनस्वरो अनमीरा ... जलयोनिमग्ने इति ऋग्वेदमन्त्रोक्ते आंमिमाः पतिव्रताः पुण्याः स्त्रियो या याः सुशोभनाः । सह भर्तृशरीरेण संविशन्तु विभावसुम् । इति पौराणिके मन्त्रे च ब्राह्मणेन पठिते नमो नम इत्युच्चार्य ज्वलितां समारोहेत् । शुद्धितत्त्व pp. 242-43. When it is अनुमरण the संकल्प is ‘ज्वलिताप्रवेशेन भर्तृनुमरणमहं करिष्ये’ and she says भर्तृनुमरणं करिष्ये for भर्तृशरीरा ... करोमि. The लोकपालs and others are said to be witnesses following the verse ‘आदित्यचन्द्रावनिलोनलश्च’ in Ādiparva 74. 30. Vide Max Müller’s ‘Chips from a German workshop’ vol. II. pp. 34-36, Prof. H. H. Wilson’s Works vol. II. p. 275.

v3.c54.77

<PAGE 699 NOTE 1673>—अथ सूना व्याख्यास्यामः । जङ्गमस्थावरादीन् प्राणिनः सूदयन्तीति सूनाः । ताः पञ्चविधा भवन्ति । द्रुतावतरणावगाहन-विक्षोभणविक्षेपणापूतग्रहणयानादिभिराद्यां कुर्वन्ति । अवेलाविस्पष्टद्रुतगमनाक्रमणादिभिर्द्वितीयाम् । आञ्जनग्रहणबन्धनकुट्टनोत्पाट्नादिभिस्तृतीयाम् । आक्रमणघर्षणपेषणादिभिश्चतुर्थीम् । आदीपनतापनस्वेदनभर्जनपचनादिभिः पञ्चमीम् । ता एताः पञ्चसूना निरययोनीरहरहः प्रजाः कुर्वन्ति । अग्निगुरुशुश्रूषास्वाध्यायैरादितः सूनात्रयं ब्रह्मचारिणः पावयन्ति । पञ्च पञ्चभिः पाकयज्ञैर्गृहिणवानप्रस्थाः पावयन्ति । पवित्रज्ञानध्यानाैर्भैक्षवः सूनाद्वयं पावयन्ति । अनिर्ज्यो दन्तसूनायाः । इति । हारीत quoted in आह्निकप्रकाश p. 389. The words अथ सूना व्या० ... सूदयन्तीतिसूनाः are quoted by स्मृतिच० I. p. 208 also. The आह्निकप्रकाश p. 390 explains ‘प्रथमसूनाद्वयस्यैव संन्यासिनः संभवात् ।...... दन्तसूना दन्तैश्चर्वणादिभिर्बीजाङ्कुरादिहिंसा । तस्य उक्तैर्न शोधनमित्यर्थः । एवं च बीजभोजननिषेधोऽपि दन्तैर्बीजहिंसादिपर एव । तेन वह्निपक्वभ्रष्टबीजादेर्भक्षणे न दोषः । अङ्कुरिणोऽङ्कुरयोग्यस्थावरबीजादेर्भक्षणे परं दोष इति ।’

v3.c54.78

<PAGE 701 NOTE 1679>—अथ ब्रह्मयज्ञः । स्वाध्यायो वै ब्रह्मयज्ञस्तस्य वा एतस्य ब्रह्मयज्ञस्य वागेव जुहूर्मन उपभृच्चक्षुर्ध्रुवा मेधा स्रुवः सत्यमवभृथः स्वर्गो लोक उदयनं यावन्तं ह वा इमां पृथिवीं वित्तेन पूर्णां ददँल्लोकं जयति त्रिस्तावन्तं जयति भूयांसं

v3.c54.79

वा॑क्षय्यं॒ य ए॒वं वि॒द्वानह॑रहः स्वा॒ध्याय॑मधी॒ते तस्मा॑त्स्वाध्या॒योऽध्ये॑तव्यः ॥ पयआहुतयो वा एता देवानां यदृचः स य एवं विद्वानृचोऽहरहः स्वाध्यायमधीते पयआहुतिभिरेव तद्देवांस्तर्पयति त एनं तृप्तास्तर्पयन्ति योगक्षेमेण प्राणेन रेतसा सर्वात्मना सर्वाभिः पुण्याभिः संपद्भिर्घृ॑तकुल्या मधु॑कुल्या पितृ॒न्त्स्व॒धा अ॑भिवहन्ति ॥... मध्वाहुतयो ह वा एता देवानां यदनुशासनानि विद्या वाकोवाक्यमितिहासपुराणं गाथा नाराशंस्यः स य एवं विद्वाननुशासनानि ... नाराशंसीरित्यहरहः स्वाध्यायमधीते मध्वाहुतिभिरेव तद्देवांस्तर्पयति त एनं तृप्तास्तर्पयन्ति योग० ... । शतपथब्रा. XI. 5. 6. 3-4 and 8. Compare Aśv. gṛ. III. 3. 2-3; in Baud. Dh. S. II. 6. 8 the passage स्वाध्यायो वै ब्रह्मयज्ञः ... ध्येतव्यः is quoted as ब्राह्मण. 'यद् ब्राह्मणानीतिहासान्पुराणानि कल्पान् गाथा नाराशंसीर्मेदाहुतिभिरेव तद्देवांस्तर्पयति त एनं तृप्ता आयुष्रा तेजसा वर्चसा श्रिया यशसा ब्रह्मवर्चसेनान्नाद्येन च तर्पयन्ति । तै. आ. II. 10. Vide गोभिलस्मृति II. 52-60 where these ideas (about the Vedas and others being āhutis of milk, honey &c.) are put forward.

