History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v3.c54.89
History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v3.c54.89
- Language
- English
v3.c54.89
2. षष्टिं वर्षसहस्राणि स्वर्गे मोदति भूमिदः ।
आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् ॥
3. स्वदत्तां परदत्तां वा यो हरेत वसुन्धराम् ।
गवां शतसहस्रस्य हन्तुः प्राप्नोति किल्बिषम् ॥
4. स्वदत्तां परदत्तां वा यो हरेत वसुन्धराम् ।
श्वविष्ठायां कृमिर्भूत्वा पितृभिः सह मज्जति ॥
5. अग्नेरपत्यं प्रथमं सुवर्णं भूर्वैष्णवी सूर्यसुताश्च गावः ।
दत्तास्त्रयस्तेन भवन्ति लोका यः काञ्चनं गां च महीं च दद्यात् ॥
6. स्वदत्तां परदत्तां वा यत्नाद्रक्ष युधिष्ठिर ।
महीं महिमतां श्रेष्ठ दानाच्छ्रेयोऽनुपालनम् ॥
7. स्वं दातुं सुमहच्छक्यं दुःखमन्यार्थपालनम् ।
दानं वा पालनं वेति दानाच्छ्रेयोऽनुपालनम् ॥