Pramāṇa · Search · About · API

History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v3.c54.9

History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v3.c54.9

Language
English

v3.c54.9

PAGE 281, NOTE 653—(उपनयनप्रयोगः)—अलंकृतं कुमारं कुशलीकृतशिरसमहतेन वाससा संवीतमैणेयेन वाजिनेन ब्राह्मणं रौरवेण क्षत्रियमाजेन वैश्यं यदि वासांसि वसीरन् रक्तानि वसीरन् काषायं ब्राह्मणो माञ्जिष्ठं क्षत्रियो हारिद्रं वैश्यः । तेषां मेखलाः ।...तेषां दण्डाः । ... समन्वारब्धे हुत्वोत्तस्तोऽग्रेः प्राङ्मुख आचार्योवतिष्ठते । पुरस्तात्प्रत्यङ्मुख इतरः । अपामञ्जली पूरयित्वा तत्सवितुर्वृणीमह इति पूर्नेनास्य पूर्णमवक्षारयन्त्यासिञ्च्य देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां हस्तं गृह्णाम्यसाविति तस्य पाणिना पाणिं साङ्गुष्ठं गृह्णीयात् । सविता ते हस्तमग्रभीदसाविति द्वितीयम् । अग्निरार्यार्यस्तवासाविति तृतीयम् । आदित्यमीक्षयेत् । देव सवितरेष ते ब्रह्मचारी तं गोपाय स मा मृतेत्याचार्यः । कस्य ब्रह्मचार्यसि प्राणस्य ब्रह्मचार्यसि कस्त्वो कमुपिनयते काय त्वा परिददामीति । युवा सुवासाः परिवीत आगादित्यर्धेर्चेनैनं प्रदक्षिणमावर्तयेत् । तस्याध्यंसौ पाणी कृत्वा हृदयदेशमालभेतोत्तरेण । अग्निं परिसमुह्य ब्रह्मचारी तूष्णीं समिधमादध्यात् तूष्णीं वै प्राजापत्यं प्राजापत्यो ब्रह्मचारी भवतीति विज्ञायते । मन्त्रेण हैके अग्नये समिधमाहार्षं बृहते जातवेदसे । तया त्वमग्ने वर्धस्व समिधा ब्रह्मणा वयं स्वाहेति । स समिधमाधायाभिमृपस्पृश्य मुखं निमार्ष्टि त्रिः तेजसा मा समनज्मीति । तेजसा ह्येवात्मानं समनक्रीति विज्ञायते । मयि मेधां मयि प्रजां मय्यग्निस्तेजो दधातु । मयि मेधां...मय्यीन्द्र इन्द्रियं दधातु । मयि मेधां...मयि सूर्यो भ्राजो दधातु । यत्ते अग्ने तेजस्तेनाहं तेजस्वी भूयासम् । यत्ते अग्ने वर्चस्तेनाहं वर्चस्वी भूयासम् । यत्ते अग्ने हरस्तेनाहं हरस्वी भूयासम् । इत्युपस्थाय जान्वाच्योपसंगृह्य ब्रूयात् । अधीहि भोः सावित्रीं भो अनुब्रूहीति । तस्य वाससा पाणिभ्यां च पाणी संगृह्य सावित्री मन्वाह पच्छोऽर्धर्चशः सर्वाम् । यथाशक्ति वाचयति । हृदयदेशेऽस्योर्ध्वाङ्गुलिं पाणिमुपदधाति । मम व्रते हृदयं ते दधामि मम चित्तमनु चित्तं ते अस्तु । मम वाचमेकव्रतो जुषस्व बृहस्पतिष्ट्वा नियुनक्तु मह्यमिति । मेखलामाबध्य दण्डं प्रदाय ब्रह्मचर्यमादिशेत् । ब्रह्मचार्यस्यपोशान कर्म कुरु दिवा मा स्वाप्सीराचार्याधीनो वेदमधीष्वेति । द्वादशवर्षाणि वेदब्रह्मचर्यम् । ग्रहणान्तं वा । सायंप्रातर्भिक्षेत । सायंप्रातः समिधमादध्यात् । ... तदाचार्याय वेदयोत तिष्ठेदहःशेषम् । आश्व. गृ. 1. 19. 8–1. 22–10.

Linked texts (1)