v3.c54.80

ब्रह्मयज्ञेन यक्ष्यमाणः प्राच्यां दिशि ग्रामादच्छदिर्दर्श उदीच्यां प्रागुदीच्यां वोदित आदित्ये दक्षिणत उपवीयोपविश्य हस्तावनिज्य त्रिराचामेद् द्विः परिमृज्य सकृदुपस्पृश्य शिरश्चक्षुषी नासिके श्रोत्रे हृदयमालभ्य ... दर्भाणां महदुपस्तीर्योपस्थं कृत्वा प्राङासीनः स्वाध्यायमधीयीतापां वा एष ओषधीनां रसो यद्दर्भाः सरसमेव ब्रह्म कुरुते । दक्षिणोत्तरी पाणी पादौ कृत्वा सवित्रावोमिति प्रतिपद्यत एतद्वै यजुर्ऋचं विद्यां प्रत्येषा वागेतत्परममक्षरं तदेतदृचाभ्युक्तम् । ऋचो अक्षरे...समासते। इति। त्रीनेव प्रामुङ्क्त भूर्भुवः स्वरित्याहैतद्वै वाचः सत्यं यदेव वाचः सत्यं तत्प्रायुङ्क्त । अथ सावित्रीं गायत्रीं त्रिरन्वाह पच्छोऽर्धर्चशोऽनवानं सविता श्रियः प्रसविता श्रियमेवाप्नोत्यथो प्रज्ञातयैव प्रतिपदा छन्दांसि प्रतिपद्यते । तै. आ. II. 11 (a clause praising ācamana &c. has been omitted). (ब्रह्मयज्ञ of modern times) आचम्य प्राणानायम्य श्रीपरमेश्वर ... इति संकल्प्य दर्भेषु दर्भपाणिः प्राङ्मुख एवोपविश्य वामजङ्घोपरिमूलदेशे दक्षिणपादं निधायाथवा वामपादाङ्गुष्ठोपरि दक्षिणपादाङ्गुष्ठं निधायैवमुपस्थं कृत्वा दक्षिणजानुस्थे वामकरे उत्ताने प्रागग्राङ्गुलो प्रागग्रे द्वे पवित्रे धृत्वा दक्षिणकरेण तथैव संपुटीकृत्य द्यावापृथिव्योः संधिमीक्षमाणो निमीलिताक्षो वा ओंकारव्याहृतीः सकृदुच्चार्य गायत्रीं पच्छोऽर्धर्चशः सर्वामनवानामिति त्रर्जपेत् । ततोऽग्निमीळ इति सूक्तं पठित्वा संहिता ब्राह्मणषडङ्गानि एकं समाप्यपरमिति अध्यायं सूक्तमृचं वा यथाशक्ति क्रमशः पठेत् । मन्त्रब्राह्मणादीनि भागशः सर्वाणि यथाशक्ति प्रतिदिनं पठेद्दिति केचित् । एवं चतुर्वेदाध्यायी क्रमशश्चतुर्वेदान् भागशः सर्वानैव वा ऋग्वेदपूर्वकन्पठेत् । एकैकशाखाध्यायी तु स्वशाखामेव । शाखाध्ययनाभावे सूक्तमृचं वा पठित्वैकं यजुः साम चोपनिषदश्चेतिहासपुराणादींश्च पठेत् । पुरुषसूक्तमुक्त्वा नमो ब्रह्मणे नमोस्त्वग्नय इति ऋचं त्रिः पठेत् । नात्र ऋष्यादिस्मरणम् । विद्युदसीत्यादेरायन्ते पाठस्तैत्तिरीयविषयः । धर्मसिन्धु III. पूर्वार्ध p. 299.

v3.c54.81

PAGE 704 NOTE 1684 (तर्पण). आश्व. गृ. III. 4. 1-5. देवतास्तर्पयति । प्रजापतिर्ब्रह्मा वेदा देवा. ऋषयः सर्वाणि छन्दांसि ओंकारो वषट्- कारो व्याहृतयः सावित्री यज्ञा द्यावापृथिवी अन्तरिक्षमहोरात्राणि सांख्याः सिद्धाः समुद्रा नद्यो गिरयः क्षेत्रौषधिवनस्पतिगन्धर्वाप्सरसो नागा वयांसि गावः साध्या विप्रा यक्षा रक्षांसि भूतान्येवमन्तानि । अथ ऋषयः । शतर्चिनो मध्यमा गृत्समदो विश्वामित्रो वामदेवोऽत्रिर्भरद्वाजो वसिष्ठः प्रगाथाः पावमान्यः क्षुद्रसूक्ता महासूक्ता इति । प्राचीनावीती । सुमन्तुजैमिनिवैशम्पायनपैलसूत्रभाष्यभारतमहाभारतधर्माचार्याः जानन्ति बाहविगार्ग्यगौतम-शाकल्यबाभ्रव्यमाण्डव्यमाण्डूकेया गार्गीवाचक्रवी वडवाप्रातिथेयी सुलभामैत्रेयी कहोळं कौषीतकं महाकौषीतकं पैङ्ग्यं महापैङ्ग्यं सुयज्ञं सांख्यायनमैतरेयं महैतरेयं शाकलं बाष्कलं सुजातवक्त्रमौदवाहिं महौदवाहिं सौजामिं शौनकमाश्वलायनं ये चान्ये आचार्यास्ते सर्वे तृप्यन्त्विति । प्रतिपूरुषं पितूंस्तर्पयित्वा गृहानेत्य यद्ददाति सा दक्षिणा ।

