History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v3.c54.26
History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v3.c54.26
- Language
- English
v3.c54.26
ततः स्थण्डिलादुत्तरतः प्रशस्ते स्थल आचार्य उपविशति । कुमार आचार्यस्य पादयोः शिरसा प्रणम्य कृताञ्जलिस्तिष्ठन् प्रार्थयते । सावित्रीं भो अनुब्रूहीति । आचार्यः ओं तथा इत्युक्त्वा आत्मनः पुरस्तात्कुमारं स्वाभिमुखं कृतब्रह्माञ्जलिमुपवेश्य गायत्र्या गाथिनो विश्वामित्र ऋषिः सविता देवता गायत्री छन्दः । ओं भूर्भुवः स्वः । तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ॥ इति सावित्री-मन्त्रं१२ त्रिवारमुपदिशति ।