Pramāṇa · Search · About · API

History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v3.c54.80

History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v3.c54.80

Language
English

v3.c54.80

ब्रह्मयज्ञेन यक्ष्यमाणः प्राच्यां दिशि ग्रामादच्छदिर्दर्श उदीच्यां प्रागुदीच्यां वोदित आदित्ये दक्षिणत उपवीयोपविश्य हस्तावनिज्य त्रिराचामेद् द्विः परिमृज्य सकृदुपस्पृश्य शिरश्चक्षुषी नासिके श्रोत्रे हृदयमालभ्य ... दर्भाणां महदुपस्तीर्योपस्थं कृत्वा प्राङासीनः स्वाध्यायमधीयीतापां वा एष ओषधीनां रसो यद्दर्भाः सरसमेव ब्रह्म कुरुते । दक्षिणोत्तरी पाणी पादौ कृत्वा सवित्रावोमिति प्रतिपद्यत एतद्वै यजुर्ऋचं विद्यां प्रत्येषा वागेतत्परममक्षरं तदेतदृचाभ्युक्तम् । ऋचो अक्षरे...समासते। इति। त्रीनेव प्रामुङ्क्त भूर्भुवः स्वरित्याहैतद्वै वाचः सत्यं यदेव वाचः सत्यं तत्प्रायुङ्क्त । अथ सावित्रीं गायत्रीं त्रिरन्वाह पच्छोऽर्धर्चशोऽनवानं सविता श्रियः प्रसविता श्रियमेवाप्नोत्यथो प्रज्ञातयैव प्रतिपदा छन्दांसि प्रतिपद्यते । तै. आ. II. 11 (a clause praising ācamana &c. has been omitted). (ब्रह्मयज्ञ of modern times) आचम्य प्राणानायम्य श्रीपरमेश्वर ... इति संकल्प्य दर्भेषु दर्भपाणिः प्राङ्मुख एवोपविश्य वामजङ्घोपरिमूलदेशे दक्षिणपादं निधायाथवा वामपादाङ्गुष्ठोपरि दक्षिणपादाङ्गुष्ठं निधायैवमुपस्थं कृत्वा दक्षिणजानुस्थे वामकरे उत्ताने प्रागग्राङ्गुलो प्रागग्रे द्वे पवित्रे धृत्वा दक्षिणकरेण तथैव संपुटीकृत्य द्यावापृथिव्योः संधिमीक्षमाणो निमीलिताक्षो वा ओंकारव्याहृतीः सकृदुच्चार्य गायत्रीं पच्छोऽर्धर्चशः सर्वामनवानामिति त्रर्जपेत् । ततोऽग्निमीळ इति सूक्तं पठित्वा संहिता ब्राह्मणषडङ्गानि एकं समाप्यपरमिति अध्यायं सूक्तमृचं वा यथाशक्ति क्रमशः पठेत् । मन्त्रब्राह्मणादीनि भागशः सर्वाणि यथाशक्ति प्रतिदिनं पठेद्दिति केचित् । एवं चतुर्वेदाध्यायी क्रमशश्चतुर्वेदान् भागशः सर्वानैव वा ऋग्वेदपूर्वकन्पठेत् । एकैकशाखाध्यायी तु स्वशाखामेव । शाखाध्ययनाभावे सूक्तमृचं वा पठित्वैकं यजुः साम चोपनिषदश्चेतिहासपुराणादींश्च पठेत् । पुरुषसूक्तमुक्त्वा नमो ब्रह्मणे नमोस्त्वग्नय इति ऋचं त्रिः पठेत् । नात्र ऋष्यादिस्मरणम् । विद्युदसीत्यादेरायन्ते पाठस्तैत्तिरीयविषयः । धर्मसिन्धु III. पूर्वार्ध p. 299.

Linked texts (6)