v3.c54.82

PAGE 770 NOTE 1842—कृतनित्यविधिः पादौ प्रक्षाल्य बहिर्द्विराचम्य प्राङ्मुख उदङ्मुखो वा यज्ञोपवीती सोत्तरवासा विभवे रत्नहिरण्यपाणिर्गन्धाक्षतमाल्यवान् शुचिः प्रशस्तश्रोपण्याद्विश्लक्ष्णे चतुष्पादपीठे सुखासीनो भूमौ पादौ प्रतिष्ठाप्यान्तर्जानुकरी वाग्यतस्ताञ्चित्तश्चतुरस्रे गोमयमण्डले सपर्यान्ते विप्रो दीपसंनिधौ भुञ्जीत । त्रिकोणमण्डले नृपः । वर्तुले वैश्यः । अभ्युक्षिते शूद्रो भुञ्जीत । ततो मण्डले पालिकायन्त्रादौ शुद्धं पात्रं निघाय प्रक्षाल्य पञ्चमहायज्ञावशिष्टं पूर्वं तु संस्कृतं विहितं मितं घृताद्युपस्कृतं मातृभार्या-दिदत्तमतिथ्यभ्यागतभृत्यपुत्रादिपरिवृत एकान्ते भुञ्जीत । तदन्नमकुत्सयन् ब्रह्मग्रन्थिरहित-पवित्रदक्षिणपाणिर्गायत्र्याऽभ्युक्ष्यैान्नं ओंभूरित्यादिमन्त्रेणाभिमन्त्र्य सत्यं त्वर्तेन परिषिञ्चामि ओं चित्राय नमश्चित्रगुप्ताय नमो यमाय नमः सर्वभूतेभ्यो नम इति भूमौ बलिं दत्त्वा हस्तपादवदनाः करमध्येनान्नमलङ्घयन्नमृतोपस्तरणमसीत्यपोशनं गृहीत्वा सर्वाङ्गु-लिभिः सर्वग्रासं प्रसन् प्राणायोपानाय व्यानायोदानाय समानायेति स्वाहान्तैः पञ्चाहुतीः सघृताः सक्षीरा वा हुत्वा वाक्पाणिपादचापल्यं वर्जयन् कृत्स्नं ग्रासं साङ्गुष्ठं ग्रसन्नरो भुक्त्वा अमृतापिधानमसीति गण्डूषार्धं पीत्वार्धं भूमौ बहिःपाणिं निर्णीय पवित्रं विसृज्य भूमौ पात्रे वा क्षित्त्वा सम्यगुच्छिष्टं प्रक्षाल्य द्विराचामेत् । ततो हस्तौ संमृज्य परिम्रा-व्याङ्गुष्ठेन चक्षुषोर्निष्पिञ्ज्याक्षिणी स्पृष्ट्वाभिमुपस्पृश्येष्टदेवतां स्मरेत् । स्मृत्यर्थसार pp. 68–69.

v3.c54.83

PAGE 811 NOTE 1926—अथातोऽध्यायोपाकरणम् । ओषधीनां प्रादुर्भावे श्रवणेन श्रावणस्य । पञ्चम्यां हस्तेन वा । आज्यभागौ हुत्वाज्याहुतीर्जुहुयात् । सावित्र्यै ब्रह्मणे श्रद्धायै मेधायै प्रज्ञायै धारणायै सदसस्पतयेऽनुमतये छन्दोभ्य ऋषिभ्यश्चेति । अथ दधिसक्तूञ्जुहोति । अभिमीळे पुरोहितमित्येका । कुषुम्भकस्तदब्रवीत्, आवदंस्त्वं शकुने भद्रमावद, गृणाना जमदग्निना, धामं ते विश्वं भुवनमधिश्रितम्, गन्ता नो यज्ञं यज्ञियाः सुशमि, यो नः स्वो अरणः, प्रतिचक्ष्व विचक्ष्व, आग्ने याहि मरुत्सखा, यत्ते राजञ्छ्रुतं हविरिति द्व्यृचाः । समानी व आकूतिरित्येका । तच्छंयोरावृणीमह इत्याका । अध्येष्य-माणोऽप्याच्यैरन्वारब्ध एताभ्यो देवताभ्यो हुत्वा सौविष्टकृतं हुत्वा दधिसक्तून्प्राश्य ततो मार्जनम् । अपरेणाग्निं प्राक्कूलेषु दर्भेषूपविश्योदपात्रे दर्भान्कृत्वा ब्रह्माञ्जलिकृतो जपेत् । ओंपूर्वा व्याहृतीः सावित्रीं च त्रिरभ्यस्य वेदादिमारभेत् । आश्व. गृ. III. 5. 3–12.

v3.c54.84

PAGE 821 NOTE 1943 (श्रवणाकर्म)—श्रावण्यां पौर्णमास्यां श्रवणाकर्म। अक्षतसक्तूनां नवं कलशं पूरयित्वा दर्वी च बलिहरणीं नवे शिक्ये निदधाति। अक्षतधानाः कृत्वा सर्पिषाऽर्धा अनक्ति। अस्तमिते स्थालीपाकं श्रपयित्वैककपालं च पुरोडाशं अग्ने नय सुपथा राये अस्मानिति चतसृभिः प्रत्यृचं हुत्वा पाणिनैककपालं अच्युताय भौमाय स्वाहेति। अवप्लुतः स्याद्याविःपृष्ठो वा। मा नो अग्नेऽवसृजो अघायेत्येनमाशयेनाभिजुहोति। शं नो भवन्तु वाजिनो हवेष्वित्युक्त्वा धाना अञ्जलिना। अमात्येभ्य इतरा दद्यात्। कलशात् सक्तूनां दर्वी पूरयित्वा प्रागुपनिष्क्रम्य शुचौ देशेऽपो निनीय सर्पदेवजनेभ्यः स्वाहेति हुत्वा नमस्करोति। ये सर्पाः पार्थिवा ये आन्तरिक्षा ये दिव्या ये दिश्यास्तेभ्य इमं बलिमहार्षं तेभ्य इमं बलिमुपाकरोमीति। प्रदक्षिणं परीत्य पश्चाद्बहेलेरुपविश्य सर्पोऽसि सर्पतां सर्पाणामधिपतिरस्यन्नेन मनुष्याँस्त्रायसेऽपूपेन सर्पान्यज्ञेन देवाँस्त्वयि मा सन्तं त्वयि सन्तः सर्पा मा हिंसिषुर्भ्रुवां ते परिददामीति। ध्रुवामुं ते ध्रुवामुं ते इत्यमात्याननुपूर्वम्। ध्रुव मां ते परिददामीत्यात्मानमन्ततः। नैनमन्तरा व्यवेयुरा परिदानात्। सर्पदेवजनेभ्यः स्वाहेति सायं प्रातर्बलिं हरेदा प्रत्यवरोहणात्। प्रसंरूह्याय हैके तावतो बलींस्तदहरेवोपहरन्ति। आश्व. गृ. II. 1. 1–15.

