History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v3.c54.22
History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v3.c54.22
- Language
- English
v3.c54.22
अथाचार्यो दर्व्या आज्येन स्विष्टकृतं जुहोति । ओं यदस्य९ कर्मणोत्यरीरिचं यद्वा न्यूनमिहाकरम् । अग्निष्टत् स्विष्टकृद् विद्वान् सर्वं स्विष्टं सुहुतं करोतु मे । अग्नये१० स्विष्टकृते सुहुतहुते सर्वहुत आहुतीनां कामानां समर्धयित्रे स्वाहा । अग्नये स्विष्टकृते इदं न ममेति त्यागः । इध्मबन्धनरज्जुमग्नावभ्याधाय संस्रावं जुहोति । ओं विश्वेभ्यो देवेभ्यः स्वाहेति । विश्वेभ्यो देवेभ्य इदं न ममेति त्यागः । कुमारेण सह तिष्ठन्नुपतिष्ठते ओं११ च मे स्वरश्च मे यज्ञोप च ते नमश्च । यत्ते न्यूनं तस्मै त उप यत्तेऽतिरिक्तं तस्मै ते नमः । श्रद्धां मेधां यशः प्रज्ञां विद्यां बुद्धिं श्रियं बलम् । आयुष्यं तेज आरोग्यं देहि मे हव्यवाहन इति ।