Pramāṇa · Search · About · API

History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v3.c54.137

History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v3.c54.137

Language
English

v3.c54.137

39. ऋणहर्त्ता भूमिहर्त्ता हारयिता हि ते त्रयः ।
एते च नरकं यान्ति यावदिन्द्राश्च चतुर्दश ॥³⁹

40. भूमिदानं सुपात्रेषु सुतीर्थेषु सुपर्वणि ।
अगाधपारसंसारसागरोत्तारणं भवेत् ॥40-41

41. धवलान्यातपत्राणि दन्तिनश्च मदोद्धताः ।
भूमिदानस्य पुण्यानि फलं स्वर्गः पुरन्दर ॥

42. देवद्विजगतां भूमिं पूर्वभुक्तां हरेत यः ।
प्रणष्टमपि कालेन तमाहुर्ब्रह्मघातकम् ॥⁴²

43. मा भूदफलशङ्का वः परदत्तेति पार्थिवाः ।
स्वदानात्फलमानन्द्यं परदत्तानुपालने ॥⁴³