v3.c54.85

PAGE 830 NOTE 1959—निवेशनं पुनर्नवीकृत्य लेपनस्तरणोपस्तरणैरस्तमिते पायसस्य जुहुयुरप श्वेतपदा जहि पूर्वेण चापरेण च। सप्त च वारुणीरिमाः सर्वाश्च राजबान्धवीः स्वाहा। न वै श्वेतस्याभ्यागारेऽहिर्जघान किंचन। श्वेताय वैदार्वाय नमः स्वाहेति। नात्र सौविष्टकृत्। अभयं नः प्राजापत्येभ्यो भूयादित्यभिमीक्षमाणो जपति। शिवो नः सुमना भवेति हेमन्तं मनसा ध्यायात्। पश्चादग्नेः स्वस्तरः स्वास्तीर्णस्तस्मिन्नुपविश्य स्योना पृथिवी भवेति जपित्वा संविशेत्सामात्यः प्राक्शिरा उदङ्मुखः। यथावकाशमितरे। ज्यायाञ् ज्यायान्वानन्तरः। मन्त्रविदो मन्त्रान्जपेयुः। संहाय अतो देवा अवन्तु न इति त्रिः। एतां दक्षिणामुखाः प्रत्यङ्मुखा उदङ्मुखाश्चतुर्थम्। संहाय सौर्याणि स्वस्त्ययनानि च जपित्वान्नं संस्कृत्य ब्राह्मणान्भोजयित्वा स्वस्त्ययनं वाचयीत। आश्व. गृ. II. 3. 3–12.

v3.c54.86

PAGE 862 NOTE 2025—

v3.c54.87

1. बहुभिर्वसुधा दत्ता राजभिः सगरादिभिः।
यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम्॥¹

v3.c54.88.111

¹ This occurs in भविष्यपुराण IV. 164. 22 (भुक्ता for दत्ता), in पद्मपुराण VI. 33. 26-27. This is read as राजभिर्बहुभिर्भुक्ता दीयते च पुनः पुनः। यस्य etc. in E. I. vol. 20 p. 159 (in G. S. 159 i. e. 478-9 A. D.). In E. I. vol.15. p. 133 (G. S. 129) 2nd pāda is बहुभिश्चानुपालिता. This verse is बृहस्पति 26 and वृद्धगौतम p. 541; it is ascribed to Vyāsa in I. A. VI. p. 363 (Śake 500) and p. 9 Gupta Inscriptions (G. S. 199), to Manu in E. I. vol. VI. p. 18; vide for other early citations E. I. vol. I. p. 88, vol. II. 'p. 20, VIII. p. 162, I. A. vol. 19 pp. 16-18, Gupta Inscriptions No. 21 p. 93 (156 G. S.), No. 23 p. 108 (G. S. 191).
2. Quoted by विश्वरूप on या. I. 316, by अपरार्क from विष्णुधर्मोत्तर on p. 369. I. A. VI. p. 9, E. I. XI. p. 221 (490 A. D.), E. I. X. p. 53 (456 A. D.), J. B. B. R. A. S. X. p. 365 (dated 532 śake) ascribe to Vyāsa. For other early references vide E. I. vol. XIX. p. 16, vol. X. p. 51 and 53, E. I. vol. 21 pp. 16, 18. The latter half is बृहस्पति v. 29. In E. I. vol. 12 p. 135 verses 1, 2, 6, 25 are ascribed to both Vyāsa and Manu. गृह. र. p. 517 quotes whole as बृहस्पति's.
3. Quoted as बृहस्पति's in Gr. R. Vide I. A. VI. p. 9. (Valabhī saṁvat 269), E. I. vol. 8 p. 146 (4th pāda is हन्तुः पिबति दुष्कृतम्), vol. 8. p. 162, E. I. XI. p. 111.

v3.c54.88.22

4. This is बृहस्पति 28, and Aparārka p. 370 from आदित्यपुराण (in both श्वविष्ठायां and बृहस्पति reads पच्यते). Vide Gupta inscriptions No. 23 (G. S. 191) and No. 26 p. 119 (श्वविष्ठायां) in G. S. 174, I. A. VI. p. 363 (śake 500), E. I. VI. p. 45 (G. S. 300), E. I. XIII. 270 and 333. Pargiter in J. R. A. S. 1912 p. 250 points out that verses 1, 2 and 4 occur in Padmapurāṇa VI. 33. 26-30.
5. पद्मपुराण VI. 33. 32 (तेषामनन्तं फलमश्नुवीत) This is वसिष्ठ 28. 16 (except 3rd pāda), बृहस्पति 30, वनपर्व 200. 128, संवर्त 77. This occurs in Gupta Ins. No. 81 p. 296, E. I. VI. p. 285 at p. 293 (śake 789), E. I. VII at p. 105, E. I. IX. p. 37 (śake 836). The Śat. Br. (S. B. E. vol. 26 p. 63) says 'Gold is sprung from Agni's seed'.
6. It occurs in भविष्यपुराण IV. 164. 38. Last pāda is quoted by मिता. on या. I. 320. In some inscriptions it is read as पूर्वदत्तां द्विजातिभ्यो यत्नाद्रक्ष &c. It occurs in E. I. 17 p. 345 at p. 348 (G. S. 113), E. I. vol 15 p. 133 (G. S. 129), E. I. XI at p. 221, E. I. V. p. 37 (Cedi Saṁvat 392), E. I. 20 p. 59 (G. S. 199), E. I. VI. p. 285 (śake 789), E. I. VIII. p. 287 (G. S. 199), I. A. vol. VI. 363 (śake 500); Gupta Ins. No. 26 at p. 119 (G. S. 174).
7. E. I. vol. 15. p. 335, E. I. VI. p. 18, E. I. IX. p. 101 (660. A. D.)
8. Quoted as बृहस्पति's in गृह. र. p. 518. It occurs in E. I. vol. 20 p. 59 (G. S. 159), E. I. vol. II. pp. 20–21, E. I. vol. V. 37, E. I. VI. p. 211 (śake 692), and p. 298 (609–10 A. D.), I. A. vol. VI. p. 73 (śake 534), E. I. X. p. 74, E. I. XI. pp. 113–14, E. I. XII. p. 205. In some ins. the reading is ब्रह्मदेयव्यवहारिणः and also देवदायं हरन्ति ये. भविष्यपुराण IV. 164. 39 is तोयहीनेष्वरण्येषु शुष्क०
9. This occurs in E. I. vol. II. pp. 20–21 (Cedi saṁ. 346), II. p. 220 (śake 922), II. 360 (saṁ. 1162), E. I. V. 37 (Cedi saṁ 392), E. I. VI. at p. 298 (609–10 A. D.), I. A. VI. 73 (śake 534), E. I. VIII. 190 (G. S. 320), E. I. XI. 16, 18 (574 A. D.), E. I. XII. p. 35 (609 A. D.).
10. In some inscriptions the order of the halves is reversed. This occurs in E. I. IX. p. 37 (śake 836), E. I. X. at p. 67 (śake 815), E. I. II. 125 and 220 (śake 922), E. I. IV. p. 153, E. I. VI. p. 97 (śake 1114.), E. I. XI. pp. 20, 24 (saṁ. 1186) and p. 141 (1047 A. D.).
11. This is वसिष्ठ 17. 86, बृहस्पति 46, पद्मपुराण VI. 33. 45, बौ. ध. सू. I. 5. 102 (first half). Some ins. read देवस्वं विषमुच्यते. This occurs in E. I. X. p. 67 (śake 815), E. I. XV. p. 252, E. I. XI. at pp. 312–13 (saṁ. 1176), E. I. XIII. p. 173 (śake 977), E. I. IX. at p. 305 (saṁ. 1148), E. I. XIII. at p. 22.

v3.c54.88.161

12. This is बृहस्पति 17 (with slight variations) and is quoted by अपरार्क p. 370 as from विष्णुधर्मोत्तर. It is also पद्मपुराण VI. 33. 17. It occurs in Gupta Ins. No. 26 p. 117 (G. S. 174) and in Naihati plate of Ballālasena, E. I. XIV p. 156 at p. 161.

v3.c54.88.p4

13. This occurs in Gupta Ins. No 26 p. 117 (G. S. 174).

v3.c54.89

2. षष्टिं वर्षसहस्राणि स्वर्गे मोदति भूमिदः ।
आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् ॥
3. स्वदत्तां परदत्तां वा यो हरेत वसुन्धराम् ।
गवां शतसहस्रस्य हन्तुः प्राप्नोति किल्बिषम् ॥
4. स्वदत्तां परदत्तां वा यो हरेत वसुन्धराम् ।
श्वविष्ठायां कृमिर्भूत्वा पितृभिः सह मज्जति ॥
5. अग्नेरपत्यं प्रथमं सुवर्णं भूर्वैष्णवी सूर्यसुताश्च गावः ।
दत्तास्त्रयस्तेन भवन्ति लोका यः काञ्चनं गां च महीं च दद्यात् ॥
6. स्वदत्तां परदत्तां वा यत्नाद्रक्ष युधिष्ठिर ।
महीं महिमतां श्रेष्ठ दानाच्छ्रेयोऽनुपालनम् ॥
7. स्वं दातुं सुमहच्छक्यं दुःखमन्यार्थपालनम् ।
दानं वा पालनं वेति दानाच्छ्रेयोऽनुपालनम् ॥

v3.c54.90

8. विन्ध्याटवीष्वतोयासु शुष्ककोटरवासिनः ।
कृष्णसर्पाभि्जायन्ते ब्रह्मदेयापहारकाः ॥

v3.c54.91

9. यानीह दत्तानि पुरा नरेन्द्रैर्दानानि धर्मार्थयशस्कराणि ।
निर्माल्यवान्तप्रतिमानि तानि को नाम साधुः पुनराददीत ॥

v3.c54.92

10. सर्वानितान्भाविनो भूमिपालान् भूयो भूयो याचते रामचन्द्रः ।
सामान्योयं धर्मसेतुर्नृपाणां कालेकाले पालनीयो भवद्भिः ॥

v3.c54.93

11. न विषं विषम इत्याहुर्ब्रह्मस्वं विषमुच्यते ।
विषमेकाकिनं हन्ति ब्रह्मस्वं पुत्रपौत्रकम् ॥

v3.c54.94

12. आस्फोटयन्ति पितरः प्रवल्गन्ति पितामहाः ।
भूमिदोऽस्मत्कुले जातः स नस्त्राता भविष्यति ॥

v3.c54.95

13. प्रायेण हि नरेन्द्रणां विद्यते नाशुभा गतिः ।
पूयन्ते ते तु सततं प्रयच्छन्तो वसुन्धराम् ॥

v3.c54.96

14. सुवर्णमेकं गामेकां भूमेरप्येकमङ्गुलम् ।
हरन्नरकमाप्नोति यावदाभूतसंप्लवम् ॥

v3.c54.97

15. भूमिं यः प्रतिगृह्णाति यश्च भूमिं प्रयच्छति ।
उभौ तौ पुण्यकर्माणौ नियतं स्वर्गगामिनौ ॥

v3.c54.98

16. फालकृष्टां महीं दद्यात्सबीजां सस्यमालिनीम् ।
यावत्सूर्यकृता लोकास्तावत्स्वर्गे महीयते ॥

v3.c54.99

17. भूमिप्रदानान्न परं प्रदानं दानाद्विशिष्टं परिपालनं तु ।
सर्वेतिसृष्टां परिपाल्य भूमिं नृपा नृगाद्यास्त्रिदिवं प्रपन्नाः ॥

v3.c54.100

18. भूमिदानसमं दानमिह लोके न विद्यते ।
यः प्रयच्छति भूमिं हि सर्वकामान्ददाति सः ॥

v3.c54.101

19. योऽर्चितं प्रतिगृह्णाति दद्यान्त्यर्चितमेव वा ।
तावुभौ गच्छतः स्वर्गं नरकं तु विपर्यये ॥

v3.c54.102

20. अपि गङ्गादितीर्थेषु हन्तुर्गामथवा द्विजम् ।
निष्कृतिः स्यान्न देवस्वब्रह्मस्वहरणे नृणाम् ॥

v3.c54.103

21. मद्द्वंशजा पर महीपतिवंशजा वा पापाद्पेतमनसो भुवि भाविभूपाः ।
ये पालयन्ति मम धर्ममिमं समस्तं तेभ्यो मया विरचितोऽञ्जलिरेष मूर्ध्नि ॥

v3.c54.104

¹⁴ This is बृहस्पति 39 (with slight variations) and is quoted as यम's in गृह. र. p. 514 ( भूमेरप्यर्थमङ्गुलम् ). विश्वरूप on या. III. 252 quotes this verse but the 2nd half is अपहृत्य द्विजाग्येभ्यो नचिराद् बध्यते ध्रुवम् ॥. This occurs in E. I. IX. at p. 305 (sam. 1148), E. I. vol. II. p. 363 (sam. 1196), E. I. XI. at p. 145 (1047 A. D. ).

v3.c54.105

¹⁵ This is बृहस्पति 32, पद्मपुराण VI. 33. 35-36, and वृद्धहारीत VII. 164; it is quoted in the Mit. on Yāj. II. 114. It occurs in E. I. II. p. 360 (sam. 1162), VII. 93 (1077 A. D.), E. I. IX. at p. 305 (sam. 1148), XI. p. 20 at p. 24 (sam. 1186) and p. 145 (1047 A. D. ).

v3.c54.106

¹⁶ This is बृहस्पति 6, भविष्यपुराण (उत्तरपर्व chap. 164. 16), पद्मपुराण VI. 33. 6. It occurs in the Chiplun plates of Satyāśraya Pulakeśi II (between 609-642 A. D.), in E. I. III. at p. 52, in E. I. XII. p. 205 (1073 A. D.).

v3.c54.107

¹⁷ This is in E. I. VIII. pp. 287 (G. S. 199), Gupta Ins. No. 25 p. 115 (G. S. 209),

v3.c54.108

¹⁸ This occurs in the Pikira plates of Pallava Siṁhavarman (E. I. vol. VIII. p. 162).

v3.c54.109

¹⁹ This is Manu IV. 235 and occurs in E. I. vol. II. p. 360 (sam. 1162).

v3.c54.110

²⁰ This occurs in E. I. XIII at p. 22 (Belgaum Ins. of 1204 A. D.).

v3.c54.111

²¹ E. I. vol. XII at p. 155.

v3.c54.112

22. अद्भिर्दत्तं त्रिभिर्भुक्तं सद्भिborderश्च परिपालितम् ।
एतानि न निवर्तन्ते पूर्वराजकृतानि च ॥²²

v3.c54.113

²² E. I. VI p. 18. (plates of Kadamba Kṛṣṇavarman ascribe it to Manu).

v3.c54.114

23. शङ्खो भद्रासनं छत्रं वराश्वा वरवारणाः ।
भूमिदानस्य चिह्नानि फलमेतत्पुरन्दर ॥²³

v3.c54.115

²³ This is बृहस्पति 15 (with variations), पद्मपुराण VI. 33. 15 and occurs in E. I. VII. at p. 93 (1077 A. D. ), I. H. Q. for 1932 vol. VIII. p. 305 (saṁ. 1079), E. I. X p. 89 (śake 697), E. I. XIV p. 156 at p. 162. हेमाद्रि (दानखण्ड) p. 501 quotes it.

v3.c54.116

24. न तथा सफला विद्या न तथा सफलं धनम् ।
यथा तु मुनयः प्राहुर्दानमेकं कलौ युगे ॥²⁴

v3.c54.117

²⁴ This occurs in E. I. vol. II. p. 219, where it and verses 7, 12, 40, 41 are quoted after the remark 'इति पराशरवत्सकुत्साङ्गिरसगोतममनुप्राचे-तसक्यमुनिवचनान्यवधार्य.'

v3.c54.118

25. भूमिदानात्परं दानं न भूतं न भविष्यति ।
तस्यैव हरणात्पापं न भूतं न भविष्यति ॥²⁵

v3.c54.119

²⁵ The first half is quoted from विष्णुधर्मोत्तर by अपरार्क p. 368. This and the next occur in E. I. VIII. p. 235, in the Chendlur plates of Pallava Kumāra-Viṣṇu and in E. I. XII. p. 135.

v3.c54.120

26. पूर्वैः पूर्वतरैश्चैव दत्तां भूमिं हरेत्तु यः ॥
स नित्यव्यसने मग्नो नरके च वसेत्पुनः ॥²⁶

v3.c54.121

²⁶ E. I. VIII. p. 235.

v3.c54.122

27. गण्यन्ते पांसवो भूमेर्गण्यन्ते वृष्टिबिन्दवः ।
न गण्यते विधात्रापि धर्मसंरक्षणे फलम् ॥27-28

v3.c54.123

28. परदत्तां तु यो भूमिमुपहिंसेत्कदाचन ।
स बद्धो वारुणैः पाशैः क्षिप्यते पूयशोणिते ॥27-28

v3.c54.124

27-28 27–28. Both occur in E. I. VI. p. 97 (Gadag Ins. of Hoysala Vīraballāla, śake 1114). बृहस्पति 36 has हरते हारयेद्यस्तु मन्दबुद्धिस्तमोवृतः । स …… पाशेस्तिर्यग्योनिषु जायते ॥. No. 28 is quoted (with slight variations) in दानक्रियाकौमुदी p. 41. It occurs in भविष्यपुराण IV. 164. 33.

v3.c54.125

29. इति कमलदलाम्वुबिन्दुलोलां श्रियमनुचिन्त्य मनुष्यजीवितं च ।
इति विमलमनोभिरात्मनीनैर्न हि पुरुषैः परकीर्तयो विलोप्याः ॥²⁹

v3.c54.126

²⁹ E. I. VI. p. 285 at p. 294 (śake 789), E. I. VII. 93 (1077 A. D.), E. I. X. p. 89, I. H. Q. for 1932 vol. VIII. p. 305 (saṁ. 1079),

v3.c54.127

30. वाताभ्रविभ्रममिदं वसुधाधिपत्यमापातमात्रमधुरा विषयोपभोगाः ।
प्राणास्तृणाग्रजलबिन्दुसमा नराणां धर्मः सखा परमहो परलोकयाने ॥³⁰

v3.c54.128

³⁰ E. I. XI. p. 20 at p. 25 (saṁ. 1186), E. I. XII. p. 205.
31. E. I. II. p. 360 (sam. 1162 ), I. H. Q. 1932 vol. VIII. p. 305 (*sam.* 1079, reads अस्मत्कुलक्रममुदार०).
32. E. I. XI. at p. 141 (1047 A. D.), E. I. XI. p. 312-13 (*sam.* 1176 reads अस्मद्वंशे यदा क्षीणे यः कोपि नृ. ...... त् । एतस्याहं करे लग्नः &c. ), E. I. XII. p. 205 (1073 A. D. ).
33. E. I. XI. at p. 312-313 (samvat 1176), E. I. XII. p. 205 (1073 A. D.). This is संवर्त 73.
34. Compare बृहस्पति 35 which is quoted with variations by गृह. र. p. 517. This occurs in E. I. XI. pp. 312-313, E. I. XII. 205; compare पद्मपुराण VI. 33. 34.
35. First half is वसिष्ठ 29. 19 and बृहस्पति v. 18. This occurs in E. I. XI. at p. 312-313 (*sam.* 1176). पद्मपुराण VI. 33. 18 is very similar.
36. This is संवर्त 78, बृहस्पति 33. This occurs in E. I. XI. at p. 312-13.
37. This is बृहस्पति 38 ( वापी कूपसहस्रेण अश्व ०), पद्मपुराण VI. 33. 37 (वापीकूपसहस्रेण) and occurs in E. I. XIII p. 280-281 (śake 690), E. I. XI pp. 382-383. पराशर XII. 51 is वापीकूपतडाकाद्यैर्वाजपेयशतैरपि । गवां ...... शुध्यति ॥.
38. This is बृहस्पति 40 (हुतं दत्तं तपोधीतं यत् ...... अर्धाङ्गुलस्य &c ) and occurs in E. I. XIII. p. 312-3 and is quoted as बृहस्पति's in दानक्रियाकौमुदी p. 41. Vide पद्मपुराण VI. 33. 38.

v3.c54.129

31. अस्मत्कुलं परमुदारमुदाहरद्भिरन्यैश्च दानमिदमत्र नु मोदनीयम् ।
लक्ष्म्यास्तडित्सलिलबुद्बुदचञ्चलाया दानं फलं परयशःप्रतिपालनं च ॥

v3.c54.130

32 अस्मिन्वंशे द्विजन्नोपि यश्चान्यो नृपतिर्भवेत् ।
तस्यापि करलम्बोऽहं शासनं न व्यतिक्रमेत् ॥

v3.c54.131

33. यावन्ति सस्यमूलानि गोरोमाणि च संख्यया ।
नरस्तावन्ति वर्षाणि स्वर्गे तिष्ठति भूमिदः ॥

v3.c54.132

34. न्यायेनोपार्जिता भूमिरन्यायेनापहारिता ।
हरन्तो हारयन्तोपि आघ्नन्त्यासप्तमं कुलम् ॥

v3.c54.133

35. त्रीण्याहुरतिदानानि गावः पृथ्बी सरस्वती ।
आसप्तमं फलन्त्येते दोहवाहानिवेदनेः ॥

v3.c54.134

36. सर्वेषामेव दानानामेकजन्मानुगं फलम् ।
हाटकक्षितिगौरीणां सप्तजन्मानुगं फलम् ॥

v3.c54.135

37. तडागानां सहस्रेण अश्वमेधशतेन च ।
गवां कोटिप्रदानेन भूमिहर्ता न शुध्यति ॥

v3.c54.136

38. सत्यं चैव हुतं चैव यत्किंचिद्धर्मसंचितम् ।
अर्धाङ्गुलेन सीमाया हरणेन प्रणश्यति ॥

v3.c54.137

39. ऋणहर्त्ता भूमिहर्त्ता हारयिता हि ते त्रयः ।
एते च नरकं यान्ति यावदिन्द्राश्च चतुर्दश ॥³⁹

40. भूमिदानं सुपात्रेषु सुतीर्थेषु सुपर्वणि ।
अगाधपारसंसारसागरोत्तारणं भवेत् ॥40-41

41. धवलान्यातपत्राणि दन्तिनश्च मदोद्धताः ।
भूमिदानस्य पुण्यानि फलं स्वर्गः पुरन्दर ॥

42. देवद्विजगतां भूमिं पूर्वभुक्तां हरेत यः ।
प्रणष्टमपि कालेन तमाहुर्ब्रह्मघातकम् ॥⁴²

43. मा भूदफलशङ्का वः परदत्तेति पार्थिवाः ।
स्वदानात्फलमानन्द्यं परदत्तानुपालने ॥⁴³

v3.c54.138

³⁹ E. I. XIII. p. 281 (śake 690, reads नरकान् निपर्तन्ते यावदाभूतसंप्लवम्), E. I. XI. p. 313.

v3.c54.139

40-41 40–41. Both occur in E. I. II. p. 219 (śake 922).

v3.c54.140

⁴² This occurs in E. I. vol. XIII. at p. 173 (śake 977).

v3.c54.141

⁴³ E. I. XV at p. 5 (about 8th century A. D.).

v3.c54.142

PAGE 901 NOTE 2092—अथाम्नौ नित्यहोमान्ते विष्णोर्नित्यार्चा सर्वदेवार्चना भवति । अग्निर्वै देवानामवमो विष्णुः परमस्तदन्तरेण सर्वा अन्या देवता इति ब्राह्मणम् । तस्माद्गृहे परमं विष्णुं प्रतिष्ठाप्य सायं प्रातर्होमान्तेऽर्चयति । षडङ्गुलादहीनं तद्रूपं कल्पयित्वा पूर्वपक्षे पुण्ये नक्षत्रे प्रतिष्ठां कुर्यात् । तस्मात्पूर्वं तृतीयेऽहन्यौपासनाग्निकुण्डं कृत्वा पूर्ववत्प्रोक्षणोल्लेखनादि कर्म कुर्यात् । द्वितीयस्यां वेद्यां षट्त्रिंशदङ्गुलप्रमाणैर्दर्भैः कूर्चेन वा परिस्तीर्य परिधीन्नूर्ध्वसमिधौ निधायोर्ध्ववेद्यां यथादिशमिन्द्रादि दिग्देवान्दक्षिणे ब्रह्माणमुत्तरे सोमं च पुष्पार्यैरभ्यर्च्य तथैवाघारं जुहोति । दद्भ्यः स्वाहा हनुभ्यां स्वाहेत्यङ्गहोममतो देवादींश्च हुत्वा पुरुषसूक्तं जपन्सुवर्णेनाक्ष्यन्मेषणं करोति । नद्यां तटाके जलपूर्णपात्रे वा ये ते शतायैर्वस्त्राणि कुशांश्चास्तीर्य विष्णुसूक्तेन देवं प्राक्शिरः शाययित्वाधिवासयति । द्वितीयदिवसे स्नात्वा रात्रौ पूर्ववदाधारं हुत्वाष्टौ कलशानाहृत्य पञ्चगव्यघृतदधिक्षीराक्षतोदकफलोदककुशोदकरत्नोदकैः पूरयित्वा देवमभ्यर्च्य वसोः पवित्रमम आयाहीषे त्वोर्जे त्वा शन्नो देवीश्चत्वारि शृङ्गा सोमो धेनुं चत्वारि वागिदं विष्णुरिति कलशैः स्नापयित्वापोहिरण्यपवमानैर्गन्धतौयैश्च स्नापयति । अग्नेरुत्तरस्यां व्रीहिभिर्वेदिं कृत्वा विष्टरं न्यस्य वस्त्राण्य।स्तीर्य देवमारोप्य वस्त्रायैरलं कृत्यर्चयति । पुण्याहं कृत्वा स्वस्तिसूक्तेन तामभि मृश्य स्वस्तिदा विशस्पतिरिति प्रतिसरां बद्ध्वा पूर्ववद्देवं शाययति । कालविहीनं कुम्भमुतैराधवैरापूर्य देवस्य पार्श्वे निधाय प्रणवेनाभिमृश्य कूर्चाक्षतसुवर्णरत्नानि प्रक्षिपेत् । निष्कलं देवं हृदये तथाभावे रुक्माभं रक्तास्यनेत्रपाणिपादं श्रीवत्साङ्कं चतुर्भुजं पीताम्बरधरं शङ्खचक्रधरं सौम्यसकलं ध्यात्वा प्रणमेत् । अग्निं परिषिच्य हौत्रं प्रशस्य दक्षिणप्रणिष्याम्रों भूः पुरुषमों भुवः पुरुषमों सुवः पुरुषमों भूर्भुवः सुवः पुरुषं नारायणं विष्णुं

First 145 of 1,857 passages. Read on

Linked texts (93)